摩诃婆罗多 · 章 12.287
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.287.1
अहो धर्मिष्ठता तस्य वृत्रस्यामिततेजसः ।
यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी ॥ १२.२८७.१ ॥
啊,那位光辉无限的弗栗多是何等的虔诚守法!他的智慧无与伦比,他对毗湿奴的虔信也同样如此。
12.287.2
दुर्विज्ञेयमिदं तस्य विष्णोरमिततेजसः ।
कथं वा राजशार्दूल पदं तु ज्ञातवानसौ ॥ १२.२८७.२ ॥
王中猛虎啊,这个关于光辉无限的毗湿奴的秘密难以理解。他究竟如何得知那个境界?
12.287.3
भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत ।
भूयश्च मे समुत्पन्ना बुद्धिरव्यक्तदर्शना ॥ १२.२८७.३ ॥
不坠者啊,您所说的我深信不疑;然而,我心中又生起了一种难以明了的疑惑。
12.287.4
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ ।
धार्मिको विष्णुभक्तश्च तत्त्वज्ञश्च तदन्वये ॥ १२.२८७.४ ॥
婆罗多族之牛啊,弗栗多既然正直、虔信毗湿奴、通晓真理,其后裔也是如此,他究竟如何被因陀罗所杀?
12.287.5
एतन्मे संशयं ब्रूहि पृच्छते भरतर्षभ ।
वृत्रः स राजशार्दूल यथा शक्रेण निर्जितः ॥ १२.२८७.५ ॥
婆罗多族之牛啊,请为我这个提问者解答这个疑惑:王中猛虎啊,弗栗多究竟如何被因陀罗战胜?
12.287.6
यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह ।
विस्तरेण महाबाहो परं कौतूहलं हि मे ॥ १२.२८७.६ ॥
祖父啊,请详细讲述那场战斗是如何发生的;大臂者啊,我对此非常好奇。
12.287.7
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा ।
ददर्शाथाग्रतो वृत्रं धिष्ठितं पर्वतोपमम् ॥ १२.२८७.७ ॥
往昔因陀罗与诸神之众一同乘车出发。随后他看见前方立着如山一般的弗栗多。
12.287.8
योजनानां शतान्यूर्ध्वं पञ्चोन्छ्रितमरिंदम् ।
शतानि विस्तरेणाथ त्रीणि चाभ्यधिकानि वै ॥ १२.२८७.८ ॥
啊,制伏敌人者!他高五百由旬,宽度则超过三百由旬。
12.287.9
तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् ।
वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे ॥ १२.२८७.९ ॥
诸神看见弗栗多那样的形体,即使三界也无法战胜,便惊恐万分,不得安宁。
12.287.10
शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत ।
भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम् ॥ १२.२८७.१० ॥
大王啊,那时因见弗栗多那殊胜的形体而生恐惧,因陀罗的大腿忽然僵硬。
12.287.11
ततो नादः समभवद्वादित्राणां च निःस्वनः ।
देवासुराणां सर्वेषां तस्मिन्युद्धे ह्युपस्थिते ॥ १२.२८७.११ ॥
那场战斗开始之时,乐器之声与诸神、阿修罗的呼啸一齐响起。
12.287.12
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमवस्थितम् ।
न संभ्रमो न भीः काचिदास्था वा समजायत ॥ १२.२८७.१२ ॥
俱卢后裔啊,弗栗多见因陀罗站在面前,心中却既无慌乱,也无恐惧,更无任何决心生起。
12.287.13
ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम् ।
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः ॥ १२.२८७.१३ ॥
于是爆发了令三界恐惧的战斗,发生在众神之王帝释天与大心的弗栗多之间。
12.287.14
असिभिः पट्टसैः शूलैः शक्तितोमरम्रुद्गरैः ।
शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः ॥ १२.२८७.१४ ॥
以刀剑、大刀、长矛、枪、投枪、铁锤,以及种种石块和发出巨响的弓箭。
12.287.15
अस्त्रैश्च विविर्धौर्दिव्यैः पावकोल्काभिरेव च ।
देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम् ॥ १२.२८७.१५ ॥
以种种神兵与火焰流星;于是诸天与阿修罗的大军使一切陷入混乱。
12.287.16
पितामहपुरोगाश्च सर्वे देवगणास्तदा ।
ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन् ॥ १२.२८७.१६ ॥
那时,以祖父(梵天)为首的诸天众神与大福的诸仙都来观看那场战斗。
12.287.17
विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ ।
गन्धर्वाश्च विमानाग्रैरप्सरोभिः समागमन् ॥ १२.२८७.१७ ॥
大王啊,婆罗多族中的雄牛!悉陀乘着最好的天车而来,乾闼婆与阿普萨拉斯同乘天车也来到了。
12.287.18
ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभूतां वरः ।
अश्मवर्षेण देवेन्द्रं सर्वतः समवाकिरत् ॥ १२.२८७.१८ ॥
于是,义者中最优秀的弗栗多遮蔽了天空,从四面八方向天神之王降下如雨的石块。
12.287.19
ततो देवगणाः क्रुद्धाः सर्वतः शरवृष्टिभिः ।
अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे ॥ १२.२८७.१९ ॥
于是愤怒的诸神从四面以箭雨在战斗中驱散了弗栗多所发出的石雨。
12.287.20
वृत्रस्तु कुरुशार्दूल महामायो महाबलः ।
मोहयामास देवेन्द्रं मायायुद्धेन सर्वशः ॥ १२.२८७.२० ॥
然而,库鲁中的猛虎、大幻术者、大力者弗栗多,以幻术之战从各方面迷惑了诸神之主。
12.287.21
तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः ।
रथन्तरेण तं तत्र वसिष्ठः समबोधयत् ॥ १२.२८७.२१ ॥
那时,被弗栗多所困的百祭者因陀罗陷入迷惘;于是婆悉吒以罗陀檀多罗歌使他完全清醒。
12.287.22
देवश्रेष्ठोऽस्ति देवेन्द्र दैत्यासुरनिबर्हण ।
त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि ॥ १२.२८७.२२ ॥
你是诸神中最优秀者,诸神之主,摧毁达提耶与阿修罗者,具备三界之力;帝释啊,你为何沮丧?
12.287.23
एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्पतिः ।
सोमश्च भगवान्देवः सर्वे च परमर्षयः ॥ १२.२८७.२३ ॥
这里有梵天、毗湿奴和湿婆,世界之主,尊贵的神月神,以及所有至高的仙人。
12.287.24
समुद्विग्नं समीक्ष्य त्वां स्वस्तीत्यूचुर्जयाय ते ।
मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा।
आर्यां युद्धे मतिं कृत्वा जहि शत्रून्सुराधिप ॥ १२.२८७.२४ ॥
见你十分慌乱,他们为你的胜利祝福说“吉祥”:帝释啊,不要像别人那样陷入沮丧;在战斗中以高贵的决心行事,斩杀敌人吧,诸神之主。
12.287.25
एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः ।
निरीक्षते त्वां भगवांस्त्यज मोहं सुराधिप ॥ १२.२८७.२५ ॥
此世界导师、三目者、为一切世界所礼敬的薄伽梵正看着你。诸神之主啊,舍弃迷惑吧。
12.287.26
एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः ।
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै ॥ १२.२८७.२६ ॥
以毗诃娑波提为首的这些婆罗门仙人,以神圣的赞歌为你祈求胜利,帝释天啊。
12.287.27
एवं संबोध्यमानस्य वसिष्ठेन महात्मना ।
अतीव वासवस्यासीद्बलमुत्तमतेजसः ॥ १२.२८७.२७ ॥
当伟大的婆悉吒如此唤醒他之后,具最上光明的因陀罗(婆娑婆)力量大增。
12.287.28
ततो बुद्धिमुपागम्य भगवान्पाकशासनः ।
योगेन महता युक्तस्तां मायां व्यपकर्षत ॥ १२.२८७.२८ ॥
于是,获得智慧、具足大瑜伽的薄伽梵帕迦舍沙纳(因陀罗)驱散了那幻术。
12.287.29
ततोऽङ्गिरः सुतः श्रीमांस्ते चैव सुमहर्षयः ।
दृष्ट्वा वृत्रस्य विक्रान्तुमुपागम्य महेश्वरम् ॥ १२.२८७.२९ ॥
于是安吉罗斯之子及诸大仙见到弗栗多的威勇,便前往大自在天(摩醯首罗)那里。
12.287.30
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया ।
ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः ॥ १२.२८७.३० ॥
为了毁灭弗栗多,他们出于利益众生的愿望而说。于是,世界之主的薄伽梵之光化为热病。
12.287.31
समाविशत्तदा रौद्रं वृत्रं लोकपतिं तदा ।
विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः ॥ १२.२८७.३१ ॥
那时,他进入了凶猛的弗栗多,即诸世界之主;而被一切世界所供奉的世尊天神毗湿奴也进入了他之中。
12.287.32
ऐन्द्रं समाविशुद्वज्रं लोकसंरक्षणे रतः ।
ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम्।
वसिष्ठश्च महातेजाः सर्वे च परमर्षयः ॥ १२.२८७.३२ ॥
因岸护持诸世界,因陀罗的金刚杵进入了他之中。于是智慧的毕哩诃娑波提走近百祭者(因陀罗),大光辉的婆私吒及一切至上仙人也如此。
12.287.33
ते समासाद्य वरदं वासवं लोकपूजितम् ।
ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो ॥ १२.२८७.३३ ॥
他们走近赐予恩惠、为诸世界所供奉的婆娑(因陀罗),心无二念地说:「主啊,请杀死弗栗多!」
12.287.34
एष वृत्रो महाञ्शक्रे बलेन महता वृतः ।
विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः ॥ १२.२८७.३४ ॥
这位伟大的弗栗多,以庞大的力量围攻因陀罗,以众生之我、遍在者、多幻化者而著称。
12.287.35
तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् ।
जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर ॥ १२.२८७.३५ ॥
因此,请以瑜伽之力杀死这位阿修罗之首——即使三界也难以战胜他。诸天之主啊,不可轻视他。
12.287.36
अनेन हि तपस्तप्तं बलार्थममराधिप ।
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ ॥ १२.२८७.३६ ॥
为了力量,他修苦行六万年,诸不死者之主啊,梵天也赐给他一个恩惠。
12.287.37
महत्त्वं योगिनां चैव महामायत्वमेव च ।
महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर ॥ १२.२८७.३७ ॥
瑜伽行者的伟大,大幻力,大力量,以及至上的光辉,诸神之主啊。
12.287.38
एतत्त्वां मामकं तेजः समाविशति वासव ।
वृत्रमेवं त्ववध्यं तं वज्रेण जहि दानवम् ॥ १२.२८७.३८ ॥
我的这份光辉进入你体内,婆薮啊。那不可被杀的檀那婆弗栗多,你就用金刚杵杀死他吧。
12.287.39
भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् ।
वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ ॥ १२.२८७.३९ ॥
尊贵的主啊,蒙您恩典,我将在您注视之下,以金刚杵杀死那难以接近的提迪之子,诸神中的雄牛啊。
12.287.40
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे ।
देवतानामृषीणां च हर्षान्नादो महानभूत् ॥ १२.२८७.४० ॥
当热病侵入那提迪之子、大阿修罗之时,诸神与仙人因喜悦而发出巨大的声响。
12.287.41
ततो दुन्दुभयश्चैव शङ्ख्याश्च सुमहास्वनाः ।
मुरजा डिण्डिभाश्चैव प्रावाद्यन्त सहस्रशः ॥ १२.२८७.४१ ॥
于是,鼓与声音极大的法螺、穆拉遮鼓和丁迪摩鼓,成千上万地响起。
12.287.42
असुराणां तु सर्वेषां स्मृतिलोपो महानभूत् ।
मायानाशश्च बलवान्क्षणेन समपद्यत ॥ १२.२८७.४२ ॥
所有阿修罗都陷入了巨大的失忆,他们强大的幻术在一瞬间消散了。
12.287.43
तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा ।
स्तुवन्तः शक्नमीशानं तथा प्राचोदयन्नपि ॥ १२.२८७.४३ ॥
众仙与众神知其已被附体,便赞颂帝释与自在天,也推动了他。
12.287.44
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः ।
ऋषिभिः स्तूयमानस्य रूपमासीन्सुदुर्दृशम् ॥ १२.२८७.४४ ॥
在战时立于战车上、被众仙赞颂的大德帝释之形,极难目睹。