Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 12.319

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

12.319.1

एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम ।
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ॥ १२.३१९.१ ॥

人中の最上者よ、根本原理のこの三つのguṇa は、全世界に常に存在し、決して離れることがない。

12.319.2

अव्यक्तरूपो भगवाञ्शतधा च सहस्रधा ।
शतधा सहस्रधा चैव तथा शतसहस्रधा ॥ १२.३१९.२ ॥

未顕現の姿を持つ尊き主は、百の仕方で、千の仕方で、そして同様に十万の仕方で現れる。

12.319.3

कोटिशश्च करोत्येव प्रकृत्याऽऽत्मानमात्मना ।
सात्विकरणोत्तमं स्थानं राजसस्येह मध्यमम् ॥ १२.३१९.३ ॥

彼は自性によって、自らを千万の形に変える。ここでは、サットヴァの境地が最上であり、ラジャスの境地は中位である。

12.319.4

तामसस्वाधमं स्थानं प्राहुरध्यात्मचिन्तकाः ।
केवलेनेह पुण्येन भतिभूर्ध्वामवाप्नुयात् ॥ १२.३१९.४ ॥

内なる自己を思索する人々は、タマスの境地を最も低いと言う。ただ功徳によってのみ、人は上への道に至ることができる。

12.319.5

पुण्यपापेन मानुष्यमधर्मेणाप्यघोगतिम् ।
द्वन्द्वनेषां त्रयाणां तु सन्निपातं च तत्वतः ॥ १२.३१९.५ ॥

功徳と罪によって人間の生を得、非法によって罪深い道を得る。そしてこの三つの対の結合を、真に理解すべきである。

12.319.6

सत्वस्य रजसश्चैव तमसश्च शृणुष्व मे ।
सत्वस्य तु रजो दृष्टं रजसश्च तमस्तथा ॥ १२.३१९.६ ॥

サットヴァ、ラジャス、タマスの性質を私から聞け。サットヴァにはラジャスが見られ、ラジャスにもまた同様にタマスが見られる。

12.319.7

तमसश्च तथा सत्वं सत्वस्याव्यक्तमेव च ।
अध्यक्तः सत्वसंयुक्तो देवलोकमयाप्नुयात् ॥ १२.३१९.७ ॥

タマスからも、同様にサットヴァからも、サットヴァの未顕現も;サットヴァと結ばれた未顕現者は神々の世界に至る。

12.319.8

रवासत्वसमायुक्तो मानुषेषु प्रपद्यते ।
रसस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते ॥ १२.३१९.८ ॥

ラジャスとサットヴァに結ばれた者は人間の中に生まれ;ラジャスとタマスに結ばれた者は畜生の胎に生まれる。

12.319.9

राजसैस्तामसैः सत्वैर्युक्तो मानुषमाप्नुयात् ।
पुण्यपापवियुक्तानां स्थानमाहुर्महात्मनाम् ॥ १२.३१९.९ ॥

ラジャス、タマス、サットヴァの性質に結ばれた者は人の生を得る;功徳と罪を離れた偉大な魂の住処と言われる。

12.319.10

शाश्वतं चाव्ययं चैवमक्षयं चामृतं च तत् ।
ज्ञानिनां संभवं श्रेष्ठं स्थानमव्रणमच्युतम्।
अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम् ॥ १२.३१९.१० ॥

それは永遠で、不滅、尽きることなく、不死である;智者の最高の源・住処で、傷なく、不動、感覚を超え、種子なく、生と死の闇を払うものである。

12.319.11

अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप ।
स एव प्रकृतिस्थो हि तत्स्थ इत्यभिधीयते ॥ १२.३१९.११ ॥

未顕現に住む至高者——あなたが私に尋ねたそれについて、人の主よ、私はこう言う:彼自身がプラクリティに住むものと言われ、またそこに住むと言われる。

12.319.12

अचेतना चैव मता प्रकृतिश्चापि पार्थिव ।
एतेनाधिष्ठिता चैव सृजते संहरत्यपि ॥ १२.३१९.१२ ॥

王よ、プラクリティもまた無意識とみなされる;彼によって支配されて、それは創造し、また収める。

12.319.13

अनादिनिधनावेतावुभावेव महामते ।
अमूर्तिमन्तावचलावप्रकम्प्यगुणागुणौ ॥ १२.३१९.१३ ॥

大いなる智慧の者よ、この二つは始まりも終わりもない。無形で、不動、動揺せず、属性を持つものでも持たないものでもある。

12.319.14

अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः ।
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः ॥ १२.३१९.१४ ॥

聖仙の中の虎よ、把握しがたいこの二つのうち、一つがどうして無意識であり、もう一つは意識を持ち、場を知る者と言われるのか。

12.319.15

त्वं हि विप्रेन्द्र कार्त्स्न्येन र्मोक्षधर्ममुपाससे ।
साकल्पं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ॥ १२.३१९.१५ ॥

バラモンの主よ、あなたは解脱の教えを余すところなく実践している。解脱の教えの全容を真実のままに聞きたい。

12.319.16

निस्तत्वं केवलत्वं च विनाभावं तथैव च ।
दैवतानि च मे ब्रूहि देहं यान्याश्रितानि वै ॥ १२.३१९.१६ ॥

本質のなさ、孤立、そして同様に非存在について、また身体に宿る神々について私に語ってください。

12.319.17

तथैवोत्क्राणिणः स्थानं देहिनो वै विपद्यतः ।
कालेन यद्धि प्राप्नोति स्थानं तत्प्रब्रवीहि मे ॥ १२.३१९.१७ ॥

同様に、死にゆく有身者が去る場所と、時が来て到達する場所を私に語ってください。

12.319.18

साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च ।
अरिष्टानि च तत्त्वानि वक्तुमर्हसि सत्तम।
विदितं सर्वमेतत्ते पाणावामलकं यथा ॥ १२.३१९.१८ ॥

サーンキヤの知と別のヨーガを真実に説いてください。最善の人よ、死の兆候と諸原理を語るのがあなたにふさわしい。これらすべてをあなたは、手のひらのアーマラカの実のように知っている。