摩诃婆罗多 · 章 12.291
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.291.1
अध्यात्मं नाम यदिदं पुरुषस्येह विद्यते ।
यदध्यात्मं यतश्चैव तन्मे ब्रूहि पितामह ॥ १२.२९१.१ ॥
祖父啊,请告诉我,人身上存在的这个“内在自我”(adhyātma)是什么,它从何而来。
12.291.2
सर्वज्ञानं परं बुद्ध्या यन्मां त्वमनुपृच्छसि ।
तद्व्याख्यास्यामि ते तात तस्य व्याख्यामिमां शृणु ॥ १२.२९१.२ ॥
孩子,你问我的那超越一切可由智慧所知之知识的至高之法,我将为你解说,请听这番解释。
12.291.3
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥ १२.२९१.३ ॥
地、风、空、水,以及第五的火光:这些是大种,是一切众生的生起与消散。
12.291.4
स तेषां गुणसंघातः शरीरं भरतर्षभ ।
सततं हि प्रलीयन्ते गुणास्ते प्रभवन्ति च ॥ १२.२९१.४ ॥
婆罗多族中的雄牛啊,它们的诸德聚合便是身体;这些德性不断地消融,又不断地生起。
12.291.5
ततः सृष्टानि भूतानि तानि यान्ति पुनः पुनः ।
महाभूतानि भूतेभ्य ऊर्मयः सागरे यथा ॥ १२.२९१.५ ॥
于是所生的众生一次又一次地消逝;大种从众生而生,如同大海中的波浪。
12.291.6
प्रसारयित्वेहाङ्गानि कूर्मः संहरते यथा ।
तद्वद्भूतानि भूतानामल्पीयांसि स्थवीयसाम् ॥ १२.२९१.६ ॥
犹如龟在此伸展其肢体,又再收缩,同样,细小的诸元素也收入较大的众生之中。
12.291.7
आकाशात्खलु यो घोषः संघातस्तु महीगुणः ।
वायोः प्राणो रसस्त्वद्भ्यो रूपं तेजस उच्यते ॥ १२.२९१.७ ॥
从虚空确实产生声音,坚实则是大地的属性。从风产生气息,从水产生味道,从火产生形色,据说如此。
12.291.8
इत्येतन्मयमेवैतत्सर्वं स्थावरजङ्गमम् ।
प्रलये च तमभ्येति तस्मादुद्दिश्यते पुनः ॥ १२.२९१.८ ॥
如此,这一切静止与运动之物都由这些构成。在劫灭时,它回归于它们,因此再次提及它们。
12.291.9
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।
विषयान्कल्पयामास यस्मिन्यदनुपश्यति ॥ १२.२९१.९ ॥
五大元素是一切众生之中唯一存在的。造化众生者设定了诸根的境界;在所见之物中,那便成为其境界。
12.291.10
शब्दश्रोत्रे तथा खानि त्रयमाकाशयोनिजम् ।
रसः स्नेहश्च जिह्वा च अपामेते गुणाः स्मृताः ॥ १२.२९१.१० ॥
声音、听觉与诸根的孔窍,此三者生于虚空。味、润泽与舌,此为水之德。
12.291.11
रूपं चक्षुर्विपाकश्च त्रिविधं ज्योतिरूच्यते ।
घ्रेयं घ्राणं शरीरं च एते भूमिगुणाः स्मृताः ॥ १२.२९१.११ ॥
形色、眼根与消化之热,此三者称为三种光明。香、鼻根与身,此为地之德。
12.291.12
प्राणः स्पर्शश्च चेष्टा च वायोरेते गुणाः स्मृताः ।
इति सर्वगुणा राजन्व्याख्याताः पाञ्चभौतिकाः ॥ १२.२९१.१२ ॥
气息、触觉与运动,此为风之德。大王,如此,由五大所成的一切德性已被阐明。
12.291.13
सत्त्वं रजस्तमः कालः कर्म बुद्धिश्च भारत ।
मनः षष्ठानि चैतेषु ईश्वरः समकल्पयत् ॥ १२.२९१.१३ ॥
薄伽、罗阇、答摩、时间、行动与觉性,婆罗多啊;其中第六为意。自在主如此安排了它们。
12.291.14
यदूर्ध्वपादतलयोरवाड्यूर्ध्नश्च पश्यसि ।
एतस्मिन्नेव कृत्स्नेयं वर्तते बुद्धिरन्तरे ॥ १२.२९१.१४ ॥
你在足底与头顶、上与下所见的,正在此之中,整个这一觉性就存在于其内。
12.291.15
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते ।
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञः पुनरष्टमः ॥ १२.२९१.१५ ॥
人中有五根;第六称为意;第七称为觉性;第八则是知田者。
12.291.16
इन्द्रियाणि च कर्ता च विचेतव्यानि भागशः ।
तमः सत्वं रजस्तैव तेऽपि भावास्तदाश्रयाः ॥ १२.२९१.१६ ॥
诸根与作者应当逐一分别。暗性、善性、激性,那些状态也依止于它们。
12.291.17
चक्षुरालोचनायैव संशयं कुरुते मनः ।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ १२.२९१.१७ ॥
眼唯为观看;意生起疑惑;觉性用于决断;见证者称为知田者。
12.291.18
तमः सत्वं रजश्चेति कालः कर्म च भारत ।
गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाणि च।
मनः षष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥ १२.२९१.१८ ॥
暗性、善性、激性,时间与行动,婆罗多啊;觉性不受德性引导。觉性即是诸根,第六的意也一切皆是。若无觉性,德性何在?
12.291.19
येन पश्यति तच्चक्षुः शृण्वती श्रोत्रमुच्यते ।
जिघ्रती भवति घ्राणं रसती रसना रसान् ॥ १२.२९१.१९ ॥
借之而见者为眼;闻之时称为耳。嗅之时成为鼻;尝味之时为舌,品尝诸味。
12.291.20
स्पर्शनं स्पर्शती स्पर्शान्बुद्धिर्विक्रियतेऽसकृत् ।
यदा प्रार्थयते किंचित्तदा भवति सा मनः ॥ १२.२९१.२० ॥
触之时为触根,缘于诸触。觉慧屡屡变异;若有所欲求,彼时即成为意。
12.291.21
अधिष्ठानानि बुद्ध्या हि पृथगेतानि पञ्चधा ।
इन्द्रियाणीति तान्याहुस्तेषु दुष्टेषु दुष्यति ॥ १२.२९१.२१ ॥
觉慧之依处有五种,各各不同;人们称之为诸根。彼等若被染污,觉慧亦随之染污。
12.291.22
पुरुषे तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते ।
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ॥ १२.२९१.२२ ॥
住于人身的觉慧运行于三种状态之中:有时获得喜悦,有时也生忧悲。
12.291.23
न सुखेन न दुःखेन कदाचिदपि वर्तते ।
सेयं भावात्मिका भावांस्त्रीनेतान्परिवर्तते ॥ १२.२९१.२३ ॥
它从不安住于乐,也不安住于苦;此由诸境相所成之觉慧,流转于这三种境况之中。
12.291.24
सरितां सागरो भर्ता यथा वेलामिवोर्मिमान् ।
इति भावगता बुद्धिर्भावे मनसि वर्तते ॥ १२.२९१.२४ ॥
如江河之主大海,带着波浪拍击岸边;同样,入于诸境的觉慧安住于境相之中,即在意之中流转。
12.291.25
प्रवर्तमानं तु रजस्तद्भावेनानुर्तते ।
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ॥ १२.२९१.२५ ॥
然而当罗阇(rajas)生起时,随其状态而来的是喜悦、欢愉、快乐、幸福与心的平静。
12.291.26
कथंचिदुपपद्यन्ते पुरुषे सात्विका गुणाः ।
पिरदाहस्तथा शोकः संतापोऽपूर्तिरक्षमा ॥ १२.२९१.२६ ॥
人身上也会以某种方式生起善质(sattva)的德性,同样也会有烦躁、悲伤、苦恼、不满与不忍。
12.291.27
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः ।
अविद्या रागमोहौ च प्रमादः स्तब्धता भयम् ॥ १२.२९१.२७ ॥
这些是罗阇(rajas)的标志,或有因或无因地显现:无明、贪爱与迷惑、放逸、僵硬与恐惧。
12.291.28
असमृद्धिस्तथा दैन्यं प्रमोहः स्वप्नतन्द्रिता ।
कथंचिदुपवर्तन्ते विविधास्तामसा गुणाः ॥ १२.२९१.२८ ॥
不兴旺、贫困、昏惑、睡眠与昏沉——如此,各种暗质(tamas)的德性也以某种方式生起。
12.291.29
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा ॥ १२.२९१.२९ ॥
其中,在身或心中与喜悦相连者,即是善质之状态;应当如此以平等心观照之。
12.291.30
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः ।
प्रवृत्तं रज इत्येव तदसंरभ्य चिन्तयेत् ॥ १२.२९१.३० ॥
而与苦相连、令自身不悦的,即是已生起的罗阇(rajas);应不激动地思考它。
12.291.31
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ १२.२९१.३१ ॥
凡与迷惑相连、在身体或心中、超越推理且不可知者,应当认识到那是暗性(tamas)。
12.291.32
इति बुद्धिगतीः सर्वा व्याख्याता यावतीरिह ।
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ॥ १२.२९१.३२ ॥
若能如此理解此处所说的一切智慧之道,便成为有觉悟的人。智者还有什么别的标志呢?
12.291.33
सत्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः ।
सृजतेऽत्र गुणानेक एको न सृजते गुणान् ॥ १२.२९१.३३ ॥
应当知道,这是萨埵与田之知者这两个微妙者之间的区别:此中一者产生诸德,另一者则不产生诸德。
12.291.34
पृथग्भूतौ प्रकृत्या तु संप्रयुक्तौ च सर्वदा ।
यथा मत्स्योऽद्भिरन्यः स्यात्संप्रयुक्तो भवेत्तथा ॥ १२.२९१.३४ ॥
二者本性各自不同,却始终相连,如同鱼虽异于水,却与水相连。
12.291.35
न गुणा विदुरात्मानं स गुणान्वेद सर्वतः ।
परिद्रष्टा गुणानां तु संस्रष्टा मन्यते यथा ॥ १२.२९१.३५ ॥
诸德不知自我;而他完全知晓诸德。诸德的完全见证者被视为如同其创造者。
12.291.36
आश्रयो नास्ति सत्वस्य गुणसर्गेण चेतना ।
सत्वमस्य सृजन्त्यन्ये गुणान्वेद कदाचन ॥ १२.२९१.३६ ॥
萨埵没有依托;觉知因诸德的产生而起。萨埵由他者产生,它从不知晓诸德。
12.291.37
सृजते हि गुणान्सत्वं क्षेत्रज्ञः परिपश्यति ।
संप्रयोगस्तयोरेष सत्वक्षेत्रज्ञयोर्ध्रुवः ॥ १२.२९१.३७ ॥
知场者创造诸德与悉多(sattva),并观照之。悉多与知场者之结合是恒定的。
12.291.38
इन्द्रियैस्तु प्रदीपार्थं क्रियते बुद्धिरन्तरा ।
निश्चक्षुर्भिरजानद्भिरिन्द्रियाणि प्रदीपवत् ॥ १२.२९१.३८ ॥
借由诸根,觉性在其间形成,犹如为了灯火。对于无眼、无知之人,诸根便如灯一般。
12.291.39
एवं स्वभावमेवैतत्तद्बुद्ध्वा विहरन्नरः ।
अशोचन्नप्रहृष्यंश्च स वै विगतमत्सरः ॥ १२.२९१.३९ ॥
如是知此乃其自性,人便行走于世,不忧不喜,离于嫉妒。
12.291.40
स्वभावसिद्धमेवैतद्यदिमान्सृजते गुणान् ।
ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः ॥ १२.२९१.४० ॥
其生成此等诸德,乃由自性所成。如蜘蛛吐丝,诸德应知如丝线。
12.291.41
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥ १२.२९१.४१ ॥
已灭者不复返,动作亦不可得见。如是有人如此断定,另有人则称之为止息。
12.291.42
इतीदं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् ।
विमुच्य सुखमासीत विशोकश्छिन्नसंशयः ॥ १२.२९१.४२ ॥
如是解开心中由智慧与忧虑所结的牢固之结,离于忧悲,斩断疑惑,安然而住。
12.291.43
ताम्येयुः प्रच्युताः पृथ्वीं मोहपूर्णां नदीं नराः ।
यथा गाधमविद्वांसो बुद्धियोगमयं तथा ॥ १२.२९१.४३ ॥
就像人们落入充满迷惑的河中,不知深浅,便会疲惫不堪;缺乏智慧瑜伽的人也是如此。
12.291.44
नैव ताम्यन्ति विद्वांसः प्लवन्तः पारमम्भसः ।
अध्यात्मविदुषो धीरा ज्ञानं तु परमं प्लवः ॥ १२.२९१.४४ ॥
智者游过水面抵达彼岸时并不疲惫;对于了知自我的坚定者来说,知识便是至高的筏。
12.291.45
न भवति विदुषां महद्भयं ।
यदविदुषां सुमहद्भयं भवेत्।
न हि गतिरधिकाऽस्ति कस्यचि ।
त्सकृदुपदर्शयतीह तुल्यताम् ॥ १२.२९१.४५ ॥
智者没有大的恐惧,而无知者则有极大的恐惧。任何人的归宿都不超过此;在此它一次性地显示了平等。
12.291.46
यत्करोति बहुदोषमेकत ।
स्तच्च दूषयति यत्पुरा कृतम्।
नाप्रियं तदुभयं करोत्यसौ ।
यच्च दूषयति यत्करोति च ॥ १२.२९१.४६ ॥
一次性做出诸多过失之事的人,以及毁坏先前所做之事的人,两者都在做不愉快的事:毁坏者与行事者皆然。