摩诃婆罗多 · 章 12.296
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.296.1
अतः परं महाबाहो यच्छ्रेयस्तद्ब्रवीहि मे ।
न तृप्याम्यमृतस्येव वचसस्ते पितामह ॥ १२.२९६.१ ॥
大臂者啊,请告诉我此后何为至善。祖父啊,您的言语如甘露,我却仍未满足。
12.296.2
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम ।
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद ॥ १२.२९६.२ ॥
人中最上者啊,人行何种善业,才能在此世和来世获得至上之善?请说明。
12.296.3
अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः ।
पराशरं महात्मानं पप्रच्छ जनको नृपः ॥ १२.२९६.३ ॥
我将在此为你讲述,昔日大名远扬的国王遮那迦向大德波罗奢罗所问之事。
12.296.4
किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च ।
यद्भवेत्प्रतिपत्त्व्यं तद्भवान्प्रब्रवीतु मे ॥ १२.२९६.४ ॥
在此世与来世,对一切众生而言何为至善,应当获得的是什么?愿您告诉我。
12.296.5
ततः स तपसा युक्तः सर्वधर्मविधानवित् ।
नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत् ॥ १२.२९६.५ ॥
于是那位苦行圆满、通晓一切法则规定的仙人,怀着对国王的慈悯之心,说出了这些话。
12.296.6
धर्म एव कृतः श्रेयानिह लोके परत्र च ।
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः ॥ १२.२९६.६ ॥
法若被奉行,便是此世与来世的至善;因此没有比它更高的,正如智者所说。
12.296.7
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते ।
धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम ॥ १२.२९६.७ ॥
人若奉行法(dharma),便在天界受人尊崇。诸王中最杰出者啊,有形众生的业之法则本身即是法。
12.296.8
तस्मिन्त्राश्रमिणः सन्तः स्वकर्माणीह कुर्वते ॥ १२.२९६.८ ॥
在那(秩序)之中,居于各生活阶段的善人在此履行各自的职责。
12.296.9
चतुर्विधा हि लोकेऽस्मिन्यात्रा तात विधीयते ।
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते ॥ १२.२९६.९ ॥
孩子,在这世间规定了四重的生活行程,凡人所居的那行程由欲望而发动。
12.296.10
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः ।
दशार्धप्रविभक्तानां भूतानां विविधा गतिः ॥ १२.२९६.१० ॥
修习种种善恶之业,历经诸般次第,那分为十又半部分的众生,其趣向是多样的。
12.296.11
सौवर्णं राजतं चापि यथा भाण्डं निषिच्यते ।
तथा निपिच्यते जन्तुः पूर्वकर्मवशानुगः ॥ १२.२९६.११ ॥
犹如金器或银器被浇铸成型,随前世业力所左右的众生也如此被铸造成形。
12.296.12
नाबीजाज्जायते किंचिन्नाकृत्वा सुखमेधते ।
सुकृतैर्विन्दते सौख्यं प्राप्य देहक्षयं नरः ॥ १२.२९६.१२ ॥
无种子则无物生,不行动则乐不增。人以善业得乐,即便到达身体败坏之时,依然如此。
12.296.13
दैवं तात न पश्यामि नास्ति दैवस्य साधनम् ।
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः ॥ १२.२९६.१३ ॥
亲爱的孩子,我看不见命运,命运也没有任何手段。天神、乾闼婆和檀那婆,都是依其自性而成就的。
12.296.14
प्रेत्य यान्त्यकृतं कर्म न स्मरन्ति सदा जनाः ।
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् ॥ १२.२९६.१४ ॥
死后,人们不带走未曾做过的业,人们也并不总是记得。获得其果报时,还有四种业。
12.296.15
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः ।
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् ॥ १२.२९६.१५ ॥
以世间行为为基础、以吠陀为依托的言辞(法)已被确立。亲爱的孩子,这不是为平静心灵而说的长者教诲。
12.296.16
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते ॥ १२.२९६.१६ ॥
以眼、以意、以言、以身,人以四种方式造作业。所造何业,便得何报。
12.296.17
निरन्तरं च मिश्रं च लभते कर्म पार्थिव ।
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते ॥ १२.२९६.१७ ॥
君王啊,人获得业是持续不断而又混杂的,无论善或恶。但其业并无灭失。
12.296.18
कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति ।
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ॥ १२.२९६.१८ ॥
亲爱的孩子,善业有时如同不动之物般常住,为沉溺于轮回者所有,直到他脱离苦难。
12.296.19
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते ।
सुकृतक्षयाच्च दुष्कृतं तद्विद्धि मनुजाधिप ॥ १२.२९६.१९ ॥
于是止息苦难后,人行善业;善业耗尽之时,当知其转为恶业,人主啊。
12.296.20
दमः क्षमा धृतिस्तेजः संतोषः सत्यवादिता ।
ह्रीरहिंसाऽव्यसनिता दाक्ष्यं चेति सुखावहाः ॥ १२.२९६.२० ॥
克制、忍耐、坚定、威严、知足、诚实、羞耻心、不杀生、远离恶习与灵巧——这些带来快乐。
12.296.21
दुष्कृते सुकृते चापि न जन्तुर्नियतो भवेत् ।
नित्यं मनः समाधाने प्रयतेत विचक्षणः ॥ १२.२९६.२१ ॥
众生不应固着于恶业或善业;智者应当常常努力使心安定于专注之中。
12.296.22
नायं परस्य सुकृतं दुष्कृतं चापि सेवते ।
करोति यादृशं कर्म तादृशं प्रतिपद्यते ॥ १२.२९६.२२ ॥
此人不承受他人的善业或恶业;他所作何种业,便得何种果报。
12.296.23
सुखदुःखे समाधाय पुमानन्येन गच्छति ।
अन्येनैव जनः सर्वः संगतो यश्च पार्थिवः ॥ १२.२९६.२३ ॥
人舍弃苦乐之后,便随另一者而去;每个人都与他人相连,君王也是如此。
12.296.24
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः ।
यो ह्यसूयुस्तथा युक्तः सोऽवहासं नियच्छति ॥ १२.२९६.२४ ॥
别人所嫉妒之事,人自己不应去做;嫉妒而去做之人,必招致嘲笑。
12.296.25
भीरू राजन्यो ब्राह्मणः सर्वभक्ष्यो ।
वैश्योऽनीहावान्हीनवर्णोऽलसश्च।
विद्वांश्राशीलो वृत्तहीनः कुलीनः ।
सत्याद्विभ्रष्टो ब्राह्मणस्त्री च तुष्टा ॥ १२.२९६.२५ ॥
怯懦的国王,什么都吃的婆罗门,不努力的吠舍,низ种姓且懒惰的人;有学问却行为不端者,缺乏良好品行的贵族,背离真理的婆罗门,以及知足的女人。
12.296.26
रागी युक्तः पचमानोऽऽत्महेतो ।
र्मूर्खो वक्ता नृपहीनं च राष्ट्रम्।
एते सर्वे शोच्यतां यान्ति राज ।
न्यश्रायुक्तः स्नेहहीनः प्रजासु ॥ १२.२९६.२६ ॥
贪恋者、只为自己烹饪者、愚蠢的言者,以及无王的国家——这些人都会陷入可悲的境地。同样,依赖他人、对臣民缺乏爱心的国王也是如此。