摩诃婆罗多 · 章 12.286
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.286.1
नमस्तस्मै भगवते देवाय प्रभविष्णवे ।
यस्य पृथ्वी तलं तात साकाशं बाहुगोचरः ॥ १२.२८६.१ ॥
向那位尊贵的神致敬,他是大能者。孩子,大地的底部与天空都在他的臂力所及之内。
12.286.2
मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम ।
तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ॥ १२.२८६.२ ॥
达那婆中最优秀者啊,我将向你宣说那头颅与居所无穷的毗湿奴的至高伟大。
12.286.3
तयोः संवदतोरेवमाजगाम महामुनिः ।
सनत्कुमारो धमार्त्मा संशयच्छेदनाय वै ॥ १२.२८६.३ ॥
当二人如此交谈时,正直之心的大仙人萨纳特昆摩罗来到此地,为断除他们的疑惑。
12.286.4
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा ।
निषसादासने राजन्महार्हे मुनिपुङ्गवः ॥ १२.२८६.४ ॥
大王,阿修罗之主与仙人乌尚那斯如此礼敬他,这位仙人中的翘楚便坐在珍贵的座位上。
12.286.5
तमासीनं महाप्रज्ञमुशना वाक्यमब्रवीत् ।
ब्रूह्यस्मै दानवेन्दाय विष्णोर्माहात्म्यमुत्तमम् ॥ १२.२८६.५ ॥
乌尚那斯对那位坐在那里的大智者说道:“请向这位达那婆之主宣说毗湿奴的至高伟大。”
12.286.6
सनत्कुमारस्तु वचः श्रुत्वा प्राह वचोऽर्थवत् ।
विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते ॥ १२.२८६.६ ॥
萨纳特昆摩罗听了这些话,便向智慧的达那婆之主说出了充满意义、蕴含毗湿奴伟大的话语。
12.286.7
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम् ।
विष्णौ जगत्स्थितं सर्वमिति विद्धि परंतप ॥ १२.२८६.७ ॥
达萨啊,请听这毗湿奴至高的伟大。应知整个世界都安立于毗湿奴之中,哦,征服敌人者。
12.286.8
अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ।
अवत्येष महाबाहुर्भूतग्रामं चराचरम्।
एष चाक्षिपते काले काले च सृजते पुनः ॥ १२.२८६.८ ॥
众生归于他而灭没,又从他而生起。这位大臂者守护动与不动的众生。他按时收摄它,又按时再次创造。
12.286.9
नैष दानव ते शक्यस्तपसा नैव चेज्यया ।
संप्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ॥ १२.२८६.९ ॥
达那婆啊,他不能凭苦行,也不能凭祭祀而为你所得。唯有通过克制诸根才能得到他。
12.286.10
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः ।
निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ॥ १२.२८६.१० ॥
若有人以外在与内在的行为居于心中,并以智慧使其清净,他便在来世得到无限。
12.286.11
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् ।
बहुशोऽतिप्रयत्नेन महताऽऽत्मकृतेन ह ॥ १२.२८६.११ ॥
如同金匠在火中多次、费大力地以自己所作之法提炼白银。
12.286.12
तद्वज्जातिशतैर्जीवः शुद्ध्यतेऽल्पेन कर्मणा ।
यत्नेन महता चैयवाप्येकजातौ विशुद्ध्यते ॥ १२.२८६.१२ ॥
同样,众生经过数百次生死,以少许业而得清净;以大力,则在一生之中也能完全清净。
12.286.13
लीलयाऽल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः ।
बहुयत्नेन महता दोषनिर्हरणं तथा ॥ १२.२८६.१३ ॥
如同轻易拂去自身身上的少许尘土,去除过失则需要极大的努力。
12.286.14
यथा चाल्पेन माल्येन वासितं तिलसर्षपम् ।
न मुञ्चति स्वकं गन्धं तथा सूक्ष्मस्य दर्शनम् ॥ १२.२८६.१४ ॥
如同少许花环熏染的芝麻与芥子,不舍自身的香气,微细之物的显现也是如此。
12.286.15
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः ।
विमुच्य तं स्वकं गन्धं माल्यगन्धेऽवतिष्ठते ॥ १२.२८६.१५ ॥
同一物件经多个花环反复熏染,舍弃自身的香气,便停留在花环的香气之中。
12.286.16
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु ।
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन ह ॥ १२.२८६.१६ ॥
如此,历经数百生而受缚的众生,仅因其德性而停留在执着之中;以智慧,借由修习所生的努力,过失便得以退去。
12.286.17
कर्मणा स्वेन रक्तानि विरक्तानि च दानव ।
यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ॥ १२.२८६.१७ ॥
达婆啊,众生因自己的业而变得执着或离欲;听我说他们如何获得业的差别。
12.286.18
यथावत्संप्रवर्तन्ते यस्मिंस्तिष्ठति चानिशम् ।
तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ॥ १२.२८६.१८ ॥
他们在其中如理运行、常住不离之处,我将依次为你解说;此处请以专一之心聆听。
12.286.19
अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः ।
देवः सृजति भूतानि स्थावराणि चराणि च ॥ १२.२८६.१९ ॥
无始无终的吉祥者哈里·那罗延,主宰之神,创造不动与动的一切众生。
12.286.20
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च ।
एकादश विकारात्मा जगत्पिबति रश्मिभिः ॥ १२.२८६.२० ॥
他在一切众生中既是可灭者,也是不灭者。以十一种变化为自性,他以光线饮尽世界。
12.286.21
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च ।
बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥ १२.२८६.२१ ॥
应知大地是他的双足,天空是他的头。哦,达蒂亚,他的手臂是方位,他的耳朵即是虚空。
12.286.22
तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम् ।
बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते ॥ १२.२८६.२२ ॥
他的光明之形是太阳;他的心意安住于月亮。通向知识的智慧永恒存在,而精华则在水中运行。
12.286.23
भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम ।
नक्षत्रचक्रं नेत्रं च आस्यमग्निं च दानव।
तं विश्वभूतं विश्वादिं परमं विद्धि चेश्वरम् ॥ १२.२८६.२३ ॥
达那婆之最,他双眉之间正是诸行星。星宿之轮是他的眼,火是他的口。哦,檀那婆,应知他是一切众生之体、宇宙之始、至高主宰。
12.286.24
रजस्तमश्च सत्वं च विद्धि नारायणात्मकम् ।
सोश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ॥ १२.२८६.२४ ॥
应知热性、暗性与善性皆是那罗延之自性。亲爱的孩子,他是勤劳者的面貌,他们知道他也是行动的果报。
12.286.25
अकर्मणः फलं चैव स एव परमोऽव्ययः ।
छन्दांसि यस्य रोमाणि ह्यक्षरं च सरस्वती ॥ १२.२८६.२५ ॥
无为之果也是他;唯有他至高不灭。吠陀是他的毛发;音节(唵)与萨罗室伐底也属于他。
12.286.26
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः ।
स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः ॥ १२.२८६.२६ ॥
达摩有众多依托、众多面貌,安住于心中。他是梵中的至高达摩;他是苦行,他是有与无。
12.286.27
श्रोत्रशास्त्रग्रहोपेतः षोड्शर्त्विक्क्रतुश्च सः ।
पितामहश्च रुद्रश्च सोऽश्विनौ स पुरंदरः ॥ १२.२८६.२७ ॥
具备闻、典籍及其受持,他是有十六位祭司的祭祀。他是祖父与楼陀罗;他是双阿溯双神;他是补兰达罗(因陀罗)。
12.286.28
मित्रोऽथ वरुणश्चैव यमोऽथ धनदस्तथा ।
ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम्।
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥ १२.२८६.२८ ॥
还有密特拉、伐楼那、阎摩与财神(俱毗罗);他们是他的各种显现,并在他的合一中相聚。当知此整个世界皆在那一位神的掌控之中。
12.286.29
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदन्त्यपि ।
जन्तुः पश्यति विज्ञानात्ततः सत्वं प्रकाशते ॥ १२.२८६.२९ ॥
阿修罗之主啊,虽然他化为多样,人们也说他是一体。众生以智慧而见,于是悉多(善性)便显现。
12.286.30
संहारविक्षेपसहस्रकोटी ।
स्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये।
प्रजाविसर्गस्य च पारिमाण्यं ।
वापीसहस्राणि बहूनि दैत्य ॥ १२.२८६.३० ॥
千万亿众生或处于毁灭与散逸之中,其他众生则在流转。众生生成的尺度亦是如此。阿修罗啊,它们如同成千上万的水井。
12.286.31
वाप्यः पुनर्योजनविस्तृतास्ताः ।
क्रोशं च गम्भीरतयाऽवगाढाः।
आयामतः पञ्चशताश्च सर्वाः ।
प्रत्येकशो योजनतः प्रवृद्धाः ॥ १२.२८६.३१ ॥
那些水池又宽一由旬,深陷一俱卢舍;长度皆为五百,每一个都扩展一由旬。
12.286.32
वाप्या जलं क्षिप्यति वालकोट्या ।
त्वह्ना सकृच्चाप्यथ न द्वितीयम्।
तासां क्षये विद्धि परं विसर्गं ।
संहारमेकं च तथा प्रजानाम् ॥ १२.२८६.३२ ॥
若以一根毛发尖端每日从水池中取水一次,且从不第二次,应知在其耗尽之时,便是众生的最高生发与一次毁灭。
12.286.33
षड्जीववर्णाः परमं प्रमाणं ।
कृष्णो धूम्रो नीलमथास्य मध्यम्।
रक्तं पुनः सह्यतरं सुखं तु ।
हारिद्रवर्णं सुसुखं च शुक्लम् ॥ १२.२८६.३३ ॥
六种生命之色是至上的尺度:黑色、烟色与蓝色及其中间;然后是红色,更为可忍受且令人愉悦;姜黄色,极为愉悦;以及白色。
12.286.34
परं तु शुक्लं विमलं विशोकं ।
गतक्लमं सिद्ध्यति दानवेन्द्र।
गत्वा तु योनिप्रभवाणि दैत्य ।
सहस्रशः सिद्धिमुपैति जीवः ॥ १२.२८६.३४ ॥
然而,白色、纯净,远离忧愁与疲惫者,达到成就,达那婆之主啊。然后,阿修罗啊,从胎生的诸有出发,众生千次地获得成就。
12.286.35
गतिं च यां दर्शनमाह देवो ।
गत्वा शुभं दर्शनमेव चापि।
गतिः पुनर्वर्णकृता प्रजानां ।
वर्णस्तथा कालकृतोऽसुरेन्द्र ॥ १२.२८६.३५ ॥
神所说的途径与见解,即便得到吉祥的见解,依然存在;众生的途径又由其种姓之色所造,而色亦由时间所造,阿修罗之主啊。
12.286.36
शतं सहस्राणि चतुर्दशेह ।
परा गतिर्जीवगणस्य दैत्य।
आरोहणं तत्कृतमेव विद्धि ।
स्थानं तथा निःसरणं च तेषाम् ॥ १२.२८६.३६ ॥
此处有十四百千。阿修罗啊,这是众生的至高归宿。应知他们的上升也由此而成,他们的住所与出离亦然。
12.286.37
योऽस्मादथ भ्रश्यति कालयोगा ।
त्कृष्णे वर्णे तिष्ठति सर्वकृष्टे।
अतिप्रसक्तो निरयाच्च दैत्य ।
ततस्ततः संपरिवर्तते च ॥ १२.२८६.३७ ॥
凡因时节之缘从此堕落者,便住于一切中最低下的黑色之中;阿修罗啊,他过度执着于地狱,便一次又一次地轮转。
12.286.38
कृष्णस्य वर्णस्य गतिर्निकुष्टा ।
स मज्जते नरके पच्यमानः।
स्थानं तथा दुर्गतिभिस्तु तस्य ।
प्रजाविसर्गान्सुबहून्वदन्ति ॥ १२.२८६.३८ ॥
黑色之道是卑下的;他在地狱中被煮炼而沉没。他的住所也在恶趣之中;关于众生的诸多流出,人们如此说。
12.286.39
शतं सहस्राणि ततश्चरित्वा ।
प्राप्नोति वर्णं हरितं तु पश्चात्।
स चैव तस्मिन्निवसत्यनिशो ।
युगक्षयं तमसा संवृतात्मा ॥ १२.२८६.३९ ॥
历经十万(年)流转之后,他随后获得绿色;他在其中不断住留,直至世代的毁灭,其自我为黑暗所包覆。
12.286.40
स वै यदा सत्वगुणेन युक्त ।
स्तमो व्यपोहन्घटते स्वबुद्ध्या।
स लोहितं वर्णमुपैति नीला ।
न्मनुष्यलोके परिवर्तते च ॥ १२.२८६.४० ॥
当他具足萨埵之德,驱散黑暗,以自己的智慧努力时,便获得红色;也获得蓝色,并在人间世界中轮转。
12.286.41
स तत्र संहारविसर्गमेकं ।
स्वकर्मजैर्बन्धनैः क्लिश्यमानः।
ततः स हारिद्रमुपैति वर्णं ।
संहारविक्षेपशते व्यतीते ॥ १२.२८६.४१ ॥
他在那里一次在毁灭与创生的循环中,被自己业力所生的束缚所折磨,待百次毁灭与散布过去后,便获得姜黄般的黄色。
12.286.42
हारिद्रवर्णस्तु प्रजाविसर्गा ।
त्सहस्रशस्तिष्ठति संचरन्वै।
अविप्रमुक्तो निरये च दैत्य ।
ततः सहस्राणि दशापराणि ॥ १२.२८६.४२ ॥
那姜黄色的存在在众生的创生中流转千万次,在地狱中未得解脱,啊阿修罗;之后又是一万次。
12.286.43
गतीः सहस्राणि च पञ्च तस्य ।
चत्वारि संवर्तकृतानि चैव।
विमुक्तमेनं निरयाच्च विद्धि ।
सर्वेषु चान्येषु च संभवेषु ॥ १२.२८६.४३ ॥
他有五千条道途,以及由宇宙毁灭所产生的四条;要知道他从地狱中解脱,在其他一切生中亦然。
12.286.44
स देवलोके विहरत्यभीक्ष्णं ।
ततश्च्युतो मानुषतामुपैति
संहारविक्षेपशतानि चाष्टौ ।
मर्त्येषु तिष्ठन्नमृतत्वमेवि ॥ १२.२८६.४४ ॥
他常住于天神之界;之后堕落而得人身;经过八百次毁灭与散布之后,于凡人之中居住,便得不死。
12.286.45
सोऽस्मादय भ्रश्यति कालयोगा ।
त्कृष्णे तले तिष्ठति सर्वकृष्टे।
यथा त्वयं सिध्यति जीवलोक ।
स्तत्तेऽभिधास्याम्यसुरप्रवीर ॥ १२.२८६.४५ ॥
因时间的结合他从此堕落;他停留在那黑暗的底层,被众物所牵引。这在生灵世界中如何成就,我将向你宣说,啊阿修罗中的英雄。
12.286.46
दैवानि स व्यूहशतानि सप्त ।
रक्तो हरिद्रोऽथ तथैव शुक्लः।
संश्रित्य संधावति शुक्लमेत ।
मष्टावरानर्च्यतमान्स लोकान्। ॥ १२.२८६.४६ ॥
他拥有七百种神圣的阵列。红色、姜黄色,以及同样的白色;依靠白色,他向此方向奔驰,前往八个较低、最受崇敬的世界。
12.286.47
अष्टौ च षष्टिं च शतानि चैव ।
मनोविरुद्धानि महाद्युतीनाम्।
शुक्लस्य वर्णस्य परा गतिर्या ।
त्रीण्येव रुद्धानि महानुभाव ॥ १२.२८६.४७ ॥
八,六十,以及数百,与心相违,属于大光明者;白色之最高之道,其中只有三者被阻断,啊,大威力者。
12.286.48
संहाराविक्षेपमनिष्टमेकं ।
चत्वारि चान्यानि वसत्यनीशः।
षष्ठस्य वर्णस्य परा गतिर्या ।
सिद्धावसिद्धस्य गतक्लमस्यर ॥ १२.२८६.४८ ॥
毁灭与散布,一种不受欢迎;另外四种则无力而居。第六色之最高之道,在成就中,属于未成就者,属于无疲倦者……
12.286.49
ततो महान्मानुषतामुपैति ॥ १२.२८६.४९ ॥
然后,伟大者达到人性。
12.286.50
तस्मादुपावृत्य ततः क्रमेण ।
सोग्रेण संतिष्ठति भूतसर्गम्।
स सप्तकृत्वश्च परैति लोका ।
न्संहारविक्षेपकृतप्रवासः ॥ १२.२८६.५० ॥
因此,回转之后,依次与猛烈者一起安住于众生的创造中;他七次前往诸世界,以毁灭与散布所造成的流亡而行。
12.286.51
देवस्य विष्णोः परमस्य चैव ॥ १२.२८६.५१ ॥
神毗湿奴的,也是至上者的。
12.286.52
संहारकाले परदिग्धकाया ।
ब्रह्माणमायान्ति सदा प्रजाहि।
चेष्टात्मनो देवगणाश्च सर्वे ।
ये ब्रह्मलोके ह्यमराः स्म तेऽपि ॥ १२.२८६.५२ ॥
在毁灭之时,身体涂抹上至上之物者,总是前往梵天;众生、有为之我、一切天神众,以及梵天界中的不死者,也都如此。
12.286.53
प्रजानिसर्गे तु स शेषकाले ।
स्थानानि स्वान्येव सरन्ति जीवाः।
निःशेषतस्तत्पदं वान्ति चान्ते ।
सर्वे देवा ये सदृशा मनुष्याः ॥ १२.२८६.५३ ॥
然而在众生生起之时及其余时间,众生各归其位;最终,他们完全获得那一境界——一切天神,以及与之相似的人。
12.286.54
ये तु च्युताः सिद्धलोकात्क्रमेण ।
तेषां गतिं यान्ति यथाऽऽनुपूर्व्या।
जीवाः परे तद्बलवेषरूपाः ।
स्वकं विधिं यान्ति विषर्ययेण ॥ १२.२८६.५४ ॥
然而从成就者之界依次坠落的人,其去路依次而行;具有那种力量、形貌与容相的殊胜众生,即便以相反的次序,也各自得其定命。
12.286.55
स यावदेवास्ति सशेषभुक्तिः ।
प्रजाश्च देव्यौ च तथैव शुक्ले।
तावत्तदङ्गेषु विशुद्धभावः ।
संयम्य पञ्चेन्द्रियरूपमेतत् ॥ १२.२८६.५५ ॥
只要那残余的享受存在,众生与两位女神也就存在,白半月亦复如是;只要如此,其肢体中便保有清净之态。将这五根之形敛束之后——
12.286.56
नारायणस्येह बलं मया ते ॥ १२.२८६.५६ ॥
此处那那罗延之力,我已为你说明。
12.286.57
एवं गते मे न विषादोस्ति कश्चि ।
त्सम्यक्च पश्यामि वचस्तथैतत्।
श्रुत्वा तु ते वाचमदीनसत्व ।
विकल्मषोस्म्यद्य तथा विपाष्मा ॥ १२.२८६.५७ ॥
事既如此,我没有任何忧伤。我认为你的话是对的。听了你坚定不移的言语,我现在已经清净无罪了。
12.286.58
तस्मिज्जगत्सर्वमिदं प्रतिष्ठितम् ॥ १२.२८६.५८ ॥
这整个世界都建立于他之中。
12.286.59
एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत् ।
योजयित्वा तथाऽऽत्मानं परं स्थानमवाप्तवान् ॥ १२.२८६.५९ ॥
贡蒂之子啊,这样说完,弗栗多便舍弃了生命之气;如此将自我与瑜伽相结合,他便达到了至高的境界。
12.286.60
अयं स भगवान्देवः पितामह जनार्दनः ।
सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ॥ १२.२८६.६० ॥
祖父啊,此人正是那位尊贵的神——阇那陀那。往昔他化身为萨那特俱摩罗,将此教诲宣说给弗栗多。
12.286.61
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा ।
तत्स्थः सृजति तान्भावानात्मरूपान्महामनाः ॥ १२.२८६.६१ ॥
这位尊贵者安住于根本,以他自己无限的光辉,安住其中,这位大心者创造那些具有他自身形相的存在。
12.286.62
तुरीयांशेन तस्येमं विद्धि केशवमच्युतम् ।
तुरीयांशेन ब्रह्माणं तस्य विद्धि महात्मनः।
तुरीयार्धेन लोकांस्त्रीन्भावयत्येव बुद्धिमान् ॥ १२.२८६.६२ ॥
要知道这位不坏的羯舍婆是他的四分之一;要知道梵天是那位大德者的四分之一;以四分之一的一半,这位智者维持三界。
12.286.63
अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते ।
स शेते भगवानप्सु योऽसावतिबलः प्रभुः।
तान्विघाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ॥ १२.२८६.६३ ॥
那位居于下方、在劫末转变的永恒者,那位至尊世尊卧于水中,是大力之主。心境安详的创造者在那些永恒的世界中游行。
12.286.64
सर्वाण्यशून्यानि करोत्यनन्तः ।
सनातनः संचरते च लोकान्।
स चानिरुद्धः सृजते महात्मा ।
तत्स्थं जगत्सर्वमिदं विचित्रम् ॥ १२.२८६.६४ ॥
无限者使一切充盈;永恒者游行于诸世界。那位大灵阿尼鲁达创造,而这整个奇妙的世界都安住于他之中。
12.286.65
वृत्रेण परमार्थज्ञ दृष्टा मन्येत्मनो गतिः ।
सुखात्तस्मात्स सुखितो न शोचति पितामह ॥ १२.२८६.६५ ॥
精通至上真理者啊,应当通过弗栗多看见自我的去向而如此思维。因此他在喜乐中欢喜,不再忧伤,祖父啊。
12.286.66
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ ।
तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ॥ १२.२८६.६६ ॥
无垢者啊,光明而生于净族者,可成就者不再返回;他从畜生道解脱,祖父啊,也从地狱解脱。
12.286.67
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव ।
तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ॥ १२.२८६.६७ ॥
国王啊,安住于姜黄色或红色之境、被暗性之业所缠绕者,只会看见畜生那下降的境地。
12.286.68
वयं तु भृशमापन्ना रक्ताः कष्टाः सुखेऽसुखे ।
कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ ॥ १२.२८६.६८ ॥
我们深陷其中,为爱欲所染,在乐与苦中都备受折磨。我们将得到怎样的归宿?是深蓝色的,还是黑暗而最下的?
12.286.69
शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः ।
विहत्य देवलोकेषु पुनर्मानुषमेध्यथ ॥ १२.२८६.६९ ॥
具有纯洁血统、坚守誓愿的般度之子啊,你们将前往诸神之界,然后再回到人间。
12.286.70
प्रजाविसर्गं च सुखेन लोके ।
प्रेत्यान्येदेहेषु सुखानि भुक्त्वा।
सुखेन संयास्यथ सिद्धसङ्ख्यां ।
मा वो भयं भवतु न वोऽस्तु पापम् ॥ १२.२८६.७० ॥
在世间安乐地延续子嗣,死后在他身中享受快乐,你们将安乐地进入成就者的行列。愿你们无所畏惧,愿你们不沾罪过。