Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.32

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.32.1

युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा ।
परीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् ॥ १२.३२.१ ॥

仙人毗耶娑听了坚战的这番话,以智慧仔细考察之后,便对般度之子说道。

12.32.2

मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मरन् ।
स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ ॥ १२.३२.२ ॥

大王,不要悲伤,应当想起刹帝利的本分。刹帝利中的雄牛啊,这些刹帝利是因其自身的本分而被杀的。

12.32.3

काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च मबद्यशः ।
कृतान्तविधिसंयुक्ताः कालेन निधनं गताः ॥ १२.३२.३ ॥

他们渴望整个大地的财富和伟大的名声,受死神之命所束缚,因时间而走向死亡。

12.32.4

नृ त्वं हन्ता न भीमोऽयं नार्जुनो न यमावपि ।
कालः पर्यायधर्मेण प्राणानादत्त देहिनाम् ॥ १२.३२.४ ॥

杀人者既不是你,也不是这位毗摩,不是阿周那,甚至不是那对孪生兄弟;是时间依次轮替的法则夺去了有身众生的生命。

12.32.5

न तस्य मातापितरौ नानुग्राह्यो हि कश्चन ।
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः ॥ १२.३२.५ ॥

他没有母亲和父亲,也没有谁是他所应当眷顾的。他是众生行为的见证者;正是被这个时间所毁灭的。

12.32.6

हेतुमात्रमिदं तस्य विहितं भरतर्षभ ।
यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम् ॥ १२.३२.६ ॥

婆罗多族的雄牛啊,这只是他所安排的一个原因;众生相杀,正是他主宰之形。

12.32.7

कर्म मूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः ।
सुखदुःखगुणोदर्कं कालं कालफलप्रदम् ॥ १२.३२.७ ॥

当知业为有形之物,是善恶的见证,其果报为苦乐之德;也当知时间,它赐予时间之果。

12.32.8

तेषामपि महाबाहो कर्माणि परिचिन्तय ।
विनाशहेतुकानि त्वं यैस्तै कालवशं गताः ॥ १२.३२.८ ॥

大臂者啊,也要思考他们的行为,那些成为毁灭之因的行为,使他们落入时间的支配之下。

12.32.9

आत्मनश्च विजानीहि नियतव्रतशीलताम् ।
यदा त्वमीदृशं कर्म विधिनाऽऽक्रम्य कारितः ॥ १२.३२.९ ॥

也当知你自己坚定誓愿的本性,当命运强迫你做出这样的行为之时。

12.32.10

त्वष्ट्रेव विहितं यन्त्रं यथा चेष्टयितुर्वशे ।
कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत् ॥ १२.३२.१० ॥

如同特瓦incl​t​ṛ所造之机械受操控者掌控,此世界亦由与时间相结合的业力所转动。

12.32.11

पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः ।
यदृच्छया विनाशं च शोकहर्षावनर्थकौ ॥ १२.३२.११ ॥

见人之生无因无由,偶然而至,又见其灭亡,则悲与喜皆属虚妄。

12.32.12

व्यलीकमपि यत्त्वत्र चित्तवैतंसिकं तव ।
तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर ॥ १२.३२.१२ ॥

此处若因你心中的迷惑而有过失,大王啊,则应行其所规定的赎罪之法。

12.32.13

इदं तु श्रूयते पार्थ युद्धे देवासुरे पुरा ।
असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः ॥ १२.३२.१३ ॥

般度之子啊,据说往昔天神与阿修罗的战争中,阿修罗是兄长,天神是幼弟。

12.32.14

तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः ।
युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल ॥ १२.३२.१४ ॥

他们之间也因“吉祥女神”(王权之福)而产生了巨大的争斗,那场战争持续了三万二千年。

12.32.15

एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् ।
जघ्नुर्दैत्यांस्तथा देवास्त्रिदिवं चाभिलेभिरे ॥ १२.३२.१५ ॥

使大地化为一片被鲜血淹没的海洋,诸神杀死了提耶,并得以升往天界。

12.32.16

तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः ।
संश्रिता दानवानां वै साह्यार्थं दर्पमोहिताः ॥ १२.३२.१६ ॥

同样,那些精通吠陀的婆罗门,得到大地后,因骄傲而迷惑,便投靠檀那婆以助其一臂之力。

12.32.17

शालावृका इति ख्यातास्त्रिषु लोकेषु भारत ।
अष्टाशीतिसहस्राणि ते चापि विबुर्धैर्हताः ॥ १२.३२.१७ ॥

婆罗多之后啊,那八万八千名在三界中被称为“舍罗婆利迦”的人,也被天神杀死了。

12.32.18

धर्मव्युच्छित्तिमिच्छतो येऽधर्मस्य प्रवर्तकाः ।
हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्वणाः ॥ १२.३२.१८ ॥

那些欲使法灭绝、推行非法的恶毒之人,应当被天神诛杀,如同凶猛的提耶一般。

12.32.19

एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् ।
कुलं हत्वा च राष्ट्रे च न तद्वृत्तोपघातकम् ॥ १२.३२.१९ ॥

若杀一人能使家族中的贤者安康,那么杀尽家族乃至国家,也不会败坏德行。

12.32.20

अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप ।
धर्मरूपो ह्यधर्मश्च तच्च ज्ञेयं विपश्चिता ॥ १२.३२.२० ॥

王者啊,确有以非法之相出现的法,也有以法之相出现的非法;智者应当知晓此理。

12.32.21

तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव ।
देवैः पूर्वगतं मार्गमनुयातोऽसि भारत ॥ १२.३२.२१ ॥

因此,般度之子啊,你要克制自己;你是博学之人。婆罗多啊,你已走上诸神先前走过的道路。

12.32.22

न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ ।
भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परंतप ॥ १२.३२.२२ ॥

般度族中的雄牛啊,这样的人不会堕入地狱。焚敌者啊,你要安慰这些兄弟和朋友。

12.32.23

यो हि पापसमारम्भे कार्ये तद्भावभावितः ।
कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः ॥ १२.३२.२३ ॥

凡是在开始罪恶之事时心怀此念的人,做事时仍如此,做完之后也毫无羞耻。

12.32.24

तस्मिंस्तत्कलुषं सर्वं समस्तमिति शब्दितम् ।
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः ॥ १२.३२.२४ ॥

说他身上完全充满了那全部污秽;对于这个作恶之人,既无赎罪之法,其罪也不会减轻。

12.32.25

त्वं तु शुक्लाभिजातीयः परदोषेण कारितः ।
अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे ॥ १२.३२.२५ ॥

然而你出身清净之族,因他人之过而被驱使,违背本意做了此事,因而痛悔不已。

12.32.26

अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम् ।
तमाहर महाराज विपाप्मैवं भविष्यसि ॥ १२.३२.२६ ॥

马祭这一大祭被宣说为赎罪之法。大王,请行此祭,如此你便可远离罪业。

12.32.27

मरुद्भिः सह जित्वाऽरीन्भगवान्पाकशासनः ।
एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः ॥ १२.३२.२७ ॥

与摩录多们共同击败敌人后,尊贵的帝释天(巴迦之征服者)一一举行祭祀,共做了一百次,因此得名百祭主(Śatakratu)。

12.32.28

धूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान् ।
मरुद्गणैर्वृतः शक्रः शुशुभे भासयन्दिशः ॥ १२.३२.२८ ॥

摆脱罪业,征服天界,得至带来安乐的诸界,帝释天被摩录多众环绕,照亮四方,光辉灿然。

12.32.29

स्वर्गे लोके महीयन्तमप्सरोभिः शचीपतिम् ।
ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम् ॥ १२.३२.२९ ॥

在天界,受阿布沙罗斯们尊崇的舍尔吉之主(因陀罗),为诸仙所侍奉,诸天神也侍奉天神之主。

12.32.30

सेयं त्वामनुसंप्राप्ता विक्रमेण वसुंधरा ।
निर्जिताश्च महीपाला विक्रमेण त्वयाऽनध ॥ १२.३२.३० ॥

此大地凭你的勇力归于你;无罪之人啊,诸地上之王也都被你的勇力所征服。

12.32.31

तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वॄतः ।
भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वेस्वे राज्येऽभिषेचय ॥ १२.३२.३१ ॥

啊,国王!你前往他们的城邑与国土,与朋友们一同,将你的兄弟、儿子和孙子各自在其王国中加冕。

12.32.32

बालानपि च गर्भस्थान्सांत्वेन समुदाचरन् ।
रञ्जयन्प्रकृतीः सर्वाः परिपाहि वसुंधराम् ॥ १२.३२.३२ ॥

即使对孩童与腹中的胎儿也以慰藉相待,使所有臣民欢喜,守护大地。

12.32.33

कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय ।
कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यसि ॥ १२.३२.३३ ॥

若无幼王子之家,就在那里加冕其女儿;女性之众心怀欲望,如此你便能舍弃悲伤。

12.32.34

एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत ।
यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा ॥ १२.३२.३४ ॥

啊,婆罗多!如此在所有国家安抚之后,行马祭,正如往昔胜利的因陀罗所行。

12.32.35

अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ ।
स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः ॥ १२.३२.३५ ॥

啊,武士中的雄牛!那些大德的刹帝利不值得悲悼;他们因自己的业行,为死神之力所迷,走向毁灭。

12.32.36

अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकण्टकम् ।
रक्ष स्वधर्मं कौन्तेय श्रेयान्यः प्रेत्यभाविकः ॥ १२.३२.३६ ॥

你已获得刹帝利之法,无荆棘的王国也已得到。啊,昆提之子!守护你自己的法,那对来世更为有益。