Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.282

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.282.1

भ्रातरः पितरः पौत्रा ज्ञातयः सुहृदः सुताः ।
अर्थहेतोर्हताः क्रूरैरस्माभिः पापबुद्धिभिः ॥ १२.२८२.१ ॥

兄弟、父辈、孙辈、亲属、友人与儿子,为了财富,被我们这些残忍而心怀恶念的人所杀。

12.282.2

येयमर्थोद्भवा तृष्णा कथमेतां पितामह ।
निवर्तयेयं पापानि तृष्णया कारिता वयम् ॥ १२.२८२.२ ॥

祖父啊,这由财富而生的贪欲,我该如何制止?我们正是被贪欲驱使,才犯下这些罪过。

12.282.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं विदेहराजेन माण्डव्यायानुपृच्छते ॥ १२.२८२.३ ॥

关于此事,人们还讲述这个古老的传说,它是在曼达婆耶询问时,由毗提诃国王所唱的。

12.282.4

सुसुखं बत जीवामि यस्य मे नास्ति किंचन ।
मिथिलायां प्रदीप्तायां न मे दह्यति किंचन ॥ १२.२८२.४ ॥

我过得非常快乐,因为我一无所有。即使弥提罗城烈火燃烧,我的任何东西也不会被焚毁。

12.282.5

अर्थाः खलु समृद्धा हि गाढं दुःखं विजानताम् ।
असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् ॥ १२.२८२.५ ॥

对于明智之人而言,财富丰盈实际上带来深重的痛苦;而即使财富匮乏,它也总是迷惑无知之人。

12.282.6

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ १२.२८२.६ ॥

世间的欲乐,以及那伟大神圣的快乐,都不及灭除贪欲之乐的十六分之一。

12.282.7

यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते ।
तथैव तृष्णा वित्तेन वर्धमानेन वर्धते ॥ १२.२८२.७ ॥

如同牛角随着牛的长大而随时间增长,贪欲也随着增长的财富而增长。

12.282.8

किंचिदेव ममत्वेन यदा भवति कल्पितम् ।
तदेव परितापाय नाशे संपद्यते पुनः ॥ १२.२८२.८ ॥

当因占有之心将某物视为己有时,此物一旦失去,便又成为痛苦的根源。

12.282.9

न कामाननुरुध्येत दुःखं कामेषु वै रतिः ।
प्राप्यार्थमुपयुञ्जीत धर्मं कामान्विवर्जयेत् ॥ १२.२८२.९ ॥

不应追逐欲望,因为沉溺于欲望本身便是痛苦。获得财富后应善加使用,遵循法,并舍弃欲望。

12.282.10

विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत् ।
कृतकृत्यो विशुद्धात्मा सर्वं ज्यजति वै स्वयम् ॥ १२.२८२.१० ॥

智者在一切众生之中应如虎肉一般(无所执着)。已完成所当为、心地清净的人,自会舍弃一切。

12.282.11

उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये ।
भयाभये च संत्यज्य भव शान्तो निरामयः ॥ १२.२८२.११ ॥

舍弃真与假、悲与喜、爱与不爱、恐惧与无惧这两端之后,应当平静而无病无扰。

12.282.12

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखं ॥ १२.२८२.१२ ॥

那种让愚人难以舍弃、即便身体衰老也不会衰老、如同致命疾病的渴爱——舍弃这渴爱的人便得安乐。

12.282.13

चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम् ।
धर्मात्मा लभते कीर्ति प्रेत्य चेह यथासुखम् ॥ १२.२८२.१३ ॥

法性之人见自身行为如月般清净无垢,今世与死后皆得享其乐而获名声。

12.282.14

राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः ।
पूजयित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः ॥ १२.२८२.१४ ॥

婆罗门闻听国王之言甚为欢喜;敬重此语之后,曼荼婆遂得解脱。