摩诃婆罗多 · 章 12.320
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.320.1
न शक्यो निर्गुणस्तात गुणीकर्तुं विशांपते ।
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे ॥ १२.३२०.१ ॥
亲爱的孩子,众生之主,无德之人不能使其有德。请从我这里理解有德与无德的真实道理。
12.320.2
गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा ।
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः ॥ १२.३२०.२ ॥
的确,有德之人唯因德性而成;无德、无性之人亦然。证悟真理的大德仙人如此宣说。
12.320.3
गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते ।
उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ॥ १२.३२०.३ ॥
以德性为本性的未显者,只转向诸德并运用它们;它本性上即是无知的。
12.320.4
अव्यक्तस्तु न जानीते पुरुषोऽज्ञः स्वभावतः ।
न मत्तः परमोस्तीति नित्यमेवाभिमन्यते ॥ १२.३२०.४ ॥
未显之人本性无知,并不知晓;他常常认为,除我之外再无更高者。
12.320.5
अनेन कारणेनैतदव्यक्तं स्यादचेतनम् ।
नित्यत्वाच्चाक्षरत्वाच्च क्षरत्वान्न तदन्यथा ॥ १२.३२०.५ ॥
因此,未显者可能是无意识的。因其为常、为不灭、亦为可灭,它并非另一种状态。
12.320.6
यदाऽज्ञानेन कुर्वीत गुणसर्गं पुनःपुनः ।
यदात्मानं न जानीते तदाऽऽत्मापि न मुच्यते ॥ १२.३२०.६ ॥
当人因无知而反复造作诸德之创生,且不认识自我时,自我也不得解脱。
12.320.7
कर्तृत्वाच्चापि सर्गाणां सर्गधर्मा तथोच्यते ।
कर्तृत्वाच्चापि योगानां योगधर्मा तथोच्यते ॥ १२.३२०.७ ॥
因为它是诸创造的作者,故称为创造之法;因为它是诸瑜伽的作者,故也称为瑜伽之法。
12.320.8
कर्तृत्वात्प्रकृतीनां च तथा प्रकृतिधर्मिता ॥ १२.३२०.८ ॥
因为它是诸原质的作者,它也因此具有原质之性。
12.320.9
कर्तृत्वाच्चापि वीजानां बीजधर्मा तथोच्यते ।
गुणानां प्रसवत्वाच्च प्रलयत्वात्तथैव च ॥ १२.३२०.९ ॥
因为它是诸种子的作者,故称为种子之法;又因它是诸德(guṇa)的生起与消融,也是如此。
12.320.10
कर्तृत्वात्प्रलयानां तु तथा प्रलयधर्मि च ।
कर्तृत्वात्प्रभवाणां च तथा प्रभवधर्मि च ॥ १२.३२०.१० ॥
因为它是诸灭度的作者,故具灭度之性;因为它是诸生起的作者,故具生起之性。
12.320.11
बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च ।
उपेक्षत्वादनन्यत्वादभिमानाच्च केवलम् ॥ १२.३२०.११ ॥
因为它是种子,因为它是原质,因为它是灭度,也因漠然、无异与单纯的我慢,故如此称说。
12.320.12
मन्यन्ते यतयः सिद्धा अध्यात्मज्ञा गतज्वराः ।
अनित्यं नित्यमव्यक्तं व्यक्तमेतद्धि शुश्रुम ॥ १२.३२०.१२ ॥
苦行者、成就者、知自我者及离热恼者如此认为:无常与常,未显与显;此乃我们所闻。
12.320.13
अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषास्तथा ।
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः ॥ १२.३२०.१३ ॥
他们说未显者为一,而人为多;对一切众生怀有慈悲,唯住于智慧之中。
12.320.14
अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञकः ।
यथा मुञ्ज इषीकाणां तथैवैतद्धि जायते।
न चैव मुञ्जसंयोगादिषीका तत्र बुध्यते ॥ १२.३२०.१४ ॥
彼补鲁沙与未显者不同;虽然无常,却名为“不动”。如同箭草从穆贾草中生出,此亦如是生起;然而箭草在穆贾草的接触中并不被察知。
12.320.15
अन्यच्च मशकं विद्यादन्यच्चोदुम्बरं तथा ।
च चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते ॥ १२.३२०.१५ ॥
应当知道蚊子是一物,无花果树是另一物;蚊子因接触无花果树而在那里沾染。
12.320.16
अन्य एव तथा मत्स्यस्तदन्यदुदुकं स्मृतम् ।
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ॥ १२.३२०.१६ ॥
同样,鱼是另一物,那水器也被称为另一物;鱼因水的接触,全然不会被沾染。
12.320.17
अन्यो ह्यग्निरुखाऽप्यन्या नित्यमेवमवेहि भोः ।
न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै ॥ १२.३२०.१७ ॥
火是另一物,锅是另一物;先生,应当永远这样了知。那火也确实不会因接触锅而被沾染。
12.320.18
पुष्करं त्वन्यदेवात्र तथाऽन्यदुदकं स्मृतम् ।
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ॥ १२.३२०.१८ ॥
这里,莲叶是另一物,水也被称为另一物;莲叶在那里并不因水的接触而被沾染。
12.320.19
एतेषां सहवासं च निवासं चैव नित्यशः ।
याथातथ्येन पश्यन्ति न नित्यं प्राकृता जनाः ॥ १२.३२०.१९ ॥
凡俗之人并不总能如实看见它们的共处与所居。
12.320.20
ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् ।
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः ॥ १२.३२०.२० ॥
若以别样的眼光看待它们、对它们没有正确的见解,此等人显然会一次又一次坠入可怕的地狱。
12.320.21
साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यानमुत्तमम् ।
एवं हि परिसंख्याय साङ्ख्याः केवलतां गताः ॥ १२.३२०.२१ ॥
这是你所应知的数论见解,乃最上等的列举。数论者依此列举而达到了独存(kevalatā)。
12.320.22
ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् ।
अतः परं प्रवक्ष्यामि योगानामनुदर्शनम् ॥ १२.३२०.२२ ॥
至于其他精通真理者,这便是他们的范例。此后我将讲述诸瑜伽的解说。