Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.308

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.308.1

किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः ।
किंच तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥ १२.३०८.१ ॥

所谓不灭者是什么,从它那里不再返回?所谓可灭者是什么,从它那里又会返回?

12.308.2

अक्षरधरयोर्व्यक्तिं पृच्छाम्यरिनिषूदन ।
उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन ॥ १२.३०८.२ ॥

消灭敌人者啊,我想真正理解不灭者及其承载者的本性。大臂者啊,俱卢之喜。

12.308.3

त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः ।
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥ १२.३०८.३ ॥

精通吠陀的婆罗门、大福的仙人、苦行者和大德们称你为智慧的宝藏。

12.308.4

शेषमत्यं दिनानां ते दक्षिणायनभास्करे ।
आवृत्ते भगवत्यर्के गन्तासि परमां गतिम् ॥ १२.३०८.४ ॥

当吉祥的太阳转入南行之路时,你剩下的日子已不多;那时你将抵达至高的归宿。

12.308.5

त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् ।
कुरुवंशप्रदीपस्त्वं ज्ञानदीपेन दीप्यसे ॥ १२.३०८.५ ॥

你一旦离去,我们还从哪里听闻善法?你是俱卢族的明灯,以智慧之灯照耀。

12.308.6

तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह ।
न तृष्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम् ॥ १२.३०८.६ ॥

这正是我想从你那里听到的,俱卢族的支柱啊。王中之王啊,即便在此听闻这样的甘露,我也不感满足。

12.308.7

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
वसिष्ठस्य च संवादं करालजनकस्य च ॥ १२.३०८.७ ॥

在此我将为你讲述一段古老的传说——瓦西斯塔与卡拉拉遮那伽之间的对话。

12.308.8

वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् ।
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ १२.३०८.८ ॥

瓦西斯塔是诸仙中最杰出者,光辉如太阳,正端坐着;遮那伽王向他询问那通往至善的至上智慧。

12.308.9

परमध्यात्मकुशलमध्यात्मगतिनिश्चयम् ।
मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ॥ १२.३०८.९ ॥

见maitrāvaruṇi(瓦西斯塔)精通至上内在之法,坚定于自性之道,端坐,遮那伽合掌向他行礼。

12.308.10

स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्वणम् ।
पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ १२.३०८.१० ॥

以清晰、谦逊、甜美而温和的言辞,古时的国王卡拉拉遮那伽向最杰出的仙人发问。

12.308.11

भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् ।
यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः ॥ १२.३०८.११ ॥

尊者啊,我愿听闻至上永恒的梵,证得它的智者不再轮回。

12.308.12

यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् ।
यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम् ॥ १२.३०८.१२ ॥

被称为"刹那"(可毁灭者)的,此世界在其中坏灭;被称为"不灭"者,是吉祥、安稳、无病的。

12.308.13

श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् ।
यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ १२.३०८.१३ ॥

大地的守护者啊,请听这世界如何消逝,什么不因先前者而消逝,以及它持续多久。

12.308.14

युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम् ।
दशकल्पशतावृत्तमहस्तद्ब्राह्ममुच्यते ॥ १२.३०८.१४ ॥

应知一万二千年为一个时代,四个时代为一劫;一千劫循环十次,称为梵天的一日。

12.308.15

रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते ।
सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम् ॥ १२.३०८.१५ ॥

国王啊,夜晚的长度相同;在其终了时,他重新醒来,创造出行为无穷的伟大长子之存在。

12.308.16

मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवम् ।
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ॥ १२.३०८.१६ ॥

有形体,而其自我无形;他是宇宙,是湿婆(吉祥者),是自存者;具有微小、轻盈、获得之力的主宰伊沙那,不灭之光。

12.308.17

सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १२.३०८.१७ ॥

他的手足无处不在,眼睛、头颅和面孔无处不在;他无处不闻,于世间遍覆一切而立。

12.308.18

हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः ।
महानिति च योगेषु विरिञ्चिरिति चाप्यजः ॥ १२.३०८.१८ ॥

这位世尊被称为金胎(Hiraṇyagarbha),被称为觉(buddhi);在瑜伽中他也被称为大(Mahān)和梵天(Virinci);他是无生者。

12.308.19

साङ्ख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ।
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ॥ १२.३०८.१९ ॥

在数论典籍中,他以众多名号被诵读:多形之我、形态奇妙、宇宙之我,被记为“一音节”。

12.308.20

वृतं नैकात्मकं येन कृतं त्रैलोक्यमात्मना ।
तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः ॥ १२.३०८.२० ॥

他以自我包裹三界,使之成为多重自我;同样因其多种形相,被记为“宇宙形”。

12.308.21

एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ।
अहंकारं महातेजाः प्रजापतिरंकृतम् ॥ १२.३०८.२१ ॥

这位大光辉的生主经历变化,以自身创造自身:所成就的我执原理。

12.308.22

अव्यक्ताद्व्यक्तमापन्नं विद्यासर्गं वदन्ति तम् ।
महान्तं चाप्यहंकारमविद्यासर्गमेव च ॥ १२.३०८.२२ ॥

从未显者显现而生起的,称为智之创造;大者与我执也是,无明之创造也正是此。

12.308.23

अपरश्च परश्चैव समुत्पन्नौ तथैकतः ।
विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः ॥ १२.३०८.२३ ॥

下与上同时从一源生起;如此,知与无明为通晓经典与论书义理者所称道。

12.308.24

भूतसर्गमहंकारात्तृतीयं विद्धि पार्थिव ।
अहंकारेषु सर्वेषु चतुर्थं विद्धि वैकृतम् ॥ १२.३०८.२४ ॥

大王啊,应知从我执而生的元素创造为第三;在一切我执中,应知第四者为变异者。

12.308.25

वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा ।
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥ १२.३०८.२५ ॥

风、光、虚空,然后是水,同样还有地;声、触、色、味、香也是如此。

12.308.26

एवं युगपदुत्पन्नं दशवर्गमसंशयम् ।
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत् ॥ १२.३०८.२६ ॥

如此同时生起的十类无疑存在。王中之王啊,应知第五,即元素之造化,是有意义的。

12.308.27

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् ।
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥ १२.३०८.२७ ॥

耳、皮、双目、舌,第五是鼻;言语、双手、双足、肛门与生殖器亦然。

12.308.28

बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।
संभूतानीह युगपन्मनसा सह पार्थिव ॥ १२.३०८.२८ ॥

此等知根与作根,连同意,同时生于此处,王啊。

12.308.29

एषा तत्त्वचतुर्विशत्सर्वाकृतिषु वर्तते ।
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ १२.३०८.२९ ॥

此二十四谛存在于一切形态之中;知之,见真谛的婆罗门便不悲伤。

12.308.30

एतद्देहं समाख्यानं त्रैलोक्ये सर्वदेहिषु ।
वेदितव्यं नरश्रेष्ठ सदेवनरदानवे ॥ १२.३०८.३० ॥

此论身体之说,人中最上者啊,应当在三界一切有身者中、在天神与人及阿修罗之间被了知。

12.308.31

सयक्षभूतगन्धर्वे सकिन्नरमहोरगे ।
सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ १२.३०८.३१ ॥

与夜叉、精灵、乾闼婆、紧那罗及大蛇同在,与遮罗那及毗舍遮同在,与诸天、仙人及夜行者同在。

12.308.32

सदंशकीटमशक्रे सपूतिकृमिमूषिके ।
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥ १२.३०८.३२ ॥

与虻、虫及蚊同在,与腐臭的蛆虫及老鼠同在,在狗中,在贱民的烹狗者中,在鹿中,与旃陀罗同在,与补羯娑同在。

12.308.33

हस्त्यश्वखरशार्दूले सवृके गवि चैव ह ।
यच्च मूर्तिमयं किचित्सर्वत्रैतन्निदर्शनम् ॥ १२.३०८.३३ ॥

在象、马、驴和虎中,与狼同在,也在牛中;凡有形体之物,处处都是此的例证。

12.308.34

जले भुवि तथाऽऽकाशे नान्यत्रेति विनिश्चयः ।
स्थानं देहवतामस्ति इत्येवमनुशुश्रुम ॥ १२.३०८.३४ ॥

在水中、在地上、同样在虚空中,别处则无:这是确定的。有形体者有其居所,我们如此听闻。

12.308.35

कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञितम् ।
अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः ॥ १२.३०८.३५ ॥

孩子,这一切所谓显现者,如此多者,都会毁灭。众生之我日日如此,因此它被称为“灭”。

12.308.36

एतद्धि क्षरमित्युक्तं क्षरतीदं यथा जगत् ।
जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसंज्ञकम् ॥ १२.३०८.३६ ॥

此即被称为“灭”,犹如这世界在消逝。人们说世界是迷惑之性;将不显现者称以显现之名。

12.308.37

महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम् ।
कथितं ते महाराजन्यस्मान्नावर्तते पुनः ॥ १२.३०८.३७ ॥

伟大而永恒的长子,此乃朽坏者的例证。大王,此事已告诉你,因为它不再回还。

12.308.38

पञ्चर्विशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसंज्ञितः ।
तत्त्वसंश्रयणादेतत्तत्वमाहुर्मनीषिणः ॥ १२.३०८.३८ ॥

第二十五位毗湿奴无原理,却被称为原理。因依止于诸原理,智者称之为“原理”。

12.308.39

यन्मर्त्यमसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति ।
चतुर्विशतिमोऽव्यक्तो ह्यमूर्तः पञ्चविंशकः ॥ १२.३०८.३९ ॥

他所创造的有死之显现者,安住于各个形体之中。第二十四为未显者,第二十五为无形者。

12.308.40

स एव हृदि सर्वासु मूर्तिष्वात्मावतिष्ठते ।
चेतयंश्चेतनान्नित्यं सर्वमूर्तिरमूर्तिमान् ॥ १२.३०८.४० ॥

此自我安住于一切形体的心中。永远唤醒有识者,虽为一切形体,却是无形的。

12.308.41

सर्वप्रत्ययधर्मिण्यां स सर्गः प्रत्ययात्मकः ।
गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञिते ॥ १२.३०८.४१ ॥

在那具有一切认知之性、由认知所成的创造之中,无德者永远存在于被称为德的感知领域之中。

12.308.42

एवमेष महानात्मा सर्गप्रलयकोविदः ।
विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान् ॥ १२.३०८.४२ ॥

如此,这位伟大的自我精通创造与毁灭,虽转变着自然,却因无智而认同于那自然。

12.308.43

तमः सत्वरजोयुक्तस्तासु तास्विह योनिषु ।
लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ १२.३०८.४३ ॥

具足暗性、善性与激性者,在此或彼胎中沉没,因为他觉察于诸境,并侍奉无智之人。

12.308.44

सहवासनिवासात्मा नान्योऽहमिति मन्यते ।
योऽहं सोहमिति ह्युक्त्वा गुणानेवानुवर्तते ॥ १२.३०८.४४ ॥

以共同居处与住所为自我者,认为"我非他";说"我即是彼,彼即是我",他只是随从诸德。

12.308.45

तमसा तामसान्भावान्विविधान्प्रतिपद्यते ।
रजसा राजसांश्चैव सात्विकान्सत्वसंश्रयात् ॥ १२.३०८.४५ ॥

以暗性,他得到种种暗性之境;以激性,得激性之境;依托善性,得善性之境。

12.308.46

शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु ।
सर्वाण्येतानि रूपाणि यानीह प्राकृतानि वै ॥ १२.३०८.४६ ॥

白、赤、黑,此三者即是三种形相。凡此间所有的自然形相,皆属于此三者。

12.308.47

तामसा निरयं यान्ति राजसा मानुपानथ ।
सात्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ १२.३०८.४७ ॥

暗性者入地狱,激性者得人身,善性者享受安乐而往天界。

12.308.48

निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात् ।
पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः ॥ १२.३०८.४८ ॥

纯以罪恶而无一善,得畜生之胎;善恶相杂,得人身;唯以一善,得为诸天。

12.308.49

एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः ।
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ॥ १२.३०८.४९ ॥

因此智者称以未显现为对象的刹那者;这第二十五者唯由知识而生起。