摩诃婆罗多 · 章 12.314
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.314.1
मृगयां विचरन्कश्चिद्विजने जनकात्मजः ।
वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः ॥ १२.३१४.१ ॥
一次狩猎途中,阇那迦之子在一片僻静的森林里,看见了一位仙人,婆罗门中的至尊,婆利古世系的继承者。
12.314.2
तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् ।
पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् ॥ १२.३१४.२ ॥
他向端坐的仙人低头致敬,坐在近旁的婆苏曼得到允许后,问道:
12.314.3
भगवन्किमिदं श्रेयः प्रेत्य चापीह वा भवेत् ।
पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः ॥ १२.३१४.३ ॥
尊者啊,对于身体无常、受欲望支配的人而言,无论死后还是此生,什么才是善?
12.314.4
सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः ।
निजगाद ततस्तस्मै श्रेयस्करमिदं वचः ॥ १२.३१४.४ ॥
这位大德、大苦行者受到恭敬的询问后,便对他说出了这些有益于善的话。
12.314.5
मनसः प्रतिकूलानि प्रेत्य चेह नचेच्छसि ।
भूतानां प्रतिकूलेभ्यो निवर्तस्य यतेन्द्रियः ॥ १२.३१४.५ ॥
若你既不愿死后也不愿此生遇到违逆心意之事,那就克制感官,远离那些与众生相违逆的行为。
12.314.6
धर्मः सदा हितः पुंसां धर्मश्चैवाश्रयः सताम् ।
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ॥ १२.३१४.६ ॥
法对人类总是有益的,法也确实是善人的依靠。孩子,三界连同动与不动之物,都是从法中产生的。
12.314.7
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि ।
मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि ॥ १२.३१४.७ ॥
贪恋甘美之物者啊,你为何不从欲望中离去?愚昧之人,你只见蜜,却看不见那坠落的深渊。
12.314.8
यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना ।
तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना ॥ १२.३१४.८ ॥
正如求其果报者应当熟悉知识,求其果报者也应当熟悉法。
12.314.9
असता धर्मकामेन विशुद्धं कर्म दुष्करम् ।
सता तु धर्मकामेन सुकरं कर्म दुष्करम् ॥ १२.३१४.९ ॥
对于非善人,即使有求法之心,清净之业也很难;而对于善人,有求法之心,那业虽然容易,却仍然艰难。
12.314.10
वने ग्राम्यसुखाचारो यथाग्राम्यस्तथैव सः ।
ग्रामे वनसुखाचारो यथा वनचरस्तथा ॥ १२.३१४.१० ॥
在林中行乡村之乐者,与村民无异;在村中行林间之乐者,与林居者无异。
12.314.11
मनोवाक्कर्मगे धर्मे कुरु श्रद्धां समाहितः ।
निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान् ॥ १२.३१४.११ ॥
心意专注,将信心置于存于意、言、行之中的法;无论是止息还是进取,都要审慎权衡其长处与短处。
12.314.12
नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता ।
प्रार्थितं ब्राह्मणेभ्यश्च सत्कृतं देशकालयोः ॥ १२.३१४.१२ ॥
应当常常对善人慷慨布施,不生嫉妒;婆罗门所求之物,应依地点与时机,恭敬地给予。
12.314.13
शुभेन विधिना लब्धमर्हाय प्रतिपादयेत् ।
क्रोधमुत्सृज्य दत्त्वाऽथ नानुतप्येन्न कीर्तयेत् ॥ १२.३१४.१३ ॥
以正当方式获得的财物,应当施与值得之人。舍弃愤怒而施予之后,不应懊悔,也不应张扬。
12.314.14
अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः ।
योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः ॥ १२.३१४.१४ ॥
慈悲、清净、自制、诚实、安住于正直、出身与行为皆纯洁、通晓吠陀的再生者,才是合格的受施者。
12.314.15
संस्कृता चैकपत्नी च जात्या योनिरिहेष्यते ।
ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते ॥ १२.३१४.१५ ॥
受过圣礼、只娶一妻、种姓与家世俱佳、通晓《梨俱》《夜柔》《娑摩》、奉行六种职责者,被称为合格的受施者。
12.314.16
स एव धर्मः सोऽधर्मस्तं तं प्रति नरं भवेत् ।
पात्राकर्मविशेषेण देशकालाववेक्ष्य च ॥ १२.३१४.१६ ॥
同一行为,对某人而言是法,对另一人则可能是非法。应当审视受施者、行为之特殊性,以及地点与时间,然后作出决定。
12.314.17
लीलयाऽल्पं यथा गात्रात्प्रमृज्यात्तु रजः पुमान् ।
बहुयत्नेन च महत्पापनिर्हरणं तथा ॥ १२.३१४.१७ ॥
如同人可以轻易拂去身上的少许尘土,而消除大罪则需要极大的努力。
12.314.18
विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम् ।
तथा निर्हृतदोषस्य प्रेत्य धर्मः सुखावहः ॥ १२.३१४.१८ ॥
如同人在泻下之后,酥油便成为合适的药物;同样,过失已除之人,法在死后带来安乐。
12.314.19
मानसं सर्वभूतेषु वर्तते वै शुभाशुभम् ।
अशुभेभ्यः समाक्षिप्य शुभेष्वेवावधारय ॥ १२.३१४.१९ ॥
在一切众生的心中,善与恶确实存在。将心从恶中收回,只专注于善。
12.314.20
सर्वं सर्वेणा सर्वत्र क्रियमाणं च पूजय ।
स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् ॥ १२.३१४.२० ॥
尊重所有人在各处所做的一切。你的爱好在自己的本分中,就让法依你所愿而确立。
12.314.21
अधृतात्मन्धृतौ तिष्ठ दुर्बद्धे बुद्धिमान्भव ।
अप्रशान्तः प्रशाम्य त्वमप्राज्ञः प्राज्ञवच्चर ॥ १२.३१४.२१ ॥
你这不定之心者,要坚守于坚定之中。你这驾驭不良者,要变得有智慧。你这不平静者,要平息。你这无智者,要像有智者一样行事。
12.314.22
तेजसा शक्यते प्राप्तुमुपायः सहचारिणा ।
इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा ॥ १२.३१४.२२ ॥
可凭刚毅而达成;方法须伴随它。今生与来世,至善的根本都是最高的坚定。
12.314.23
राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः ।
ययातिः क्षीणपुण्योपि धृत्या लोकानवाप्तवान् ॥ १२.३१४.२३ ॥
王仙摩诃毗舍因缺乏坚定而从天堂坠落。耶耶提虽功德耗尽,却凭坚定得到了诸世界。
12.314.24
तपस्विनां धर्मवतां विदुषां चोपसेवनात् ।
प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे ॥ १२.३१४.२४ ॥
侍奉苦行者、有德者与学者,你将获得广大的智慧,如此也将达到至善。
12.314.25
स तु स्वभावसंपन्नस्तच्छ्रुत्वा मुनिभाषितम् ।
विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह ॥ १२.३१४.२५ ॥
他本性良善,听了仙人的话,便将心从欲望中收回,把智慧专注于法。