摩诃婆罗多 · 章 12.298
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.298.1
कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति ।
प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना ॥ १२.२९८.१ ॥
谁为谁效力,谁又给予谁?此有情为自己的缘故,凭自己而造作一切行为。
12.298.2
गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् ।
सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् ॥ १२.२९८.२ ॥
应当远离因骄傲而被弃绝、缺乏情谊之人,即便是同母所生的兄弟;何况是他人。
12.298.3
विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ ।
तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः ॥ १२.२९८.३ ॥
在高贵者与高贵者之间,施与与接受相等;在二者之中,婆罗门所施之布施功德更大。
12.298.4
न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् ।
संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः ॥ १२.२९८.४ ॥
以正道得来、以正道增长的财富,应当努力守护;这是确定的结论,为了法。
12.298.5
न धर्मार्थी नृशंसेन कर्मणा धनमार्जयेत् ।
शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरन् ॥ १२.२९८.५ ॥
求法与财者,不应以残酷之行为求取财富;应依自己的能力做一切事务,而不只是心念着富足。
12.298.6
अपो हि प्रयताः शीतास्तापिता ज्वलनेन वा ।
शक्तितोऽतिथये दत्त्वा क्षुधार्तायाऽश्नुते फलम् ॥ १२.२९८.६ ॥
无论是精心奉上的清凉之水,还是以火加热的热水,若依自己能力施与客人或饥饿所苦之人,便能获得福报。
12.298.7
रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना ।
फलपत्रैरथो मूलैर्मुनीनचिंतवांश्च सः ॥ १२.२९८.७ ॥
大心的兰提提婆在诸世界中获得了所渴望的成就;他以果实、树叶和根茎供养诸位仙人。
12.298.8
तैरेव फलपत्रैश्च स माठरमतोषयत् ।
तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः ॥ १२.२९८.८ ॥
他以同样的果实和树叶使摩陀罗满意;因此,地上之主尸毗王也获得了至高之境。
12.298.9
देवतातिथिभृत्येभ्यः पितृभ्यश्चात्मनस्तथा ।
ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् ॥ १२.२९८.९ ॥
凡人生来便欠下诸神、客人、仆役、祖先以及自身的债;因此他应当摆脱债务。
12.298.10
स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा ।
पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च ॥ १२.२९८.१० ॥
以诵习吠陀回报大仙,以祭祀之业回报诸神,以施予祭祖(śrāddha)之物回报祖先,以敬礼回报世人。
12.298.11
पाकशेपावहार्येण पालनेनात्मनोऽपि च ।
यथावद्भृत्यवर्गस्य चिकीर्षेत्कर्म आदितः ॥ १२.२९८.११ ॥
以烹煮食物之余供奉,以自养,并依法供养仆役群体,应当从一开始就愿意履行本分。
12.298.12
प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः ।
सम्यग्घृत्वा हुतवहं मुनयः सिद्धिमागताः ॥ १२.२९८.१२ ॥
诸仙以努力得成就,纵使无财,依法向火中献供,便获得了成就。
12.298.13
विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत् ।
ऋग्भिः स्तुत्वा महाबाहो देवान्वै यज्ञभागिनः ॥ १२.२९८.१३ ॥
里奇卡之子以梨俱颂赞颂分享祭祀的诸神,获得了毗首密多罗之子的身份,啊,大臂者。
12.298.14
गतः शुक्रत्वमुशना देवदेवप्रसादनात् ।
देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः ॥ १२.२९८.१४ ॥
乌舍那因天神之神的恩宠而获得了Śukra之位;赞颂女神之后,他在天空中被光辉环绕而欢喜。
12.298.15
असितो देवलश्चैव तथा नारदपर्वतौ ।
कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथाऽऽत्मवान् ॥ १२.२९८.१५ ॥
阿悉多与提婆罗,那罗陀与波尔瓦塔,迦克史伐特,阇摩达格尼之子罗摩,檀耶,以及自制者。
12.298.16
वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च ।
भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः ॥ १२.२९८.१६ ॥
婆私吒、阇摩达格尼、毗首密多罗,以及阿提利;婆罗堕遮、诃梨输摩须、昆陀陀罗与室鲁多室罗婆。
12.298.17
एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः ।
लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः ॥ १२.२९८.१७ ॥
这些大仙以梨俱颂赞颂毗湿奴,心意专一,凭苦行而获得成就,蒙那位智者的恩典。
12.298.18
अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह ।
न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम् ॥ १२.२९८.१८ ॥
即便不配者,获得善人的资格,赞颂他之后,也能成就;但不应当通过做可耻的行为来在此求得增长。
12.298.19
येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् ।
धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया ॥ १२.२९८.१९ ॥
以法得来的财富为真实,以非法得来的财富应受斥责。在世间,不可因贪求财富而舍弃永恒的法。
12.298.20
आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः ।
वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो ॥ १२.२९८.२० ॥
奉持圣火、以法为自性之人,是最善行功德者。大王之主啊,诸吠陀皆安住于三火之中。
12.298.21
च चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते ।
श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् ॥ १२.२९८.२१ ॥
且持火的婆罗门,若其祭祀不废,便是殊胜。不持火亦为更好,因为火供不能无所作为。
12.298.22
अग्निरात्मा च माता च पिता जनयिता तथा ।
गुरुश्च नरशार्दूल परिचर्या यथातथम् ॥ १२.२९८.२२ ॥
火、自我、母亲、父亲、生父与师长——人中之虎啊,应当如法地侍奉他们。
12.298.23
मानं त्यक्त्वा यो नरो वृद्धसेवी ।
विद्वान्क्लीबः पश्यति प्रीतियोगात्।
दाक्ष्येण हीनो धर्मयुक्तो न दान्तो ।
लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः ॥ १२.२९८.२३ ॥
舍弃骄慢、侍奉长者之人;虽有学问却以情谊相待之人;虽无技巧却合于法、不自制者,在世间被善人尊为“贤者”。