摩诃婆罗多 · 章 12.322
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.322.1
तथैवोत्क्रमतां स्थानं शृणुष्वावहितो नृप ।
पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते ॥ १२.३२२.१ ॥
同样,国王啊,请专心听那些离去者的归处。从双足离去者,其处所称为毗湿奴之境。
12.322.2
जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् ।
जानुभ्यां च महाभागान्साध्यान्देवानवाप्नुयात् ॥ १२.३२२.२ ॥
据我们所闻,经由小腿可得诸婆薮神;经由膝盖则可得大福的萨提亚神。
12.322.3
पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् ।
पृथिवीं जघनेनाथ ऊरुभ्यां च प्रजापतिम् ॥ १२.३२२.३ ॥
从肛门离去者得弥陀罗之境;经由臀部可得大地;经由大腿可得生主。
12.322.4
पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च ।
बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ॥ १२.३२२.४ ॥
经由两侧可得众风神,经由鼻孔可得月神本身。经由双臂,人们说可得因陀罗;经由胸膛可得楼陀罗。
12.322.5
ग्रीवया तु मुनिश्रेष्ठं नरमाप्नोत्यनुत्तमम् ।
विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् ॥ १२.३२२.५ ॥
经由颈项可得那罗,即仙人中最上者、至上者;经由口可得毗首提婆众;经由耳可得诸方。
12.322.6
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च ।
भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितृनथ ॥ १२.३२२.६ ॥
经由鼻可得载香之风;经由眼可得太阳;经由眉可得二马神;经由额可得祖先。
12.322.7
ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा ।
एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर ॥ १२.३२२.७ ॥
通过头顶,他得以到达遍在的梵天,以及诸神中的长子。米提罗之主啊,这些便是所说的生气离去之处。
12.322.8
अरिगनि प्रवक्ष्यामि विहितानि मनीषिभिः ।
संवत्सराद्धिमोक्षस्तु संभवेत शरीरिणः ॥ १२.३२२.८ ॥
我将宣说智者所规定的死亡征兆。对于有身者而言,死亡可能在一年之内降临。
12.322.9
योऽरुन्धतीं न पश्येत दृष्टपूर्वा कदाचन ।
तथैव ध्रुवमतित्याहुः पूर्णेन्दुं दीपमेव च ॥ १२.३२२.९ ॥
若有人从未见到曾经见过的阿仑陀蒂,人们说他同样越过了北极星;他也看不见满月和灯火。
12.322.10
खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः ।
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिवः ॥ १२.३२२.१० ॥
右侧出现断裂破碎的光影,标志着寿命只剩一年的人;同样,国王啊,那些在他人眼中看不到自己影像的人也是如此。
12.322.11
आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः ।
अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा ॥ १२.३२२.११ ॥
化为自身影子之形者,也只剩一年寿命。过度的光辉、过度的智慧、无智慧与失去光泽,同样是这样的征兆。
12.322.12
प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम् ।
दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते ॥ १२.३२२.१२ ॥
自身本性发生变化,是六个月内死亡的征兆。轻慢诸神、与婆罗门相抵触者,也是如此。
12.322.13
कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् ।
शीर्णनाभिं यथा चक्रं छिद्रं सोमं प्रपश्यति ॥ १२.३२२.१३ ॥
肤色黝黑发青者,六个月内便会见到死亡之兆;如同断了轮毂的车轮显出孔洞,他看到月亮上有一个孔洞。
12.322.14
तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् ।
शवगन्धमुपाघ्राति सप्तरात्रेण मृत्युभाक्। ॥ १२.३२२.१४ ॥
同样,见到千光之日者,七夜之内必死;嗅到尸体气味者,七夜之内也必死。
12.322.15
कर्णनासावनमनं दन्तदृष्टिविरागितां ।
कर्णनासावनमनं दन्तदृष्टिविरागिता ॥ १२.३२२.१५ ॥
耳朵与鼻子下垂,牙齿与目光失去光泽。
12.322.16
संज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् ।
अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप ॥ १२.३२२.१६ ॥
失去知觉、身体没有暖意,是立即死亡的征兆;人的左眼忽然流淌,哦人主,这也是征兆。
12.322.17
मूर्ध्रतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् ।
एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् ॥ १२.३२२.१७ ॥
若从头顶升起烟气,也是立即死亡的征兆。知道这些死亡的凶兆后,自制的人(……)。
12.322.18
निशि चाहनि चात्मानं योजयेत्परमात्मनि ।
प्रतीक्षमाणस्तत्कालं यः कालः प्रकृतो भवेत् ॥ १२.३२२.१८ ॥
昼夜都应当将自我与至上之我相合,等待那已被指定(为死亡)的时刻。
12.322.19
अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् ।
सर्वगन्धान्रसांश्चैव धारयीत समाहितः ॥ १२.३२२.१९ ॥
若欲安住于此修行者,不应愿求死亡;心志专一,应当节制一切香气与滋味。
12.322.20
तथा मृत्युमुपादाय तत्परेणान्दरात्मना ।
स साङ्ख्यधारणं चैव विदित्वा मनुजर्षभ।
जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना ॥ १२.३२२.२० ॥
如是接受死亡,以专注于此的内我,并通晓数论的持守,人中之牛啊,应以瑜伽战胜死亡;以专注于此的内我。
12.322.21
गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् ।
शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ॥ १२.३२२.२१ ॥
得到圆满、不灭、无生、吉祥、不变、永恒、不动之境,便可前往;其自我未经调伏者,难以达到。