摩诃婆罗多 · 章 12.292
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.292.1
शोकाद्दुःखाच्च मृत्योश्च त्रसन्ते प्राणिनः सदा ।
उभयं नो यथा न स्यात्तन्मे ब्रूहि पितामह ॥ १२.२९२.१ ॥
众生总是因悲伤、苦难和死亡而战栗。祖父啊,请告诉我,如何使这两者都不降临到我们身上。
12.292.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं समङ्गस्य च भारत ॥ १२.२९२.२ ॥
关于此事,人们也讲述这个古老的故事:那罗陀与萨芒伽的对话,婆罗多啊。
12.292.3
उरसेव प्रणमसे बाहुभ्यां तरसीव च ।
संप्रहृष्टमना नित्यं विशोक इव लक्ष्यसे ॥ १२.२९२.३ ॥
你仿佛用胸膛和双臂用力地叩拜;心中常怀喜悦,看上去如同无忧无虑。
12.292.4
उद्वेगं न हि ते किंचित्सुसूक्ष्ममपि लक्षये ।
नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे ॥ १२.२९२.४ ॥
我在你身上看不到任何不安,哪怕极其细微;你常常满足安详,行事如同孩童。
12.292.5
भूतं भव्यं भविष्यच्च सर्वभूतेषु नारद ।
तेषां तत्त्वानि जानामि ततो न विमना ह्यहम् ॥ १२.२९२.५ ॥
那罗陀啊,我了知一切众生中过去、现在与未来的真实本性,因此我心并不烦乱。
12.292.6
उपक्रमानहं वेद पुनरेव फलोदयान् ।
लोके फलानि चित्राणि ततो न विमना ह्यहम् ॥ १२.२९२.६ ॥
我了知行为的开端,也了知其果报的再次生起;世间的果报千差万别,因此我心并不烦乱。
12.292.7
अनाथाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद ।
अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः ॥ १२.२९२.७ ॥
无依无靠者、无住处者、能行动者、盲人与愚钝者也都在活着。那倘若你看看我们这些活着的人吧,那那罗陀啊。
12.292.8
विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः ।
बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय ॥ १२.२९२.८ ॥
依照所定之法,四肢无病的天神得以生存,强者与弱者皆然。也请以同样的方式指教我们。
12.292.9
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा ।
शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः ॥ १२.२९२.९ ॥
拥有千金者也活着,拥有百金者也如此;其他人以菜蔬为食而活。那也看看我们这些活着的人吧。
12.292.10
यदा न शोचेमहि किं नु नः स्या ।
द्धर्मेण वा नारद कर्मणा वा।
कृतान्तवश्यानि यदा सुखानि ।
दुःखानि वा यन्न विधर्षयन्ति ॥ १२.२९२.१० ॥
若我们不悲伤,我们会怎样?那罗陀啊,依法或依业,当快乐受死神支配,而痛苦却不侵扰我们时,又当如何?
12.292.11
यस्मै प्राज्ञाः कथयन्ते मनुष्याः ।
प्रज्ञामूलं हीन्द्रियाणां प्रसादः।
मुह्यन्ति शोचन्ति तथेन्द्रियाणि ।
प्रज्ञालाभो नास्ति मूढेन्द्रियस्य ॥ १२.२९२.११ ॥
智者对人们所说的是:智慧是诸根清净的根本。诸根迷惑而生忧悲;对于诸根愚昧的人,智慧无从获得。
12.292.12
मूढस्य दर्पः स पुनर्मोह एव ।
मूढस्य नायं न परोऽस्ति लोकः।
न ह्येव दुःखानि सदा भवन्ति ।
सुखस्य वा नित्यशो लाभ एव ॥ १२.२९२.१२ ॥
愚人的傲慢即是再次的迷惑。对愚人而言,既无此世,也无他世。痛苦并非时时发生,快乐的获得也非恒常不变。
12.292.13
भावात्मकं संपरिवर्तमानं ।
न मादृशः संज्वरं जातु कुर्यात्।
इष्टान्भोगान्नानुरुध्येत्सुखं वा ।
न चिन्तयेद्दुःखमभ्यागतं वा ॥ १२.२९२.१३ ॥
像我这样的人,不应因恒常变化的存在状态而永久烦恼;不应执着于所欲的享乐与快乐,也不应去思虑已经降临的痛苦。
12.292.14
समाहितो न स्पृहयेत्परेषां ।
नानागतं चाभिनन्देच्च लाभम्।
न चापि हृष्येद्विपुलेऽर्थलाभे ।
तथाऽर्थनाशे च न वै विषीदेत् ॥ १२.२९२.१४ ॥
心志安定之人,不应贪求他人之物,也不应为尚未到来的利益而欢喜;不应因获得大量财富而欣喜,同样也不应因财富丧失而沮丧。
12.292.15
न बान्धवा न च वित्तं न कौल्यं ।
न च श्रुतं न च मन्त्रा न वीर्यम्।
दुःखान्त्रातुं सर्व एवोत्सहन्ते ।
परत्र शीलेन तु यान्ति शान्तिम् ॥ १२.२९२.१५ ॥
亲族、财富、高贵出身、学问、谋略、勇力,都不能从苦难中救人;唯有以德行(戒,śīla),人们才能在来世获得寂静安宁。
12.292.16
नास्ति बुद्धिरयुक्तस्य नायोगाद्विन्दते सुखम् ।
धृतिश्च दुःखत्यागश्चेत्युभयं तु सुखं नृप ॥ १२.२९२.१६ ॥
不调伏之人没有智慧,没有瑜伽便得不到幸福。坚定与舍弃苦恼——这两者,大王啊,都是幸福。
12.292.17
प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः ।
उत्सेको नरकायैव तस्मात्तान्संत्यजाम्यहम् ॥ १२.२९२.१७ ॥
可爱之物必生喜悦,喜悦增长傲慢,傲慢必然通往地狱。因此我舍弃它们。
12.292.18
एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः ।
पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात् ॥ १२.२९२.१८ ॥
我在世间看到这些——忧愁、恐惧与亢奋,它们使人在苦乐中迷惑——我如同见证者一般看着这身体的种种活动。
12.292.19
अर्थकामौ परित्यज्य विशोको विगतज्वरः ।
तृष्णामोहौ तु संत्यज्य चरामि पृथिवीमिमाम् ॥ १२.२९२.१९ ॥
舍弃财富与欲望,无忧无热,又舍弃渴爱与迷惑,我在这大地上游行。
12.292.20
न च मृत्योर्न चाधर्मान्न लोभान्न कुतश्चन ।
पीतामृतस्येवात्यन्तमिह वामुत्र वा भयम् ॥ १२.२९२.२० ॥
我不怕死亡,不怕不义,不怕贪婪,也不怕任何事物;如同饮了甘露之人,我在此世和彼世都全无恐惧。
12.292.21
एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम् ।
तेन नारद संप्राप्तो न मां शोकः प्रबाधते ॥ १२.२९२.२१ ॥
婆罗门啊,我知道这一点:修行了伟大而不坏的苦行,那纳罗陀啊,我因此得到了它,悲伤不再折磨我。