Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.30.1

ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत ।
भगवञ्छ्रोतुमिच्छामि सुवर्णष्ठीविसंभवम् ॥ १२.३०.१ ॥

于是般度之子国王对那罗陀说:“尊者,我愿听闻吐金者的由来。”

12.30.2

एवमुक्तस्तु स मुनिर्धर्मराजेन नारदः ।
आचचक्षे यथावृत्तं सुवर्णष्ठीविनं प्रति ॥ १२.३०.२ ॥

法王如此相问,仙人那罗陀便将吐金者之事照实叙述。

12.30.3

एवमेतन्महाबाहो यथाऽयं केशवोऽब्रवीत् ।
कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ॥ १२.३०.३ ॥

“大臂者啊,正如克舍婆所言,确是如此。至于此事的其余部分,我将告诉你这位询问者。”

12.30.4

अहं च पर्वतश्चैव स्वस्रीयो मे महाप्नुनिः ।
वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् ॥ १२.३०.४ ॥

“我与帕尔瓦塔,以及我姐妹之子伟大的阿普努尼,为求住处,前往胜利者中最优秀的斯若阇耶处。”

12.30.5

तत्रावां पूजितौ तेन विधिदृष्टेन कर्मणा ।
सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि ॥ १२.३०.५ ॥

“在那里,我们二人受到他依照规定的仪式的礼敬,一切所需都得到妥善供给,我们便住在他的家中。”

12.30.6

व्यतिक्रान्तासु वर्षासु समये गमनस्य च ।
पर्वतो मामुवाचेदं काले वचनमर्थवत् ॥ १२.३०.६ ॥

“雨季过去,出发之时到来,帕尔瓦塔适时对我说了这句有意义的话。”

12.30.7

आवामस्य नरेन्द्रस्य गृहे परमपूजितौ ।
उषितौ समये ब्रह्मंस्तद्विचिन्तय सांप्रतम् ॥ १२.३०.७ ॥

我们二人在此王的宫中受到极大礼遇,停留了一段时间。婆罗门啊,现在请考虑此事。

12.30.8

ततोऽहमब्रुवं राजन्पर्वतं सुभदर्शनम् ।
सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते ॥ १२.३०.८ ॥

于是我对外貌吉祥的波尔瓦塔说:大王啊,大能者,这一切对你都是可能的,外甥。

12.30.9

वरेण च्छन्द्यतां राजा लभतां यद्यदिच्छति ।
आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे ॥ १२.३०.९ ॥

请以恩赐询问国王;让他得到他所愿望的一切。若你认为合适,就让他通过我们的苦行获得成就。

12.30.10

तत आहूय राजानं सृञ्जयं जयतां वरम् ।
पर्वतोऽनुमतो वाक्यमुवाच कुरुपुङ्गव ॥ १२.३०.१० ॥

于是,波尔瓦塔召来胜利者中的最优者、国王斯里尼遮耶,得到许可后说出了这些话,俱卢族中的公牛啊。

12.30.11

प्रीतौ स्वो नृप सत्कारैर्भवदार्जवसंभृतैः ।
आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय ॥ १२.३०.११ ॥

大王啊,我们二人因你充满正直的礼遇而欢喜。既已得到我们的允许,人中之最啊,请考虑一个恩赐吧。

12.30.12

देवानामविहिंसायां न भवेन्मानुषे क्षमम् ।
तद्गृहाण महाराज पूजार्हो नौ मतो भवान् ॥ १२.३०.१२ ॥

在人间,违背诸神不伤害之道是不相宜的。因此,大王啊,请接受吧;我们二人都认为你值得受到尊敬。

12.30.13

प्रीतौ भवन्तौ यदि मे कृतमेतावता मम ।
एष एव परो लाभो निर्वृत्तो मे महाफलः ॥ १२.३०.१३ ॥

若你们二人对我欢喜,又为我做到这些,那便是我的至上利益;对我而言,它结出了大果实。

12.30.14

तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत ।
शृणु राजन्सुसंकल्पं यत्ते हृदि चिरं स्थितम् ॥ १२.३०.१४ ॥

对这样说话的人,山中的仙人又回答道:大王,请听,你心中长久存在的那个坚定誓愿。

12.30.15

अभीप्ससि सुतं वीरं वीर्यवन्तं दृढव्रतम् ।
आयुष्मतं महाभागं देवराजसमद्युतिम् ॥ १२.३०.१५ ॥

你所求的是一个英勇、有力、誓愿坚定、长寿、极有福运、光辉如天王的儿子。

12.30.16

भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति ।
देवराजाभिभूत्यर्थं संकल्पो ह्ये ते हृदि ॥ १२.३०.१६ ॥

你的这个愿望会实现,但他不会长寿;你心中的誓愿是要胜过天王。

12.30.17

सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति ।
रक्ष्यश्च देवराजात्स देवराजसमद्युतिः ॥ १२.३०.१७ ॥

他将成为吐金之人;须防备天王,他将光辉如天王。

12.30.18

तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः ।
प्रसादयामास तदा नैतदेवं भवेदिति ॥ १२.३०.१८ ॥

山中大德的那番话,桑闍耶听后便设法安慰他,说道:『愿不会如此。』

12.30.19

आयुष्मान्मे भवेत्पुत्रो भवतोस्तपस मुन ।
न च तं पर्वतः किंचिदुवाचेन्द्रव्यपेक्षया ॥ १२.३०.१९ ॥

“愿您以苦行使我得一长寿之子,大仙。”那山中仙人并未就一个与因陀罗相等的儿子说什么。

12.30.20

तमहं नृपतिं दीनमब्रवं पुनरेव च ।
स्मर्तव्योऽस्मि महाराज दर्शयिष्यामि ते सुतम् ॥ १२.३०.२० ॥

我又对那位悲伤的国王说:“大王,请记住我;我将让您见到您的儿子。”

12.30.21

अहं ते दयितं पुत्रं प्रेतराजवशं गतम् ।
पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते ॥ १२.३०.२१ ॥

您心爱的儿子已落入死神的掌控之中;我将以原来的模样把他还给您。国王啊,不要悲伤。

12.30.22

एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् ।
सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम् ॥ १२.३०.२२ ॥

对国王说完这些话后,二人随心所欲地升天而去;而嗣阇耶也随意走进了自己的宫殿。

12.30.23

सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये ।
जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव ॥ १२.३०.२३ ॥

过了一段时间,王仙嗣阇耶生下一子,勇力非凡,光彩熠熠,仿佛在焰焰燃烧。

12.30.24

ववृधे स यथाकालं सरसीव महोत्पलम् ।
बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् ॥ १२.३०.२४ ॥

他按时成长,如同湖中的大莲花;他的名字也名副其实——他成了吐金之人。

12.30.25

तदद्भुततमं लोके पप्रथे कुरुसत्तम ।
बुबुधे तच्च देवेन्द्रो वरदानं मनीषिणोः ॥ १२.३०.२५ ॥

库鲁之最,此最奇异之事传遍世间,天神之王因陀罗也知道了赐予贤者的那份恩赐。

12.30.26

ततः स्वाभिभवाद्भीतो बृहस्पतिमते स्थितः ।
कुमारस्यान्तरप्रेक्षी नित्यमेवाभ्यवर्तत ॥ १२.३०.२६ ॥

此后,他因畏惧自己的败落,遵从brihaspati的劝告而坚守,常常伺机对付少年Kumāra,始终如此行事。

12.30.27

चोदयामास तद्वज्रं दिव्यास्रं मूर्तिमत्स्थ्रितम् ।
व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो ॥ १२.३०.२७ ॥

他驱使那化身为神圣兵器而立于彼处的金刚杵,说道:“主啊,化作老虎,杀死这位王子吧。”

12.30.28

प्रवृद्धः किल वीर्येण मामेषोऽभिभविष्यति ।
सृञ्जयस्य सुतो वज्र यथैनं पर्वतोऽब्रवीत् ॥ १२.३०.२८ ॥

“他凭借勇力壮大,必将胜过我。”——正如山岳就寻常所言,关于那位srinjaya之子,啊金刚。

12.30.29

एवमुक्तस्तु शक्रेण वज्रः परपुरंजयः ।
कुमारमन्तरप्रेक्षी नित्यमेवान्वपद्यत ॥ १२.३०.२९ ॥

释迦(因陀罗)如此说后,那攻陷敌城的金刚杵便常常伺机对付少年Kumāra,紧紧追随。

12.30.30

सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम् ।
हृष्टः सान्तः पुरो राजा वननित्यो बभूव ह ॥ १२.३०.३० ॥

Sṛñjaya得到了一个与天王光辉相等的儿子,心中欢喜;那位国王与后宫眷属一起,成为了常住林中之人。

12.30.31

ततो भागीरथीतीरे कदाचिन्निर्जने वने ।
धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत ॥ १२.३०.३१ ॥

一次,在婆吉罗提河岸的一片人迹罕至的森林里,男孩与乳母一起跑去玩耍。

12.30.32

पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः ।
सहसोत्पतितं व्याघ्रमाससाद महाबलम् ॥ १२.३०.३२ ॥

这个五岁的男孩,有象王般的勇力,突然遇上一头猛然跃出的强大老虎。

12.30.33

स बालस्तेन निष्पिष्टो वेपमानो नृपात्मजः ।
व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे ॥ १२.३०.३३ ॥

王子被它压碎,颤抖着失去生命倒在地上;乳母便大声哭喊起来。

12.30.34

हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत ।
शार्दूलो देवराजस्य माययान्तर्हितस्तदा ॥ १२.३०.३४ ॥

杀死王子之后,老虎就在那里消失了,被诸神之王的幻术所隐藏。

12.30.35

धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत् ।
अभ्यधावत तं देशं स्वयमेव महीपतिः ॥ १२.३०.३५ ॥

听到乳母悲痛欲绝的哭声,国王亲自朝那个地方奔去。

12.30.36

स ददर्श शयानं तं गतासुं पीतशोणितम् ।
कुमारं विगतानन्दं निशाकरमिव च्युतम् ॥ १२.३०.३६ ॥

他看见那男孩躺在地上,没有了生命,浑身是血,失去了欢乐,宛如坠落的月亮。

12.30.37

स तमुत्सङ्गमारोप्य परिपीडितवक्षसम् ।
पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः ॥ १२.३०.३७ ॥

他把胸口被压碎、满身鲜血的儿子抱在膝上,悲痛地哀号。

12.30.38

ततस्ता मातरस्तस्य रुदत्यः शोककर्शिताः ।
अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः ॥ १२.३०.३८ ॥

于是,他那些因悲伤而憔悴、哭泣着的母亲们,奔向国王斯林遮耶所在的地方。

12.30.39

ततः स राजा सस्मार मामेव गतमानसः ।
तदाऽहं चिन्तनं ज्ञात्वा गतवांस्तस्य दर्शनम् ॥ १२.३०.३९ ॥

那时,心神恍惚的国王只想起了我。我知道了他的心思,便去见他。

12.30.40

मयैतानि च वाक्यानि श्रावितः शोकलालसः ।
यानि ते यदुवीरेण कथितानि महीपते ॥ १२.३०.४० ॥

啊,大地之主,我把那位雅度英雄对你所说的话,说给这位沉溺于悲伤的人听。

12.30.41

संजीवितश्चापि पुनर्वासवानुमते तदा ।
भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा ॥ १२.३०.४१ ॥

在因陀罗的同意下,他当时重新复活。事情必然如此,不可能另外发生。

12.30.42

तत ऊर्ध्वं कुमारस्तु स्वर्णष्ठीवी महायशाः ।
चित्तं प्रसादयामास पितृर्मातुश्च वीर्यवान् ॥ १२.३०.४२ ॥

此后,那位名声显赫、口吐黄金的英勇少年,让父母的心意重新欢悦。

12.30.43

कारयामास राज्यं च पितरि स्वर्गते नृप ।
वर्षाणां शतमेकं च सहस्रं भीमविक्रमः ॥ १२.३०.४३ ॥

国王啊,父亲升天之后,他继续治理王国;这位威猛的勇士统治了一百又一千年。

12.30.44

तत ईजे महायज्ञैर्बहुभिर्भूरिदक्षिणैः ।
तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः ॥ १२.३०.४४ ॥

此后,这位大光辉者以丰厚的酬金举行了许多大祭祀,使诸神和祖先得到满足。

12.30.45

उत्पाद्य च बहून्पुत्रान्कुलसतानकारिणः ।
कालेन महता राजन्कालधर्ममुपेयिवान् ॥ १२.३०.४५ ॥

国王啊,他生育了许多延续家族血脉的儿子,经过很长时间后,他走向了时间之法——死亡。

12.30.46

स त्वं राजेन्द्र संजातं शोकमेकं निवर्तय ।
यथा त्वं केशवः प्राह व्यामश्च सुमहातपाः ॥ १२.३०.४६ ॥

诸王之主啊,请消除你心中生起的那一份悲痛,正如克舍婆所说,也如大苦行者毗耶娑所说。

12.30.47

पितृपैतामहं राज्यमास्थाय धुरमुद्वह ।
इष्ट्वा पुण्यैर्महायज्ञैरिष्टं लोकमवाप्स्यसि ॥ १२.३०.४७ ॥

承接父祖传下的王国,担负起重任;以功德大祭祀奉献之后,你将获得所愿之界。