Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.297

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.297.1

मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः ।
रश्मिभिर्ज्ञानसंभूतैर्यो गच्छति स बुद्धिमान् ॥ १२.२९७.१ ॥

人若得到以感官对象为马驾驭的欲望之车,并以由智慧所生的缰绳驾驭它前行,他便是智者。

12.297.2

सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते ।
द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परात् ॥ १२.२९७.२ ॥

对于无生计之人,以依附于服侍之心,从再生族之手所得的生计才值得称赞;而非平等者之间的相互交换。

12.297.3

आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशांपते ।
उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा ॥ १२.२९७.३ ॥

人主啊,人得到不易获得的生命,不应使之堕落;应当以善业努力求得提升。

12.297.4

वर्णेभ्यो हि परिभ्रष्टो न वै संमानमर्हति ।
न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते ॥ १२.२९७.४ ॥

堕出于种姓之人确实不配受敬;得到了正当仪式却行持激情之业的人,也同样不配。

12.297.5

वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा ।
दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा ॥ १२.२९७.५ ॥

人以善业获得种姓上的提升;若未能得到这难得之物,便会因恶业而毁灭。

12.297.6

अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत् ।
पापं हि कर्म फलति पापमेव स्वयंकृतम्।
तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् ॥ १२.२९७.६ ॥

因无知而造之罪,应当只以苦行来消除。恶业必定结果;自己所造之恶确实会结果。因此不应行造作恶业,其果报是苦的生起。

12.297.7

पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् ।
तन्न सेवेत मेधावी शुचिः कुशलिनं यथा ॥ १२.२९७.७ ॥

即使与罪孽相连的行为带来大果,智慧纯净的人也不应去做,正如求吉祥者不会去做一样。

12.297.8

किंकष्टमनुपश्यामि फलं पापस्य कर्मणः ।
प्रत्यापन्नस्य हि ततो नात्मा तावद्विरोचते ॥ १२.२९७.८ ॥

我在罪业行为的果报中看到了怎样的痛苦?陷入其中者的自我,暂时不会光辉。

12.297.9

प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते ।
तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते ॥ १२.२९७.९ ॥

在此无赎罪之念的愚人,即使已踏上此路者,也会生起巨大的痛苦。

12.297.10

विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् ।
प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे ॥ १२.२९७.१० ॥

褪色的布可以洗净,染上黑色的却不能。人主啊,通过努力去除罪恶也是如此,请从我这里领会。

12.297.11

स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति ।
प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् ॥ १२.२९७.११ ॥

人若自己造罪,之后行善并忏悔赎罪,便各自享受两者的果报。

12.297.12

अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षति ।
ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः ॥ १२.२९७.१२ ॥

因无知所作的暴力,可由非暴力除去;依据经典的教导,阐明梵的婆罗门如是说。

12.297.13

तथा कामकृतं नास्य विहिंसैवानुकर्षति ।
इत्याहुर्ब्रह्मशास्त्रज्ञा ब्राह्मणा ब्रह्मवादिनः ॥ १२.२९७.१३ ॥

同样,出于欲望所做的行为,只会为他引来伤害。精通梵书的梵语者婆罗门如此说。

12.297.14

अहं तु तावत्पश्यामि कर्म यद्धर्तते कृतम् ।
गुणयुक्तं प्रकाशं वा पापेनानुपसंहितम् ॥ १२.२९७.१४ ॥

然而我如此看待:凡所行之业,无论是具备德性而显露的,还是与罪恶无关的。

12.297.15

यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् ।
बुद्धियुक्तानि तानीह कृतानि मनसा सह ॥ १२.२९७.१५ ॥

正如微细之业在此如其所是地结出果实,那些与觉悟相应、与心一同所作的业,在此亦然。

12.297.16

भवत्यल्पफलं कर्म सेवितं नित्यमुल्वणम् ।
अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा ॥ १२.२९७.१६ ॥

持续不断且猛烈的行为结出的果实很少。精通法的人啊,那种事先无觉知、以猛烈之业所作的。

12.297.17

कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा ।
न चरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ॥ १२.२९७.१७ ॥

诸神与仙人所作之业,行法之人不应效仿;即使听闻,也不应加以诋毁。

12.297.18

संचिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः ।
करोति यः शुभं कर्म स वै भद्राणि पश्यति ॥ १२.२९७.१८ ॥

大王啊,凡以心善加思量、知晓自身之能而行善业者,他必定能见到吉祥。

12.297.19

नवे कपाले सलिलं संन्यस्तं हीयते यथा ।
नवेतरे तथा भावं प्राप्नोति सुखभावितम् ॥ १२.२९७.१९ ॥

如同倒入新瓦罐的水会渗失,同样,在新的或另一个容器中,它达到充满快乐的状态。

12.297.20

सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते ।
तद्धि वृद्धिमवाप्नोति सलिले सलिलं यथा ॥ १२.२९७.२० ॥

若将他水倒入已有水的器皿中,它便与之混合而增长,正如水与水相融。

12.297.21

एवं कर्माणि यानीह बुद्धियुक्तानि पार्थिव ।
समानि चैव यानीह तानि पुण्यतमान्यपि ॥ १२.२९७.२१ ॥

如此,国王啊,此间以智慧所作的业,以及与之相同的,都是最有功德的。

12.297.22

राज्ञा जेतव्याः शत्रवश्चोन्नताश्च ।
सम्यक्कर्तव्यं पालनं च प्रजानाम्।
अग्निश्चेयो बहुभिश्चापि यज्ञै ।
रन्त्ये मध्ये वा वनमाश्रित्य स्थेयम् ॥ १२.२९७.२२ ॥

君王应当战胜敌人与傲慢之人,妥善保护臣民,以多种祭祀点燃圣火,并在人生的末期或中期投身森林而住。

12.297.23

दमान्वितः पुरुषो धर्मशीलो ।
भूतानि चात्मानमिवानुपश्येत्।
गरीयसः पूजयेदात्मशक्त्या ।
सत्येन शीलेन सुखं नरेन्द्र ॥ १२.२९७.२३ ॥

有克制且行为端正的人,应视一切众生如同自己;应依自己的能力敬奉尊长。人主啊,幸福来自真实与良好的品行。