摩诃婆罗多 · 章 12.302
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.302.1
वर्णो विशेषवर्णानां महर्षे केन जायते ।
एतदिच्छाम्यहं ज्ञातुं तद्ब्रूहि वदतां वर ॥ १२.३०२.१ ॥
大仙啊,各种特定种姓的种姓是由什么产生的?我想知道这一点,善言者中的最优者,请告诉我。
12.302.2
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः ।
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ॥ १२.३०२.२ ॥
所生的子嗣即是'此人本身',这是天启之言。那么,从婆罗门所生的人,如何获得特殊的地位?
12.302.3
एवमेतन्महाराज येन जातः स एव सः ।
तपसस्त्वपकर्षेण जातिग्रहणतां गतः ॥ १२.३०२.३ ॥
的确如此,大王:他正是生他之人本身。然而因苦行的衰退,他便取得了种姓的身份。
12.302.4
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति संभवः ।
अतोऽन्यतरतो हीनादवरो नाम जायते ॥ १२.३०२.४ ॥
从良田和良种子中产生纯净的出生。因此,两者之中若有一人低劣,便生出名为'阿伐罗'(下等者)的子嗣。
12.302.5
वक्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे ।
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ॥ १२.३०२.५ ॥
从口、臂、股、足而生——从创造诸世界的生主而生——知法者如是说。
12.302.6
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रियाः स्मृताः ।
ऊरुजा धनिनो राजन्पादजाः परिचारकाः ॥ १२.३०२.६ ॥
亲爱的,口生者为婆罗门;臂生者被记为刹帝利。大王,股生者为富有者;足生者为仆役。
12.302.7
चतुर्णामेव वर्णानामागमः पुरुषर्षभ ।
अतोन्ये त्वतिरिक्ता ये ते वै संकरजाः स्मृताः ॥ १२.३०२.७ ॥
人中之牛啊,人的出身只来自四种姓;超出其外者,被称为混合所生。
12.302.8
क्षत्रियातिरथाम्बष्ठा उग्रा वैदेहकास्तथा ।
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ॥ १२.३०२.८ ॥
刹帝利-阿提罗陀、安波湿陀、乌格罗、毗提诃迦、狗烹者、普尔迦娑、盗贼、尼沙陀、苏多与摩揭陀——这些亦然。
12.302.9
अयोगाः कारणा व्रात्याश्चाण्डालाश्च नराधिप ।
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परात् ॥ १२.३०२.९ ॥
人主啊,阿约伽、迦罗那、伐迭耶与旃陀罗——这些从四种姓以及彼此之间而生。
12.302.10
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् ।
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ॥ १२.३०२.१० ॥
由同一位婆罗门所生者,在宗族上为何如此多样?圣者中最殊胜者啊,此世间确实有众多的宗族。
12.302.11
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः ।
शूद्रयोनौ समुत्पन्ना वियोनौ च तथा परे ॥ १२.३०२.११ ॥
诸仙人如何在各处出生,又归于其本来的胎生?有的生于首陀罗之胎,其他则生于不当之胎。
12.302.12
राजन्नैतद्भवेद्ब्राह्ममपकृष्टेन जन्मना ।
महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् ॥ १२.३०२.१२ ॥
国王啊,婆罗门身份不可能从低贱之生而来;大灵魂则产生于以苦行净化其自我的人之中。
12.302.13
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह ।
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ॥ १२.३०२.१३ ॥
君王啊,诸位仙人在各处生下儿子,随后又凭自己的苦行确立了他们的仙人之位。
12.302.14
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः ।
वेदस्ताण्ड्यः कृपश्चैव काक्षीवत्कमठादयः ॥ १२.३०२.१४ ॥
我的祖父在往昔,还有梨俱耆陀、迦叶波、吠陀、檀陀耶、克利巴、迦刹婆、龟陀等人。
12.302.15
यवक्रीतश्च नृपते द्रोणश्च वदतांवरः ।
आयुर्मतङ्गो दत्तश्च द्रुमदो मात्स्य एव च ॥ १२.३०२.१५ ॥
君王啊,还有耶婆克利多,言辞最善者德罗那,阿育,摩多伽,檀陀,德鲁摩陀,以及摩蹉。
12.302.16
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसो बलात् ।
प्रतिष्ठिता वेदविदो दमेन तपसैव हि ॥ १२.३०२.१६ ॥
毗提诃王啊,这些人凭苦行之力回到了自己的本性,并仅凭克制与苦行而确立为吠陀的通晓者。
12.302.17
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव ।
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ॥ १२.३०२.१७ ॥
君王啊,四大本源氏族产生:安基罗、迦叶波、婆悉吒与跋古。
12.302.18
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव ।
नामधेयानि तपसा तानि च ग्रहणं सताम् ॥ १२.३०२.१८ ॥
君王啊,其他氏族由行为而生;这些名号来自苦行,为善人所接受。
12.302.19
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम ।
ततः सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि ॥ १२.३०२.१९ ॥
尊贵的大师啊,请先为我讲述各种姓(varṇa)的特别义务,然后再讲共同的义务,因为您精通一切。
12.302.20
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप ।
विशेषधर्मा विप्राणां रक्षा क्षत्रस्य शोभना ॥ १२.३०२.२० ॥
接受布施、主持祭祀,以及同样地教授——这些是婆罗门的特别义务;对刹帝利而言,保护百姓才是崇高的义务。
12.302.21
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि ।
द्विजानां परिचर्या च शूद्रकर्म नराधिप ॥ १२.३०२.२१ ॥
耕作、畜牧与贸易也是吠舍的职责;侍奉再生族是首陀罗的事业,人主啊。
12.302.22
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः ।
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ॥ १२.३०२.२२ ॥
君王啊,各种姓的特别义务已经说明;孩子,现在请详细听我讲共同的义务。
12.302.23
आनृशंस्यमर्हिसा चाप्रमादः संविभागिता ।
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ॥ १२.३०२.२३ ॥
仁慈、不杀生、警觉、与人分享、施行葬祭仪式(śrāddha)、款待宾客、诚实,以及不发怒。
12.302.24
स्वेषु दारेषु संतोषः शौचं नित्याऽनसूयता ।
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ॥ १२.३०२.२४ ॥
对自己的妻子知足、清净、时常不嫉妒、自我认知与忍耐——这些是共同的义务,君王啊。
12.302.25
ब्राह्मणाः क्षत्रिया वैश्यास्रयो वर्णा द्विजातयः ।
अत्र तेषामधीकारो धर्मेषु द्विपदां वर ॥ १२.३०२.२५ ॥
婆罗门、刹帝利、吠舍——这三种种姓是再生族。在法的事务上,他们拥有权利,人中之最。
12.302.26
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः ।
उन्नमन्ति यथा सन्त आश्रित्येह स्वकर्मसु ॥ १२.३०२.२६ ॥
停留在非法行为中的三个种姓,哦国王,会堕落;正如善人在此依靠自己的职责而得以提升。
12.302.27
न चापि शूद्रः पततीति निश्चयो ।
न चापि संस्कारमिहार्हतीति वा।
श्रुतिप्रयुक्तं न च धर्ममाप्नुते ।
न चास्य धर्मे प्रतिषेधनं कृतम् ॥ १२.३०२.२७ ॥
不能断定首陀罗必然堕落,也不能说他在此不配受礼仪。他不能获得吠陀所规定的法,但并未对他的法设下禁令。
12.302.28
वैदेहकं शूद्रमुदाहरन्ति ।
द्विजा महाराज श्रुतोपपन्नाः।
अहं हि पश्यामि नरेन्द्र देवं ।
विश्वस्य विष्णुं जगतः प्रधानम् ॥ १२.३०२.२८ ॥
有学识的再生族称这位韦德哈卡为首陀罗,大王;但我看他,人主啊,乃是宇宙之主神毗湿奴。
12.302.29
सतां वृत्तमधिष्ठाय निहीना उद्दिधीर्षवः ।
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ॥ १२.३०२.२९ ॥
那些愿意提升自己、依靠善人行为的卑微之人,在不用咒语的情况下施行增益之仪式,并不会被玷污。
12.302.30
यथायथा हि सद्वॄत्तमालम्बन्तीतरे जनाः ।
यथातथा सुखं प्राप्य प्रेत्य चेह च मोदते ॥ १२.३०२.३० ॥
别人越是坚守善行,就越能获得幸福,在今生与死后都感到喜乐。
12.302.31
किं कर्म दूषयत्येनमथो जातिर्महामुने ।
संदेहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ॥ १२.३०२.३१ ॥
大仙啊,污染他的是行为还是出身?我心中生起疑惑,请您为我解说。
12.302.32
असंशयं महाराज उभयं दोषकारकम् ।
कर्म चैव हि जातिश्च विशेषं तु निशामय ॥ १२.३०२.३२ ॥
大王,毫无疑问,行为与出身两者都会造成过失。但请听其中的特别区别。
12.302.33
जात्या च कर्मणा चैव दुष्टं कर्म न सेवते ।
जात्या दुष्टश्च यः पापं न करोति स पूरुषः ॥ १२.३०२.३३ ॥
那人即使因出身与行为而有污染,却不从事污染的行为;即使因出身而有污染,却不作恶——那人便是(最好的)。
12.302.34
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् ।
कर्म तद्दूषयत्येनं तस्मात्कर्म न शोभनम् ॥ १२.३०२.३४ ॥
出身尊贵之人若行可耻之事,便被那行为所污染。因此,行为并非善事。
12.302.35
कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम् ।
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ॥ १२.३०२.३५ ॥
二生者中最殊胜的人啊,此世间哪些行为是合乎法的,在做之时从不伤害众生?
12.302.36
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि ।
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ॥ १२.३०२.३६ ॥
大王,关于你所问的,请在此听我说:不伤害的行为总是保护人。
12.302.37
संन्यस्याग्नीनुदासीनाः पश्यन्ति विगतज्वराः ।
नैःश्रेयसं कर्मपथं समारुह्य यथाक्रमम् ॥ १२.३०२.३७ ॥
舍弃圣火,超然无欲,脱离热恼,他们观照;依次登上通往至善的业道。
12.302.38
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः ।
पयान्ति स्थानमजरं सर्वकर्मविवर्जिताः ॥ १२.३०२.३८ ॥
谦逊而有礼,常自制,修养精纯,远离一切业行,他们前往不老之处。
12.302.39
सर्वे वर्णा धर्मकार्याणि सम्यक् ।
कृत्वा राजन्सत्यवाक्यानि चोक्त्वा।
त्यक्त्वा धर्मं दारुणं जीवलोके ।
यान्ति स्वर्गं नात्र कार्यो विचारः ॥ १२.३०२.३९ ॥
大王,诸种姓人士若如法行持法务、言说真实之语,舍弃此世间严苛之法,便得往生天界;此中无有疑问。