摩诃婆罗多 · 章 12.283
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.283.1
अतिक्रामति कालेऽस्मिन्सर्वभूतभयावहे ।
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥ १२.२८३.१ ॥
当这个令一切众生恐惧的时代流逝之时,人应当获得何种善果?祖父,请告诉我。
12.283.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर ॥ १२.२८३.२ ॥
此处的人也讲述这个古老的故事,即父子之间的对话。युधिष्ठिर,请听。
12.283.3
द्विजातेः कस्यजित्पार्थ स्वाध्यायनिरतस्य वै ।
पुत्रो बभूव मेधावी मेधावी नाम नामतः ॥ १२.२८३.३ ॥
普利塔之子啊,某位专心诵习吠陀的再生者生了一个聪慧的儿子,名叫梅达维。
12.283.4
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् ।
मोक्षधर्मेष्वकुशलं मोक्षधर्मविचक्षणः ॥ १२.२८३.४ ॥
那位精通解脱法的儿子,对专心诵习、不熟解脱法的父亲说道。
12.283.5
धीरः किंस्वित्तात कुर्यात्प्रजानन् ।
क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्।
पितस्तथाऽऽख्याहि यथार्थयोगं ।
ममानुपूर्व्या येन धर्मं चरेयम् ॥ १२.२८३.५ ॥
父亲啊,既知世人寿命迅速消逝,智者应当做什么?父亲,请按次序告诉我真正的瑜伽,使我能够行持法。
12.283.6
अधीत्य वेदान्ब्रह्मचर्येषु पुत्र ।
पुत्रानिच्छेत्पावनार्थं पितृणाम्।
अग्नीनाधाय विधिवच्चेष्टयज्ञो ।
वनं प्रविश्याथ मुनिर्बुभूषेत् ॥ १२.२८३.६ ॥
学习吠陀,处于梵行阶段之后,应为祖先的清净而愿有子嗣;依法安立圣火、行祭之后,入林之后,便应希望成为一位牟尼。
12.283.7
एवमभ्याहते लोके सर्वतः परिवारिते ।
अमोधासु पतन्तीषु किं धीर इव भाषसे ॥ १२.२८३.७ ॥
世界如此四面受击、被包围,不可逃避的日子接连流逝,你为何像个沉着的人那样说话?
12.283.8
कथमभ्याहतो लोकः केन वा परिवारितः ।
अमोघाः काः पतन्तीह किंनु भीषयसीव माम् ॥ १२.२८३.८ ॥
世界如何受到打击,又被什么所包围?这里哪些不可逃避的日子在流逝?你为何这样吓唬我?
12.283.9
मृत्युनाऽऽभ्याहतो लोको जस्या परिवारितः ।
अहोरात्राः पतन्तीमे तच्च कस्मान्न बुध्यसे ॥ १२.२८३.९ ॥
世界被死亡所击中,被衰老所包围。这些日夜正在流逝——你为何不觉察?
12.283.10
यदाहमेव जानामि न मृत्युस्तिष्ठतीति ह ।
सोहं कथं प्रतीक्षिप्ये ज्ञानेनापिहितश्चरन् ॥ १२.२८३.१० ॥
我明知死亡并不停留,那么带着智慧游行的我,又如何去等待它呢?
12.283.11
रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा ।
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ॥ १२.२८३.११ ॥
夜夜流逝,寿命愈加短促之时,谁能像深水中的鱼那样获得安乐呢?
12.283.12
यामेकरात्रिं प्रथमां गर्भो विशति मातरम् ।
तामेव रात्रिं प्रस्वाप्य मरणाय विवर्तकः ॥ १२.२८३.१२ ॥
在胚胎进入母体的那第一夜,人便在同一夜被催眠入睡,并转向死亡。
12.283.13
पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम् ।
अनवाप्तेषु कामेषु मृत्युरभ्येति गानवम् ॥ १२.२८३.१३ ॥
当人采摘鲜花、心思却在别处、欲望尚未满足时,死亡便会降临。
12.283.14
श्वः कार्यमद्य कुर्वीत पूर्वाङ्गे चापराहिकम् ।
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वा कृतम् ॥ १२.२८३.१४ ॥
明天的事今天做,下午的事上午做;死亡不会等待,不管他的事是否做完。
12.283.15
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगान्महान् ।
को हि जानाति कस्याद्य मृत्युकालो मविष्यति ॥ १२.२८३.१५ ॥
今日就做对你有益的事,免得伟大的时光从你身边溜走。谁知道今天轮到谁死亡?
12.283.16
अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति ।
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ॥ १२.२८३.१६ ॥
事情尚未做完,死亡必定将人拖走。因此即使年轻人也应当守法行善,因为生命没有确定的征兆。
12.283.17
कृते धर्म भवेत्प्रीतिरिह प्रेत्य च शाश्वती ।
मोहेन हि समाविष्टः पुत्रदारार्तमुद्यतः ॥ १२.२८३.१७ ॥
奉行正法,此世与死后都有永恒的喜悦。但被迷惑所控制、为儿子和妻子而忧伤的人,却只专注于他们。
12.283.18
कृत्वा कार्यमकार्यं वा तुष्टिमेषां प्रयच्छति ।
तं पुत्रपशुसंपन्नं व्याभक्तमनसं नरम् ॥ १२.२८३.१८ ॥
无论做的是该做之事还是不该做之事,他都让他们满足。那个拥有儿子和牲畜、心思分散的人,(死亡将他带走)。
12.283.19
सप्तं व्यायं महौघो वा मृत्युरादाय गच्छति ।
संविन्वानकमेवैनं कामानामवितृप्तकम् ॥ १२.२८३.१९ ॥
如大水漫涌卷走沉没而疲惫之人,死亡也便夺去这沉溺于欲望、从未满足之人。
12.283.20
वृकीवोरपमासाद्य मुत्युरादाय गच्छति ।
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ॥ १२.२८३.२० ॥
如母狼扑向羔羊而将其叼走,死亡也便带走此人:“此事已做,此事待做,此事又是别的,做了与未做。”
12.283.21
एवमीहासमायुक्तं मृत्युरादाय गच्छति ।
कृतानां फलमप्राप्तं कार्याणां कर्मसङ्गिनाम् ॥ १२.२८३.२१ ॥
如此,死亡带走那沉溺于营求、未得所作之果、执着于事务的人。
12.283.22
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ।
दुर्बलं बलवन्तं च प्राज्ञं शूरं जडं कविम् ॥ १२.२८३.२२ ॥
死亡带走那执着于田地、市肆与房屋的人;无论弱者强者、智者勇士、愚人诗人。
12.283.23
अप्राप्तसर्वकामार्थं मृत्युरादाय गच्छति ।
मृत्युर्जरा च व्याधिश्चदुःखं चानेककारणम् ॥ १२.२८३.२३ ॥
死亡带走一切欲望与目的皆未达成之人。死亡、衰老、疾病,以及种种因缘所生的苦。
12.283.24
असंत्याज्यं यदा मर्त्यैः किं स्वस्थ इव तिष्ठति ।
जातमेवान्तकोऽन्ताय जरा चाभ्येति देहिनम् ॥ १२.२८३.२४ ॥
凡人无法舍弃之事既已临近,为何仍安然自若?自出生起,终结者便为毁灭而来,衰老也逼近有身之人。
12.283.25
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ।
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते ॥ १२.२८३.२५ ॥
这些存在,无论静止或运动,都被对立的一对所束缚。死亡之军来临时,无人能够阻挡。
12.283.26
बलात्सत्यमृते त्वेकं सत्ये ह्यमृतमाश्रितम् ।
मृत्योर्वा गृहमेतद्वै या ग्रामे वसतो रतिः ॥ १२.२८३.२६ ॥
由力量而来的真实与秩序是同一的。不死存于真实之中。或者说,这便是死亡之家:居住在村庄中的那份喜悦。
12.283.27
देवानामेषु वै गोष्ठो यदरण्यमिति श्रुतिः ।
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ॥ १२.२८३.२७ ॥
在诸神之物中,森林便是牲圈,启示如此说。居住在村庄中的喜悦,便是束缚的绳索。
12.283.28
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ।
यो न हिंसति सत्वानि मनोवाक्कर्महेतुभिः ॥ १२.२८३.२८ ॥
斩断此绳者,善人得以前行;恶人无法斩断。那不以意念、言语与行为伤害任何众生者。
12.283.29
जीवितार्थापनयनैः प्राणिभिर्न स बध्यते ।
तस्मात्सत्यव्रताचारः सत्यव्रतपरायणः ॥ १२.२८३.२९ ॥
夺取众生的生命与生计者,并不因此被束缚。因此,行为以真实誓愿为本、专注于真实誓愿者。
12.283.30
सत्यकामः समो दान्ताः सत्येनैवान्तकं जयेत् ।
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ॥ १२.२८३.३० ॥
渴求真实、心平如一、自我克制的人,可以凭真实战胜死亡本身。不死与死亡二者都安立于身体之中。
12.283.31
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम् ।
सोहं सत्यमहिंसाथीं कामक्रोधबहिष्कृतः ॥ १२.२८३.३१ ॥
死亡因迷惑而来,不死因真实而得。我追求真实与不害,已远离欲望与愤怒。
12.283.32
समाश्रित्य सुखं क्षेमी मृत्युं हास्याम्यमृत्युवत् ।
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः ॥ १२.२८३.३२ ॥
依托幸福与安稳,我将舍弃死亡,如同不死者一般;我是喜好寂静祭祀、克制自身、安住于梵祭的圣人。
12.283.33
वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने ।
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति ॥ १२.२८३.३३ ॥
我将在太阳北行之时,成为言语、意念与行为的祭祀。像我这样的人,怎能以残忍的牲畜祭祀来供奉?
12.283.34
अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् ।
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजः पितः ॥ १२.२८३.३४ ॥
父亲啊,以终将消逝的刹帝利祭祀,智者也会如同恶鬼。我由自我而生于自我之中,安住于自我,无子嗣。
12.283.35
आत्मयज्ञो भविष्यामि न मां तारयति प्रजा ।
यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा ॥ १२.२८३.३५ ॥
我将成为自我的祭祀;子嗣不能使我渡过彼岸。对于那言语与意念常常端正专注的人而言。
12.283.36
तपस्त्यागश्च योगश्च स तैः सर्वमवाप्नुयात् ।
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं फलम् ॥ १२.२८३.३६ ॥
以苦行、舍离与瑜伽,他便能获得这一切。没有与智慧相等的眼睛,也没有与智慧相等的果实。
12.283.37
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥ १२.२८३.३७ ॥
没有比贪欲更大的苦,也没有比舍离更大的乐。
12.283.38
नैतादृशं ब्राह्मणस्यास्ति वित्तं ।
यथैकता समता सत्यता च।
शीले स्थितिर्दण्डविधानमार्जवं ।
ततस्ततश्चोपरमः क्रियाभ्यः ॥ १२.२८३.३८ ॥
对婆罗门而言,没有比一心、平等与诚实更宝贵的财富;坚守良好品行,遵行约束的规范,正直,然后止息诸业。
12.283.39
किं ते धनैर्बान्धवैर्वाऽपि किं ते ।
किं ते दारैब्राह्मण यो मरिष्यसि।
आत्मानमन्विच्छ गृहा प्रविष्टं ।
पितामहास्ते क्व गताः पिता च ॥ १२.२८३.३९ ॥
婆罗门啊,你既然必将死去,要财富何用,要亲族何用,要妻子何用?去寻找那已进入房中的自我吧。你的祖先和父亲都到哪里去了呢?
12.283.40
पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप ।
तथा त्वमपि राजेन्द्र सत्यधर्मपरो भव ॥ १२.२८३.४० ॥
父亲听了儿子的这番话,便照着去做了。国王啊,国王中的王啊,你也应当专心于真理与法。