Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.316

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.316.1

अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे ।
पञ्चकल्पसहस्राणि द्विगुणान्यहरुच्यते ॥ १२.३१६.१ ॥

人中之尊啊,请听我讲未显者的时间计算。五千劫加倍,称为它的一日。

12.316.2

रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप ।
सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ॥ १२.३१६.२ ॥

人主啊,他的夜晚与此等长。醒来后,他首先创造药草,作为一切有身众生的生命。

12.316.3

ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् ।
सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ॥ १२.३१६.३ ॥

然后他创造了从金卵中诞生的梵天。他就是一切众生的形体,我们是这样听闻的。

12.316.4

संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः ।
संदधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ॥ १२.३१६.४ ॥

在卵中居住一年后出来的大仙人生主,将整个大地的一半与天的一半连接起来。

12.316.5

द्यावापृथिव्योरिज्येष राजन्वेदेषु पठ्यते ।
तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ॥ १२.३१६.५ ॥

君王啊,天地的这一祭祀在吠陀中被诵读。那两半之间,主造出了虚空。

12.316.6

एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः ।
दशकल्पसहस्राणि पादोनान्यहरुच्यते ॥ १२.३१६.६ ॥

精通吠陀及其支分的人也推算过此数:一万劫减去四分之一,称为它的一日。

12.316.7

रात्रिमेतावतीं चास्व प्राहुरध्यात्मचिन्तकाः ।
सृजत्यहंकारमृषिर्भूतं दिव्यात्मकं तथा ॥ १२.३१६.७ ॥

思维自我的人称此夜有如此之长。仙人创造我慢(自我意识),同样也创造具有神性的众生。

12.316.8

चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः ।
ते वै पितृभ्यः पितरः श्रूयन्तें राजसत्तम ॥ १२.३१६.८ ॥

大仙人先从自身生出另外四个儿子。王中最上者啊,人们听说他们便是诸祖先的祖先。

12.316.9

देवाः पितॄणां च सुता देवैर्लोकाः समावृताः ।
चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ॥ १२.३१६.९ ॥

诸天神也是诸祖先之子,而世界,包括动与不动之物,都被诸天神所环绕。人中之最上者啊,我们是这样听说的。

12.316.10

परमेष्ठी त्वहंकारोऽसृजद्भूतानि पञ्चधा ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १२.३१६.१० ॥

而至上者我慢(自我意识)创造了五种大种:地、风、空、水,第五是光。

12.316.11

एतस्यापि निशामाहुस्तृतीयमथ कुर्वतः ।
पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ॥ १२.३१६.११ ॥

此外人们称其第三夜,即创造者之夜。五千劫被称为同样长短的一日。

12.316.12

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ॥ १२.३१६.१२ ॥

声、触、色、味,第五是香:这些是五大种的特殊属性,王中之王啊。

12.316.13

यैराविष्टानि भूतानि अहन्यहनि पार्थिव ।
अन्योन्यं स्पृहयन्त्येते अन्योन्यस्याहिते रताः ॥ १२.३१६.१३ ॥

君王啊,被那些所附的众生日复一日地相互渴望,乐于彼此的伤害。

12.316.14

अन्योन्यमतिवर्तन्ते अन्योन्यस्पर्धिनस्तथा ।
ते वध्यमाना ह्यन्योन्यं गुणैर्हारिभिरव्ययाः ॥ १२.३१६.१४ ॥

彼此超越,彼此争竞;虽被彼此击伤,却因诱人的德性而不朽。

12.316.15

इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ।
त्रीणि कल्पसहस्राणि एतेषामहरुच्यते ॥ १२.३१६.१५ ॥

他们就在此轮转,进入畜生之胎。据说他们的一日是三千劫。

12.316.16

रात्रिरेतावती चैव मनसश्च नराधिप ।
मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः ॥ १२.३१६.१६ ॥

他们的夜晚同样长,心也同样(长)。王中之王啊,心在流转,一切行为都由诸根完成。

12.316.17

न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ।
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा ॥ १२.३१६.१७ ॥

诸根并不见;此处只有心在见。眼睛见色,却是以心而见,而非以眼。

12.316.18

मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ।
अथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ॥ १२.३१६.१८ ॥

心若纷乱,眼虽然在看,却不见。那时才说所有诸根都在见。

12.316.19

मनस्युपरते राजन्निन्द्रियोपरमो भवेत् ॥ १२.३१६.१९ ॥

君王啊,心意止息之时,诸根也随之止息。

12.316.20

न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् ।
एवं मनः प्रधानानि इन्द्रियाणि प्रभावयेत् ॥ १२.३१६.२० ॥

然而诸根止息,心未必止息。因此应以心为主,去调伏诸根。

12.316.21

इन्द्रियाणां तु सर्वेषामीश्वरं मन उच्यते ।
एतद्विशन्ति भूतानि सर्वाणीह महायशः ॥ १२.३१६.२१ ॥

心被称为一切诸根之主。大名者啊,此间一切众生都入于其中。