Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.303

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.303.1

पिता सखायो गुरवः स्त्रियश्च ।
न निर्गुणानां प्रभवन्ति लोके।
अनन्यभक्ताः प्रियवादिनश्च ।
हिताश्च वश्याश्च तथैव राजन् ॥ १२.३०३.१ ॥

父亲、朋友、师长与妻子,对世上无德之人毫无影响力。唯有专一虔诚、言语悦人、有益于人且能自我约束之人,大王啊,才同样具有此力。

12.303.2

पिता परं दैवतं मानवानां ।
मातुर्विशिष्टं पितरं वदन्ति।
ज्ञानस्य लाभं परमं वदन्ति ।
जितेन्द्रियार्थाः परमाप्नुवन्ति ॥ १२.३०३.२ ॥

对人而言,父亲是至高的神明;人们说父亲比母亲更为尊贵。人们说获得知识是最高的收获;克制诸根、志向坚定的人,能够达到至高。

12.303.3

रणाजिरे यत्र शराग्निसंस्तरे ।
नृपात्मजो घातमवाप्य दह्यते।
प्रयाति लोकानमरैः सुदुर्लभा ।
न्निषेवते स्वर्गफलं यथासुखम् ॥ १२.३०३.३ ॥

在战场上,王子在箭火之榻上遇死而被焚烧,他便前往即便诸神也难以到达的世界,安然享受天界的果实。

12.303.4

श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं ।
पराङ्भुखं पारिवर्हैश्च हीनम्।
अनुद्यन्तं रोगिणं याचमानं ।
न वै हिंस्याद्बालवृद्धौ च राजन् ॥ १२.३०३.४ ॥

不可伤害疲惫者、恐惧者、武器已落者、哭泣者、背转者、失去装备者、不举兵器者、病人与乞求者——也不可伤害孩童与老人,大王啊。

12.303.5

पारिबर्हैः सुसंयुक्तमुद्यतं तुल्यतां गतम् ।
अतिक्रमेत्तं नृपतिः संग्रामे क्षत्रियात्मजम् ॥ १२.३०३.५ ॥

在战斗中,国王应当越过那位装备精良、已举起武器、与自己势均力敌的刹帝利之子,不加理会。

12.303.6

तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः ।
निहीनात्कातराच्चैव कृपणाद्गर्हितो वधः ॥ १२.३०३.६ ॥

此处杀死同等之人为善,杀死更高之人亦然,此为定论。杀死卑贱者、怯懦者或可怜之人则应受非议。

12.303.7

पापात्पापसमाचारान्निहीनाच्च नराधिप ।
पाप एष वधः प्रोक्तो नरकायेति निश्चयः ॥ १२.३०३.७ ॥

人主啊,杀死有罪之人、行为邪恶之人或卑贱之人,即是罪过。此杀戮被说是通往地狱,此为定论。

12.303.8

न कश्चित्राति वै राजन्दिष्टान्तवशमागतम् ।
सावशेषायुषं चापि कश्चिन्नैवापकर्षति ॥ १२.३०३.८ ॥

君王啊,无人能保护已落入天命终结之力的人;也无人能缩短尚有余寿之人的寿命。

12.303.9

स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् ।
हिंसात्मकानि सर्वाणि नायुरिच्छेत्परायुषा ॥ १२.३०३.९ ॥

此处,即便是出于慈爱所做之事,也应当戒止;一切具有暴力性质之事,皆应舍弃。不应以他人之寿命来求取自己的寿命。

12.303.10

गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् ।
निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥ १२.३०३.१० ॥

孩子啊,对于所有渴望毁灭的居家者而言,死亡是吉祥的;对于在河岸上行祭礼的人而言也是如此。

12.303.11

आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति ।
तथा ह्यकारणाद्भवति कारणैरुपपादितम् ॥ १२.३०३.११ ॥

当寿命衰尽之时,众生便归于五大的消散;如此,死亡无因而至,也由诸因所引致。

12.303.12

तथा शरीरं भवति देहाद्येनोपपादितम् ।
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ॥ १२.३०३.१२ ॥

如此,身体由身等因素而成。此人如同路上行走的旅人,从一间屋子走到另一间屋子。

12.303.13

द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते ।
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ॥ १२.३०३.१३ ॥

此处找不到第二个别的原因。那身体对有身者是恰当的,即使在已得解脱者身上也仍然存在。

12.303.14

शिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम् ।
भूतानामिन्द्रियाणां च गुणानां च समागमम् ॥ १२.३०३.१४ ॥

由脉络、筋腱和骨骼聚合而成,充满可厌的不净;是诸大种、诸根与诸德的结合。

12.303.15

त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः ।
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥ १२.३०३.१५ ॥

精研自我的智者说,此身以皮为界。即便被诸德消耗,身体也走向死亡。

12.303.16

शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् ।
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति ॥ १२.३०३.१६ ॥

此身被有身者舍弃后,变得不动、无知觉。随后诸大种回归其本性,身体便沉入大地。

12.303.17

भावितं कर्मयोगेन जायते तत्रतत्र ह ।
इदं शरीरं वैदेह म्रियते यत्रयत्र ह।
तत्प्रपाते परो दृष्टो विसर्गः कर्मणस्तथा ॥ १२.३०३.१७ ॥

受业之轭所塑造,他在此处那处诞生。毗提诃之王啊,此身无论死于何处,在其倒下之时,便可见业的最高结果。

12.303.18

न जायते तु नृपते कंचित्कालमयं पुनः ।
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥ १२.३०३.१८ ॥

国王啊,此人在一段时间内不会再生;众生之自我如大云般在天空中游荡。

12.303.19

स पुनर्जायते राजन्प्राप्येहायतनं नृपः ।
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥ १२.३०३.१९ ॥

国王啊,他在此获得一个住所后再次出生。自我高于意,意高于诸根。

12.303.20

विविधानां च भूतानां जङ्गमाः परमा नृप ।
जङ्गमानामपि तथा द्विपदाः परमा मताः।
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ॥ १२.३०३.२० ॥

国王啊,在各种众生中,动物最为尊贵;在动物中,两足者被视为最尊贵;在两足者中,再生者(婆罗门)被认为确实最为尊贵。

12.303.21

द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः ।
प्राज्ञानामात्मसंबुद्धाः संबुद्धानाममानिनः ॥ १२.३०३.२१ ॥

诸王之主啊,在再生者中,智者被认为最尊贵;在智者中,觉悟自我者最尊贵;在觉悟者中,无慢心者最尊贵。

12.303.22

जातमन्वेति मरणं नृणामिति विनिश्चयः ।
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥ १२.३०३.२२ ॥

死亡追随出生者,这是对人类的确定之理。业行有尽,众生依其德性而随从它们。

12.303.23

आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् ।
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥ १२.३०३.२३ ॥

国王啊,若人在太阳到达北方、吉祥的星宿与吉时死去,此人便是行善积德者。

12.303.24

अयोजयित्वा क्लेशेन जनं प्लाप्य च दुष्कृतम् ।
मृत्युनाऽऽत्मकृतेनेह कर्म कृत्वाऽऽत्मशक्तितः ॥ १२.३०३.२४ ॥

不以艰苦约束自己、使他人受苦而作恶之人,在此因自己的行为,依其自身之力而遭遇死亡。

12.303.25

विषमुद्बन्धनं दाहो दस्युहस्तात्तथ वधः ।
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥ १२.३०३.२५ ॥

毒药、缢死、火烧、被盗贼所杀,以及被有齿的野兽所伤——这些被称为寻常之死。

12.303.26

न चैभिः पुण्यकर्माणो युज्यन्ते चाभिसंधिजैः ।
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ॥ १२.३०३.२६ ॥

行善之人不与这些相连,也不与出于意图而生的死亡相连;亦不与此类众多其他寻常之死相连。

12.303.27

ऊर्ध्वं भित्त्वा प्रतिष्ठन्ते प्राणाः पुण्यवतां नृप ।
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् ॥ १२.३०३.२७ ॥

君王啊,有福德者之命气向上穿出而驻留;中等福德者之命气从中间出;作恶者之命气则向下。

12.303.28

एकः शत्रुर्न द्वितीयोस्ति शत्रु ।
रज्ञानतुल्यः पुरुषस्य राजन्।
येनावृतः कुरुते संप्रयुक्तो ।
घोराणि कर्माणि सुदारुणानि ॥ १२.३०३.२८ ॥

只有一个敌人,没有第二个——君王啊,对人而言,它如同无明。被它笼罩并驱使的人,会行出极其可怕、极其残酷的恶行。

12.303.29

प्रबोधनार्थं श्रुतिधर्मयुक्तं ।
वृद्धानुपास्य प्रभवेत यस्य।
प्रयत्नसाध्यो हि स राजपुत्र ।
प्रज्ञाशरेणोन्मथितः परैति ॥ १२.३०३.२९ ॥

为了觉醒,与经典之法相连的知识——可通过侍奉长者而获得,需以努力成就,王子啊。被智慧之箭射中的敌人便会离去。

12.303.30

अधीत्य वेदं तपसा ब्रह्मचारी ।
यज्ञाञ्शक्त्या सन्निसृज्येह पञ्च।
वनं गच्छेत्पुरुषो धर्मकामः ।
श्रेयः कृत्वा स्थापयित्वा स्ववंशम् ॥ १२.३०३.३० ॥

学习吠陀,以苦行保持梵行,依其力量在此完成五祭,渴望法的人应当入林;使自己的家族得以延续后,获得至善。

12.303.31

उपभोगैरपि त्यक्तं नात्मानं सादयेन्नरः ।
चण्डालत्वेऽपि मानुष्यं सर्वथा तात शोभनम् ॥ १२.३०३.३१ ॥

即使舍弃了享乐,人也不应毁灭自己;亲爱的孩子,即使是旃陀罗,人身在各方面也是殊胜的。

12.303.32

इयं हि योनिः प्रथमा यां प्राप्य जगतीयते ।
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥ १२.३०३.३२ ॥

这是第一个生身,得之则在世间流转;唯有以吉祥之相的业行,才能拯救自我。

12.303.33

कथं न विप्रणश्येम योनितोस्या इति प्रभो ।
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् ॥ १२.३०३.३३ ॥

“我们如何才不致于从此生身中毁灭?”——如此思量,主啊,人们因见天启的权威而行法。

12.303.34

यो दुर्लभतरं प्राप्य मानुष्यं द्विषते नरः ।
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥ १२.३०३.३४ ॥

得到极难得的人身,却厌恶它,轻慢法而以欲望为主的人,他确实会受欺骗。

12.303.35

यस्तु प्रीतिपुराणेन चक्षुषा तात पश्यति ।
दीपोपमानि भूतानि यावदर्थान्न पश्यति ॥ १२.३०३.३५ ॥

然而,以旧日的慈爱之眼观看者,亲爱的孩子,视众生如灯火;未见自己之所求,便不能真正看见。

12.303.36

सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत ।
समदुःखसुखो भूत्वा स परत्र महीयते ॥ १२.३०३.३६ ॥

以安慰、轮流布施和悦耳之言;在苦与乐中一视同仁的人,在来世受到尊崇。

12.303.37

दानं त्यागः शोभना मुर्तिमद्भ्यो ।
भूयः प्लाव्यं तपसा वै शरीरम्।
सरस्वतीनैमिषपुष्करेषु ।
ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥ १२.३०३.३७ ॥

布施与舍弃对有形之身是吉祥的;应以苦行使身体再次在圣水中沐浴,于萨拉斯瓦蒂、奈弥沙和普什卡拉,以及大地上其他圣地。

12.303.38

गृहेषु येषामसवः पतन्ति ।
तेषामथो निर्हरणं प्रशस्तम्।
यानेन वै प्रापणं च श्मशाने ।
शुचौ देशे विधिना चैव दाहः ॥ १२.३०३.३८ ॥

在家中断气者,将遗体抬出是值得称许的;乘车送至火葬场,并依仪轨在洁净之处火化。

12.303.39

इष्टिः पुष्टिर्यजनं याजनं च ।
दार्ग पुण्यानां कर्मणां च प्रयोगः।
शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं ।
सर्वाण्यात्मार्थे मानवोऽयं करोति ॥ १२.३०३.३९ ॥

祭供与滋养,自己祭祀与为他人主祭,布施与行持功德之业;凡与祖先相关、值得称许的事,人依其能力,都是为自己而做的。

12.303.40

गृहस्थानां च सर्वेषां विनाशमभिकाङ्क्षताम् ।
निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥ १२.३०३.४० ॥

亲爱的孩子,对于所有家居者,以及那些希求消散的人,在沙洲上行持仪轨的人,死亡是吉祥的。

12.303.41

धर्मशास्त्राणि वेदाश्च ष़डङ्गानि नराधिप ।
श्रेयसोर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः ॥ १२.३०३.४१ ॥

人主啊!法论、吠陀与六支,皆为行事无扰之人的至善而设。

12.303.42

एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना ।
विदेहराजाय पुरा श्रयेसोर्थे नराधिप ॥ १२.३०३.४२ ॥

人主啊!这一切从前已由那位大德仙人为了至善而告诉了毗提诃王。