Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.284

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.284.1

किंशीलः किंसमाचारः किंविद्यः किंपरायणः ।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ १२.२८४.१ ॥

具备何种品行、何种操守、何种知识,以何为最高归宿,人才能达到梵的那一超越自然、永恒的最高境界?

12.284.2

मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः ।
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ १२.२८४.२ ॥

专注于解脱之法、少食、克制诸根的人,能达到那超越自然、永恒的最高境界。

12.284.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
हारीतेन पुरा गीतं तं निबोध युधिष्ठिर ॥ १२.२८४.३ ॥

关于此事,人们也引用这段古老的故事,那是昔日仙人哈里多所歌唱的。尊王,请听。

12.284.4

स्वगृहादभिनिःसृत्य लाभेऽलाभे समो मुनिः ।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ १२.२८४.४ ॥

离开家室后,贤者对得失一视同仁,即使欲望来临也不加期待,应当作为出家人游行四方。

12.284.5

न चक्षुषा न मनसा न वाचा दूषयेत्परम् ।
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित् ॥ १२.२८४.५ ॥

不可以眼睛、心意或言语污蔑他人;无论当面或背后,都不可说出诽谤之言。

12.284.6

न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत् ।
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ॥ १२.२८४.६ ॥

不应伤害一切众生,应行于慈悯之道;既得此生,不应与任何人结怨。

12.284.7

अतिवादांस्तितिक्षेत नाभिमन्येत कंचन ।
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् ॥ १२.२८४.७ ॥

应忍受恶言,不以为有人轻慢自己。即使愤怒,也应说悦耳之语;即使被辱骂,也应祝愿平安。

12.284.8

प्रदक्षिणं च सव्यं च ग्राममध्ये च नाचरेत् ।
भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतनम् ॥ १२.२८४.८ ॥

在村中不应向右或向左绕行;若不在乞食行程中,也不应前往从前的住所。

12.284.9

अवकीर्णः सुगुप्तश्च न वाचाऽप्यप्रियं चरेत् ।
मृदुः स्यादप्रतीकारो विस्रब्धः स्यादरोषणः ॥ १२.२८४.९ ॥

应自我克制、善加守护,连言语也不说令人不快的话。应温和、不报复,坦然自信,不生嗔怒。

12.284.10

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।
अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः ॥ १२.२८४.१० ॥

只有当烟雾散去、杵臼放下、炭火熄灭、人们已经用餐、器皿往来之事已过,智者才应去乞食。

12.284.11

प्राणयात्रिकमात्रः स्यान्मात्रालाभेष्वनादृतः ।
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् ॥ १२.२८४.११ ॥

只应拥有维持生命所需之物,即使得到少许也保持淡然。得不到时不应懊恼,所得之利也不应使他欢喜。

12.284.12

लाभं साधारणां नेच्छेन्न भुञ्जीताभिपूजितः ।
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः ॥ १२.२८४.१२ ॥

不应贪求寻常的利益,受人尊敬时也不应受用。这样的人应当厌弃由敬重而来的利益。

12.284.13

न चान्नदोषान्निन्देत न गुणानभिपूजयेत् ।
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत् ॥ १२.२८४.१३ ॥

不应非议食物的缺点,也不应赞美其优点。在床榻、座位上以及独处时,应始终尊重它。

12.284.14

शून्यागारं वृक्षमूलमरण्यमथवा गुहाम् ।
अज्ञातचर्यां गत्वाऽन्यां ततोऽन्यत्रैव संविशेत् ॥ १२.२८४.१४ ॥

空屋、树根、森林或洞穴;以不为人知的行为前往别处之后,然后应当在另一处安住。

12.284.15

अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः ।
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि ॥ १२.२८४.१५ ॥

对于喜爱与厌恶应保持平等,不动摇、坚定;对于善行或恶行,都不应执着于行为。

12.284.16

नित्यतृप्तः सुसंतृष्टः प्रसन्नवदनेन्द्रियः ।
विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः ॥ १२.२८४.१६ ॥

常常知足而满足,面容安详、诸根清净,无所畏惧,专心诵念,沉默寡言,依止于离欲。

12.284.17

अभ्यस्तं भौतिकं पश्यन्भूतानामागतिं गतिम् ।
विस्मितः सर्वदर्शी च पक्वापक्वेन वर्तयन्।
आत्मारामः प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः ॥ १२.२८४.१७ ॥

视物质世界为习以为常之物,观察众生的来去,惊奇而普见一切,以成熟与未成熟之物为食,自乐于内我,心意寂静,饮食清淡,诸根已调伏。

12.284.18

वाचो वेगं मनसः क्रोधवेगं ।
हिंसावेगमुदरोपस्थवेगम्।
एतान्वेगान्विनयेद्वै तपस्वी ।
निन्दा चास्य हृदयं नोपहन्यात् ॥ १२.२८४.१८ ॥

言语的冲动、意念的冲动、愤怒的冲动、暴力的冲动、腹与生殖的冲动——苦行者应当调伏这些冲动;诽谤也不应伤害他的心。

12.284.19

मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः ।
एतत्पवित्रं परमं परिव्राजक आश्रयेत् ॥ १२.२८४.१९ ॥

应保持中立,对赞誉与诽谤同样平等。这是最高的纯洁;游方的苦行者应当皈依于此。

12.284.20

महात्मा सर्वतो दान्तः सर्वत्रैवानपाश्रितः ।
अपूर्वचारकः सौम्यो ह्यनिकेतः समाहितः ॥ १२.२८४.२० ॥

大德之人处处自我节制,无处依附。他以无人能及的方式游行,温和、无家,心意专一。

12.284.21

वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् ।
अज्ञातलिप्सं लिप्सेत न चैनं हर्ष आविशेत् ॥ १२.२८४.२१ ॥

不应与林居者或居家者有任何牵连。应追求未知之物,喜悦不应侵入其心。

12.284.22

विजानतां मोक्ष एष श्रमः स्यादविजानताम् ।
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् ॥ १२.२८४.२२ ॥

对于知者,这便是解脱;对于不知者,这只是徒劳。整个解脱之道属于智者,哈里多如是说。

12.284.23

अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् ।
लोकास्तेजोमयास्तस्य तथाऽनन्त्याय कल्पते ॥ १२.२८४.२३ ॥

若有人施予一切众生无畏,然后离家出家,其所往之界便充满光明,并且适合于无尽。