摩诃婆罗多 · 章 12.285
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.285.1
धन्याधन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत ।
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ॥ १२.२८५.१ ॥
众人都称赞我们为“有福、有福”,然而没有比我们更悲苦的人。
12.285.2
लोकसंभावितैर्दुःखं यत्प्राप्तं कुरुसत्तम ।
प्राप्य जातिं मनुष्येषु देवैरपि पितामह ॥ १२.२८५.२ ॥
库鲁之最,即使是世人所推崇之事所招致的苦难,祖父啊,既生于人世之中,也会遭受诸神带来的苦难。
12.285.3
कदा वयं करिष्यामः संन्यासं दुःखभेषजम् ।
दुःखमेतच्छरीराणां धारणं कुरुसत्तम ॥ १२.२८५.३ ॥
我们何时才能行出家(舍离),那是苦的良药?库鲁之最,承载这些身体本身便是苦。
12.285.4
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः ।
इन्द्रियार्थैर्गुणैश्चैव अष्टाभिश्च पितामह ॥ १२.२८५.४ ॥
祖父啊,那些已脱离十七、五种因缘本体、诸根境、诸德以及八者的人。
12.285.5
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः ।
कदा वयं गमिष्यामो राज्यं हित्वा परंतप ॥ १२.२८५.५ ॥
坚守誓愿的牟尼不再复生。灼烧敌人的人啊,我们何时舍弃王国而去?
12.285.6
नास्त्यनन्तं महाराज सर्वं सङ्ख्यानगोचरम् ।
पुनर्भावोपि संख्यातो नास्ति किंचिदिहाचलम् ॥ १२.२८५.६ ॥
大王,没有什么是无尽的;一切都在可计数的范围之内。即使是轮回也被计算过了;这里没有任何不动之物。
12.285.7
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः ।
उद्योगादेव धर्मज्ञाः कालेनैव गमिष्यथ ॥ १२.२८५.७ ॥
大王,这并非因话题而生的过失。诸知法者啊,唯凭努力,待时机成熟,你们便能抵达。
12.285.8
नेशेऽयं सततं देही नृपते पुण्यपापयोः ।
तत एव समुत्थेन तमसा रुध्यतेऽपि च ॥ १२.२८५.८ ॥
大王,此有身者并不常能掌控功德与罪业。而且正是由此生起的黑暗,使其受到遮蔽。
12.285.9
यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः ।
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः ॥ १२.२८५.९ ॥
如同充满黑眼膏的风,或朱砂之尘,进入其中后便呈现其色,被人看见,并染红四方。
12.285.10
तथा कर्मफलैर्देही रञ्जितस्तमसा वृतः ।
विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते ॥ १२.२८५.१० ॥
同样,有身者被业果所染、为黑暗所覆,虽本无色,却依附某种颜色,在诸身中流转。
12.285.11
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः ।
व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् ॥ १२.२८५.११ ॥
当众生以智慧驱散由无明所生的黑暗时,永恒的梵便得以显现光明。
12.285.12
अयत्नसाध्यं मुनयो वदन्ति ।
चे चापि मुक्तास्तदुपासितव्याः।
त्वया च लोकेन च सामरेण ।
तस्मान्न शाम्यन्ति महर्षिसङ्घाः ॥ १२.२८५.१२ ॥
诸仙人说,此可不费力而得。即便解脱者也应当修习它;你、世间与诸天皆应如此。因此,大仙众会不得安宁。
12.285.13
अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप ।
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ॥ १२.२८५.१३ ॥
君王啊,请专心聆听古时关于此事的一首歌:失去权势的达提亚弗栗多如何行事。
12.285.14
निर्जितेनासहायेन हृतराज्येन भारत ।
अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् ॥ १२.२८५.१४ ॥
婆罗多的后裔啊,他战败、无援、失去王国,却不悲伤,在敌人中间唯独依靠一种智慧。
12.285.15
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् ।
कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ॥ १२.२८५.१५ ॥
从前,乌until斯(室建陀)对失去权势的弗栗多说了这些话:"达婆啊,你如今战败,难道没有一丝痛苦吗?"
12.285.16
सत्येन तपसा चैव विदित्वा संक्षयं ह्यहम् ।
न शोचामि न हृष्यामि भूतानामागतिं गतिम् ॥ १२.२८५.१६ ॥
我以真实与苦行已知毁灭,因此对众生的来去,我既不悲伤,也不欢喜。
12.285.17
कालसंचोदिता जीवा मज्जन्ति नरकेऽवशाः ।
परिहृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ॥ १२.२८५.१७ ॥
被时间驱使的众生无力地沉入地狱;智者说,就连一切神圣之物也会耗损。
12.285.18
क्षपयित्वा तु तं कालं गणितं कालचोदिताः ।
सावशेषेण कालेन संधावन्ति पुनःपुनः ॥ १२.२८५.१८ ॥
耗尽那被计算的时间之后,被时间驱使,他们借着余下的时间一次又一次地奔走。
12.285.19
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।
निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः ॥ १२.२८५.१९ ॥
众生历经千万种畜生之胎乃至地狱,无可奈何地再度出来,为时间之缚所缚。
12.285.20
एवं संसरमाणानि ह्यहं भूतानि दृष्टवान् ।
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ॥ १२.२८५.२० ॥
我已看见众生在轮回中流转:所作如何,所得如何——这正是经典的教示。
12.285.21
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च ।
सुखदुःखे प्रिये द्वेष्ये चरित्वा पूर्वमेव च ॥ १२.२८५.२१ ॥
他们或往畜生道,或入地狱,或生为人,或生为天。先前已因过去的业而经历苦乐、可爱与可憎,然后才如此流转。
12.285.22
कृतान्तविधिसंयुक्तः सर्वो लोकः प्रपद्यते ।
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ॥ १२.२८५.२२ ॥
整个世界都受死神(Kṛtānta)之律所缚而前行;一切众生始终走着先前离去者所走的道路。
12.285.23
कालसङ्ख्यानसङ्ख्येयं सृष्टिस्थितिपरायणम् ।
तं भाषमाणं भगवानुशना प्रत्यभाषत।
इमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषते ॥ १२.२८५.२३ ॥
当他谈论可以用时间与数目计算、专注于创造与维持之事时,尊者乌尚那斯回答道:“孩子,你为何说出这些邪恶的胡言?”
12.285.24
प्रत्यक्षमेतद्भवतस्तथाऽन्येषां मनीषिणाम् ।
मया यज्जयलुब्धेन पुरा तप्तं महत्तपः ॥ १२.२८५.२४ ॥
这对您和其他智者来说是显而易见的:我因贪图胜利,曾经修过大苦行。
12.285.25
गन्धानादाय भूतानां रसांश्च विविधानपि ।
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ॥ १२.२८५.२५ ॥
我夺取众生的香气与种种味道,以自身的光辉压制三界,于是变得无所节制。
12.285.26
ज्वालामालापरिक्षिप्तो वैहायसगतिस्तथा ।
अजेयः सर्वभूतानामासं नित्यमपेतभीः ॥ १२.२८५.२६ ॥
我被火焰的花环所环绕,在天空中行进,为一切众生所不能战胜,永远无所畏惧。
12.285.27
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः ।
धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् ॥ १२.२८५.२७ ॥
凭苦行所得的权势,因我自身的业行而失去。尊者啊,我持守坚定,不再悲伤。
12.285.28
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना ।
ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः ॥ १२.२८५.२८ ॥
往昔我想与伟大的因陀罗(摩亨陀罗)交战时,尊贵的哈利·那罗延天主便向我显现。
12.285.29
वैकुण्ठः पुरुषोऽनन्तः शुक्लो विष्णुः सनातनः ।
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ॥ १२.२८५.२९ ॥
吠甘陀、原人、无限者、白者、毗湿奴、永恒者,发如蔓草,须呈淡黄,为一切众生之祖父。
12.285.30
नूनं तु तस्य तपसः सावशेषं ममास्ति वै ।
यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम् ॥ १२.२८५.३० ॥
我的苦行确实还有些许残余,因此我想请教您关于业果的问题。
12.285.31
ऐश्वर्यं वै महद्ब्रह्मन्वर्णे कस्मिन्प्रतिष्ठितम् ।
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् ॥ १२.२८५.३१ ॥
婆罗门啊,这伟大的权势安立于哪一种姓之中?而那至上的权势又如何再次离去?
12.285.32
भवन्ति कस्माद्भूतानि प्रवर्तन्ते यथा पुनः ।
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ॥ १२.२८५.३२ ॥
众生从何而生,又如何再次运行?或者,获得至上果报之后,命我(jīva)如何永恒地存在?
12.285.33
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा ।
ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि ॥ १२.२८५.३३ ॥
以何种行为,或以何种智慧,才能获得那果报?婆罗门中的仙人啊,请为我解说。
12.285.34
इतीदमुक्तः स मुनिस्तदानीं ।
प्रत्याह यत्तच्छृणु राजसिंह।
मयोच्यमानं पुरुषर्षभ त्व ।
मनन्यचित्तः सह सोदरीयैः ॥ १२.२८५.३४ ॥
如此被问之后,那位仙人便回答道。王中狮啊,请听我所说。人中牛啊,你应与你的兄弟们一同专心致志地聆听。