Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.3.1

कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च ।
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा ॥ १२.३.१ ॥

凭借迦尔纳臂力的威武、谦逊、克己以及对师尊的侍奉,婆鲁古族的虎杰感到欣悦。

12.3.2

ततस्तस्मै महातेजा ब्रह्मास्त्रं सनिवर्तनम् ।
प्रोवाच सुमहाप्रज्ञः स तपस्वी तपस्विने ॥ १२.३.२ ॥

于是那位大光明、极具智慧的苦行者,将梵天之箭及其收回之法传授给了这位苦行者。

12.3.3

विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः ।
चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः ॥ १२.३.३ ॥

迦尔纳精通了兵器之术,在婆鲁古的修行处中欢然自得,且以非凡的勇武专心致志于弓箭之学。

12.3.4

ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात् ।
कर्णेन सहितो धीमानुपवासेन कर्शितः ॥ १२.३.४ ॥

此后有一次,智慧的罗摩与迦尔纳一同在修行处附近漫步,因禁食而身体衰弱。

12.3.5

सुष्वाप जामदग्न्यस्तु विस्रम्भोत्पन्नसौहृदः ।
तस्योत्सङ्गे समाधाय शिरः क्लान्तमना गुरुः ॥ १२.३.५ ॥

出于信任而生的友情,贾马达格尼之子心力疲惫,把头枕在迦尔纳的膝上睡去——那位师尊。

12.3.6

अथ क्रिमिः श्लेष्ममयो मांसशोणितभोजनः ।
दारुणो दारुणाकारः कर्णस्याभ्याशमागतः ॥ १२.३.६ ॥

此时,一条由痰液所生、以血肉为食、形状可怖的恶虫,来到了迦尔纳身边。

12.3.7

स तस्योरुमथासाद्य बिभेद रुधिराशनः ।
न चैनमशकत्क्षेप्तुं वक्तुं वाऽपि गुरोर्भयात् ॥ १२.३.७ ॥

那吞食血肉的虫子到达他的大腿并刺穿了它。出于对老师的畏惧,他既不能将它甩掉,也不能开口说话。

12.3.8

स दश्यमानोऽपि तथा कृमिणा तेन भारत ।
गुरोः प्रबोधनाकाङ्क्षी तमुपैक्षत सूर्यजः ॥ १२.३.८ ॥

婆罗多啊,尽管被那虫子这样咬着,太阳之子仍想唤醒老师,因此不去理会它。

12.3.9

कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम् ।
अकम्पयन्नव्यथयन्धारयामास भार्गवम् ॥ १२.३.९ ॥

然而迦尔纳以坚忍克制住那难以忍受的剧痛,不颤抖也不显痛苦,使婆利古之子保持不动。

12.3.10

यदा स रुधिरेणाङ्गे परिस्पृष्टोऽभवद्गुरुः ।
तदाऽबुध्यत तेजस्वी संरब्धश्चैनमब्रवीत् ॥ १२.३.१० ॥

当老师的身体被他的血沾染时,光辉的老师察觉了,愤怒地对他说道。

12.3.11

अहोऽस्म्यशुचितां प्राप्तः किमिदं च कृतं त्वया ।
कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम ॥ १२.३.११ ॥

唉,我已经变得不洁了!你做了什么?放下恐惧,把这件事的真相如实告诉我。

12.3.12

तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम् ।
ददर्श रामस्तं चापि कृमिं सूकरसंस्थितम् ॥ १२.३.१२ ॥

于是迦尔纳把虫子啃噬之事告诉了他。罗摩也看见了那条虫,它藏在一头野猪体内。

12.3.13

अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिः परिसंवृतम् ।
रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः ॥ १२.३.१३ ॥

这只八足、尖牙、被针环绕、肢体被毛刺所困的虫子,名叫阿拉尔迦。

12.3.14

स दृष्टमात्रो रामेण किमिः प्राणानवासृजत् ।
तस्मिन्नेवासृजि क्लिन्नस्तदद्भुतमिवाभवत् ॥ १२.३.१४ ॥

罗摩一见,那虫便断了气息;浸在同样的血中,它竟仿佛变得奇异。

12.3.15

ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान् ।
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः ॥ १२.३.१५ ॥

随后天空中出现了一位多形、可怖的罗刹,红颈、黑肢,乘云而来。

12.3.16

स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः ।
स्वस्ति ते भृगुशार्दूल गमिष्येऽहं यथागतम् ॥ १२.३.१६ ॥

他向罗摩合掌,心满意足地说:"愿你平安,婆里具之虎;我将照来时的路离去。"

12.3.17

मोक्षितो नरकादस्माद्भवता मुनिसत्तम ।
भद्रं च तेऽस्तु सिद्धिश्च प्रियं मे भवता कृतम् ॥ १२.३.१७ ॥

"最优秀的仙人,你使我脱离了这地狱。愿你吉祥成就;你为我做了一件可爱的事。"

12.3.18

तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान् ।
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् ॥ १२.३.१८ ॥

于是大臂、威猛的遮摩底尼之子对他说:"你是谁?因何缘故堕入地狱?请告诉我。"

12.3.19

सोऽब्रवीदहमासं प्राग्दंशो नाम महासुरः ।
पुरा देवयुगे तात भृगोस्तु सवया इव ॥ १२.३.१९ ॥

他说:“我从前是名为达姆莎的大阿修罗,在诸神时代,亲爱的,与婆利古同龄。”

12.3.20

सोऽहं भृगोः सुदयितां भार्यामपहरं बलात् ।
महर्षेरभिशापेन क्रिमिभूतोऽपतं भुवि ॥ १२.३.२० ॥

我强行掳走了婆利古最心爱的妻子,因那位大仙的诅咒,我化为虫子坠落于大地。

12.3.21

अब्रवीद्धि स मां क्रुद्धस्तव पूर्वपितामहः ।
मूत्र श्लेष्माशनः पाय निरयं प्रतिपत्स्यसे ॥ १२.३.२१ ॥

你的先祖愤怒地对我说:“你以尿液和痰液为食,将经由肛门而堕入地狱。”

12.3.22

शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रवम् ।
भविता भार्गवाद्रामादिंति मामब्रवीद्भृगुः ॥ १२.३.२२ ॥

“婆罗门啊,诅咒何时才会结束?”我这样问他,婆利古便对我说:“将由婆利古之后的罗摩来结束。”

12.3.23

सोऽहमेनां गतिं प्राप्तो यथा नकुशलस्तथा ।
त्वया साधो समागम्य विमुक्तः पापयोनितः ॥ १२.३.२३ ॥

我落入这种境地,如今并不安好;但是,善人啊,遇见你之后,我已从罪恶之生中解脱。

12.3.24

एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः ।
रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत् ॥ १२.३.२४ ॥

大阿修罗如此说完,行礼后便离去了。罗摩于是怀着愤怒说出了这些话。

12.3.25

अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत् ।
क्षत्रियस्येव ते धैर्यं कामया सत्यमुच्यताम् ॥ १२.३.२५ ॥

愚人啊,这极其痛苦,婆罗门绝不能忍受。你的坚毅如同刹帝利。请自愿说出真相。

12.3.26

तमुवाच ततः कर्णः शापाद्भीतः प्रसादयन् ।
ब्रह्मक्षत्रान्तरे जातं सूतं मां विद्धि भार्गव ॥ १२.३.२६ ॥

于是迦尔纳因诅咒而恐惧,设法安抚他说:婆利古的后裔啊,请知道我是生于婆罗门与刹帝利之间的苏多。

12.3.27

राधेयः कर्ण इति मां प्रवदन्ति जना भुवि ।
प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव ॥ १२.३.२७ ॥

世人称我为罗陀之子迦尔纳。婆罗门啊,婆利古的后裔啊,请对贪求武器的我施以恩惠。

12.3.28

पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः ।
अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके ॥ १२.३.२८ ॥

毫无疑问,他是我的父亲和导师,是授予我吠陀知识的主宰。因此我在您面前说了婆利古的族姓。

12.3.29

तमुवाच भृगुश्रेष्ठः सरोपः प्रदहन्निव ।
भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् ॥ १२.३.२९ ॥

婆利古族中最优秀者怒气冲冲,仿佛要焚烧一般,对那跌倒在地、可怜颤抖、合掌而立的人说道。

12.3.30

यस्मान्मिथ्याविचीर्णोऽहमस्त्रलोभादिह त्वया ।
तस्मादेतन्न ते मूढ ब्रह्मास्त्रं प्रतिभास्यति ॥ १२.३.३० ॥

因为你为了贪求武器,在此用谎言欺骗了我,所以,愚人啊,梵天箭不会在你面前显现。

12.3.31

अन्यत्र वधकालात्ते सदृशे न समीयुपः ।
अब्राह्मणे न हि ब्रह्म चिरं तिष्ठेत्कदाचन ॥ १२.३.३१ ॥

除非在你死亡之时,你将遇不到与你匹敌之人。因为神圣之力(梵)在非婆罗门身上从不会长久停留。

12.3.32

गच्छेदानीं न ते स्थानमनृतस्येह विद्यते ।
न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि ॥ १२.३.३२ ॥

现在走吧,这里没有你谎言的容身之地。在大地上的战斗中,将没有与你相当的刹帝利。

12.3.33

एवमुक्तः स रामेण न्यायेनोपजगामह ।
दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत् ॥ १२.३.३३ ॥

罗摩如此说后,他依正理离去。他来到难敌面前说道:“我已精通武器。”