Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.325

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.325.1

अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम ।
कः प्राप्तो भूपतिः सिद्धिं मोक्षतत्त्वं वदस्व मे ॥ १२.३२५.१ ॥

库鲁王族中最杰出的王仙啊,哪位国王在不舍弃家居生活的情况下获得了成就?请向我讲说解脱(解脱)的真理。

12.325.2

संन्यस्यते यथाऽत्माऽयं व्यक्तस्यात्मा यथा च यत् ।
परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह ॥ १२.३२५.२ ॥

此自我如何被舍弃,显现者的自我又是怎样的?关于解脱的至高真理,也请告诉我,祖父。

12.325.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
जनकस्य च संवादं सुलभायाश्च भारत ॥ १२.३२५.३ ॥

此处也有人讲述这古老的故事:遮那迦与苏罗跋之间的对话,婆罗多之子啊。

12.325.4

संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा ।
मैथिलो जनको नाम धर्मध्वज इति श्रुतः ॥ १२.३२५.४ ॥

往昔有一位国王追求出离的果报:弥提罗的遮那迦,名为法幢。

12.325.5

स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतश्रमः ।
इन्द्रियाणि समाधाय शशास वसुधामिमाम् ॥ १२.३२५.५ ॥

他在吠陀、解脱之论以及自己的论典中都下过苦功;摄伏诸根之后,他统治着这片大地。

12.325.6

तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् ।
लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वरम् ॥ १२.३२५.६ ॥

吠陀的知者、智者以及其他人听闻他善良的行为,便在诸世界中向往那位人主。

12.325.7

अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता ।
महीमनुचचारैका सुलभा नाम भिक्षुकी ॥ १२.३२५.७ ॥

在那法之时代,一位名为苏拉巴的女乞士修习瑜伽之法,独自游行于大地。

12.325.8

तया जगदिदं कृत्स्नमटन्त्या मिथिलेश्वरः ।
तत्रतत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः ॥ १२.३२५.८ ॥

她遍行整个世界,到处听到持三杖的苦行者讲论解脱,述说着弥提罗之主的事迹。

12.325.9

साऽतिसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया ।
दर्शने जातसंकल्पा जनकस्य बभूव ह ॥ १२.३२५.९ ॥

她听闻那极为精微的教义,心中疑惑其是否为真,于是生起了拜见遮那伽的决心。

12.325.10

तत्र सा विप्रहायाऽथ पूर्वरूपं हि योगतः ।
अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम् ॥ १२.३२५.१० ॥

她在那里舍弃乞士之形,以瑜伽之力复现原来的形貌;这位肢体无瑕的女子又示现了另一种至高的形相。

12.325.11

चक्षुनिंमेषमात्रेण लध्वस्त्रगतिगामिनी ।
विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा ॥ १२.३२५.११ ॥

霎时间,她疾行如飞箭,那眉目秀丽、眼如莲花的女子,来到了毗提诃人的城邑。

12.325.12

सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम् ।
भैक्ष्यचर्यापदेशेन ददर्श मिथिलेश्वरम् ॥ १२.३२५.१२ ॥

她来到繁华热闹、令人欣喜的弥提罗城,借乞食之名,得以拜见弥提罗之主。

12.325.13

राजा तस्याः परं दृष्ट्वा सौकुमार्यं पुनस्तदा ।
केयं कस्य कुतो वेति बभूवागतविस्मयः ॥ १२.३२५.१३ ॥

国王再次看到她极致的柔美,惊叹不已:她是谁,属于谁,从何而来?

12.325.14

ततोस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् ।
पूजितां पादशौचेन वरान्नेनाप्यतर्पयत् ॥ १२.३२५.१४ ॥

随后,他欢迎她,为她安排上好的座位,以洗足之礼敬重她,并以上好的食物使她满足。

12.325.15

अथ भुक्तवतीं प्रीतां राजा तां मन्त्रिभिर्वृतः ।
सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकीम् ॥ १२.३२५.१५ ॥

随后,国王在群臣环绕之中,请这位饮食后心满意足的乞丐尼,在所有精通辩论者面前发言。

12.325.16

सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया ।
सत्वं सत्वेन योगज्ञा प्रविष्टाऽभून्महीपते ॥ १२.३२५.१६ ॥

她认为他在法义上易于接近,却怀疑他是否已得解脱。大地之主啊,精通瑜伽的她以自身的本质进入了他的内心。

12.325.17

नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः ।
सा स्म तं चोदयिष्यन्ती योगबन्धैर्बबन्ध ह ॥ १२.३२५.१७ ॥

她以自己的眼睛将他眼中的光线与光线相连,意欲激发他,于是以瑜伽的纽带真正地将他缚住。

12.325.18

जनकोप्युत्स्मयन्राजा भावमस्या विशेषयन् ।
प्रतिजग्राह भावेन भावमस्या नृपोत्तम ॥ १२.३२५.१८ ॥

遮那伽王也微笑着,辨识她的内心境界,以自己的内心境界接纳了她的内心境界,王中之尊啊。

12.325.19

तदेकस्मिन्नधिष्ठाने संवादः श्रूतयामयम् ।
छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डकैः ॥ १२.३२५.१९ ॥

请听这场在同一处进行的对话——一位已摆脱伞盖等标志者,与持三杖的解脱女子之间的对话。

12.325.20

भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि ।
कस्य च त्वं कुतो वेति पप्रच्छैनां महिपतिः ॥ १२.३२५.२० ॥

"尊贵的女士,你这一路游历在何处进行,又将往何处去?你属于谁,从何而来?"国王如此问她。

12.325.21

श्रुते वयसि जातौ च सद्भावो नाधिगम्यते ।
एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं मत्समागमे ॥ १२.३२५.२१ ॥

一个人的真实本性不能从学识、年龄或出身来辨别。因此,对这些问题的回答应在我们相见时说明。

12.325.22

छत्रादिषु विशेषेषु मुक्तं मां विद्धि तत्त्वतः ।
सत्वां संवेत्तुमिच्छामि मानार्हा हि मताऽसिमे ॥ १२.३२५.२२ ॥

你要知道,我真正地摆脱了伞盖等标志。我想要充分了解你,因为你值得尊敬,也为我所敬重。

12.325.23

यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा ।
यस्य नान्यः प्रवक्ताऽस्ति मोक्षे तमपि मे शृणु ॥ १२.३२५.२३ ॥

因为这种特殊的知识我从前已经获得,关于解脱,没有别人能够宣说它;关于他的事,也请听我说。

12.325.24

पराशरसगोत्रस्य वृद्धस्य सुमहात्मनः ।
भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः ॥ १२.३२५.२४ ॥

我是婆罗舍罗族的年老而极具大德的乞士般遮尸迦的弟子,他为我所最为敬重。

12.325.25

साङ्ख्यज्ञाने च योगे च महीपालविधौ तथा ।
त्रिविधे मोक्षधर्मोस्मिन्गताध्वा छिन्नसंशयः ॥ १२.३२५.२५ ॥

在数论之知、瑜伽,以及王者之法中,于此三重解脱之教,我已走过道路,疑惑已被斩断。

12.325.26

स यथा शास्त्रदृष्टेन मार्गेणेह परिभ्रमन् ।
वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः ॥ १२.३२५.२६ ॥

他依照经典所见之道在此游行,昔日与我同住,安乐地度过雨季四个月。

12.325.27

तेनाहं साङ्ख्यमुख्येन सुदृष्टार्थेन तत्त्वतः ।
श्रावितस्त्रिविधं मोक्षं न च राज्याद्धि चालितः ॥ १२.३२५.२७ ॥

彼是数论中最杰出、通达义理的人,他依真实之理为我讲说三重解脱,却也不曾使我离开王国。

12.325.28

सोहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम् ।
मुक्तरागश्चराम्येकः पदे परमके स्थितः ॥ १२.३२५.२८ ॥

我依循这整部三重解脱之集,离欲而独行,安住于至上之境。

12.325.29

वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः ।
ज्ञानादेव च वैराग्यं जायते येन मुच्यते ॥ १२.३२५.२९ ॥

再者,此解脱的最高法则是离欲;离欲唯从智慧而生,由此而得解脱。

12.325.30

ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् ।
महद्द्वन्द्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा ॥ १२.३२५.३० ॥

以智慧而发起努力,以努力而得那伟大的成就——为从大的二元对立中解脱;那成就超越年岁。

12.325.31

सेयं परमिका सिद्धिः प्राप्ता निर्द्वन्द्वता मया ।
इहैव गतमोहेन चरता मुक्तसङ्गिना ॥ १२.३२५.३१ ॥

这便是至高的成就:我已获得超越对立二元的解脱,此即在此生,迷惑已尽,无执地行走。

12.325.32

यथा क्षेत्रं मृदुभूतमद्भिराप्लावितं तथा ।
जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम् ॥ १२.३२५.३२ ॥

正如被水浸润、变得松软的田地生出幼芽,人的业行也同样产生再生。

12.325.33

यथा चोत्तापितं बीजं कपाले यत्रतत्र वा ।
प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते ॥ १२.३२५.३३ ॥

又如被烤焦的种子,置于陶片上或别处,虽有生芽之因,却因失去种子的本性而不能生长。

12.325.34

तद्वद्भगवताऽनेन शिखाप्रोक्तेन भिक्षुणा ।
ज्ञानं कृतमबीजं मे विषयेषु न जायते ॥ १२.३२५.३४ ॥

同样,由这位受式伽教导的尊者比丘,我的智慧已成无种之物,因而不再在诸境中生起。

12.325.35

नामिरज्यति कस्मिंश्चिन्नानर्थे न परिग्रहे ।
नाभिरज्यति चैतेषु व्यर्थत्वाद्रागरोषयोः ॥ १२.३२५.३५ ॥

我的心对任何事物都不执着,无论是无用之物还是所有之物;对这二者也不执着,因为贪与嗔都是无用的。

12.325.36

यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत् ।
सव्यं वाऽस्यापि यस्तक्षेत्समावेतावुभौ मम ॥ १२.३२५.३६ ॥

无论是以檀香涂抹我右臂的人,还是击打我左臂的人,这二者对我而言都是平等的。

12.325.37

सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः ।
मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः ॥ १२.३२५.३७ ॥

我已得偿所愿,内心快乐;视土块、石头与黄金为一,无所执著,安居于王国之中,与其他三杖苦行者不同。

12.325.38

मोक्षे हि त्रिविधा निष्ठा दृष्टाऽन्यैर्मोक्षवित्तमैः ।
ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम् ॥ १२.३२५.३८ ॥

在解脱之中,最杰出的解脱智者已见三种立足之道:超越世间的智慧,以及舍弃一切行为。

12.325.39

ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः ।
कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः ॥ १२.३२५.३९ ॥

一些精通解脱经典的人谈论智慧之道;同样,其他洞察细微的苦行者谈论行为之道。

12.325.40

प्रहायोभयमप्येव ज्ञानं कर्म च केवलम् ।
तृतीयेयं समाख्याता निष्ठा तेन महात्मना ॥ १२.३२५.४० ॥

舍弃智慧与行为二者,或仅舍弃其中之一,这第三种立足之道由那位大德宣说。

12.325.41

यमे च नियमे चैव कामे द्वेषे परिग्रहे ।
माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः ॥ १२.३२५.४१ ॥

在禁戒与持守中,在欲望与厌憎中,在占有中,在傲慢与虚伪中,同样在情爱中,他们与居家者相似。

12.325.42

त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित् ।
छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे ॥ १२.३२५.४२ ॥

若三杖等物中有以某种智慧而得解脱,那么在具有同等原因的所有物如伞盖等之中,为何不能得解脱?

12.325.43

येनयेन हि यस्यार्थः कारणेनेह कर्मणि ।
तत्तदालम्बते सर्वद्रव्ये स्वार्थपरिग्रहे ॥ १२.३२५.४३ ॥

无论人在此处的行动中以何种因由有所求,他便在一切物中抓住那同一物,为自己的目的而取得。

12.325.44

दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरे ।
उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते ॥ १२.३२५.४४ ॥

然而,见家居生活有过失而转入另一生活阶段者,一边舍弃一边取得,也仍不能脱离执着。

12.325.45

आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मके ।
राजभिर्भिक्षुकास्तुल्या मुच्यन्ते केन हेतुना ॥ १२.३२५.४५ ॥

在由惩罚与恩赐构成的同等权威中,乞食者与国王平等;那么他们因何缘故得到解脱呢?

12.325.46

अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम् ।
मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः ॥ १२.३२५.४६ ॥

那么,若在真正的权威中,这里也唯独凭借智慧而得解脱,那么安住于最高境界者为何不得解脱呢?

12.325.47

काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमण्डलुम् ।
लिङ्गान्युत्पथभूतानि न मोक्षायेति मे मतिः ॥ १२.३२५.४७ ॥

穿着赭色衣、剃光头、三杖与水瓶——这些偏离正道的外在标志,并非为解脱而设,这是我的看法。

12.325.48

यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम् ।
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् ॥ १२.३२५.४८ ॥

若即使有此外相,这里的原因仍唯独是智慧,那么仅有外在标志对于彻底脱离苦恼便毫无意义。

12.325.49

अथवा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः ।
किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते ॥ १२.३२५.४९ ॥

或者,看到痛苦的减轻,你便把心思放在外在的标志上了吗?为何在伞盖等物上看不到同样的共同目的?

12.325.50

आकिञ्चन्ये न मोक्षोस्ति कैञ्चन्ये नास्ति बन्धनम् ।
कैञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते ॥ १२.३२५.५० ॥

无所有之中无解脱,有所有之中无束缚。在有所有之时,以及在另一种状态中,众生都因知识而得解脱。

12.325.51

तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे ।
बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम् ॥ १२.३२५.५१ ॥

因此应当知道:在法、利、欲之中,以及接受王位之时,在这些束缚之处,也能安住于无缚之位。

12.325.52

राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः ।
मोक्षाश्मनिशितेनेह च्छिन्नस्त्यागासिना मया ॥ १२.३२५.५२ ॥

由王权与富贵所成的罗网,以爱恋之所的羁绊捆缚;我在此以在解脱之石上磨利的舍弃之剑,将它斩断了。

12.325.53

सोहमेवं गतो मुक्तो जातास्थस्त्वयि भिक्षुकि ।
अयथार्थं हि ते वर्णं वक्ष्यामि शृणु तन्मम ॥ १२.३२५.५३ ॥

我如此行去已得解脱;比丘尼啊,我对你已生信心。你的容貌实际上并非如此;我要说出它,请听我的话。

12.325.54

सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः ।
तवैतानि समस्तानि नियमश्चेति संशयः ॥ १२.३२५.५४ ॥

你的柔美、容貌、殊胜的身体与青春——这一切合在一起,令人怀疑你是否守持戒律。

12.325.55

यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम् ।
मुक्तोऽयं स्यान्न वेति स्याद्धर्षितो मत्परिग्रहः ॥ १२.३२५.५५ ॥

你这种不合苦行者标记的行为也有——他是否已解脱,令人怀疑;而我的接纳则令人欢喜。

12.325.56

न च कामसमायुक्ते युक्तेऽप्यस्ति त्रिदण्डके ।
न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना ॥ १२.३२५.५६ ॥

即便他与欲望相连,或持着三杖,若你不守护此事,对于已解脱者便无隐瞒之法。

12.325.57

मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः ।
आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् ॥ १२.३२५.५७ ॥

请听你因依附于我这一方而犯下的过失:你本性上依附于我,而我先前已接纳了一位妻子。

12.325.58

प्रवेशस्ते कृतः केन मम राष्ट्रे पुरेपि वा ।
कस्य वा सन्निकर्षात्त्वं प्रविष्टा हृदयं मम ॥ १२.३२५.५८ ॥

你是被谁引入我的国土或城中的?或是因为谁的亲近,你才进入了我的心?

12.325.59

वर्णप्रवरमुख्याऽसि ब्राह्मणी क्षत्रियस्त्वहम् ।
नावयोरेकयोगोऽस्ति मा कृथा वर्णसंकरम् ॥ १२.३२५.५९ ॥

你是婆罗门女子,是诸种姓中最上者之首;我则是刹帝利。我们二人之间没有共同的结合——不要造成种姓混杂。

12.325.60

वर्तसे मोक्षधर्मेण त्वं गार्हस्थ्येऽहमाश्रमे ।
अयं चापि सुकष्टस्ते द्वितीयाश्रमसंकरः ॥ १२.३२५.६० ॥

你依循解脱之法而行,我则处于居家阶段。这种第二阶段生活的混杂,对你来说也是极为痛苦的。

12.325.61

सगोत्रां वाऽसगोत्रां वा न वेद त्वां न वेत्थ माम् ।
सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसंकरः ॥ १२.३२५.६१ ॥

你不知道自己是否与我同族,也不认识我。与同族之人结合,便是第三种族姓混乱(gotra-saṃkara)。

12.325.62

अथ जीवति ते भर्ता प्रोषितोप्यथवा क्वचित् ।
अगम्या परभार्येति चतुर्थो धर्मसंकरः ॥ १२.३२५.६२ ॥

无论你的丈夫是否在世,或是远行在外,他人之妻是不可接近的。这便是第四种法的混乱(dharma-saṃkara)。

12.325.63

सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि ।
अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः ॥ १२.३२५.६३ ॥

你为了自己的目的,决意去做这些不当之事——或出于无知,或再次为虚假的知识所驱使。

12.325.64

अथवापि स्वतन्त्राऽसि स्वदोषेणेह केनचित् ।
यदि किंचिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम् ॥ १२.३२५.६४ ॥

或者你是自由之身,因自己的过错,因某种缘故来到这里。若你听过什么,那么一切都已徒劳。

12.325.65

इदमन्यत्तृतीयं ये भावस्पर्शविघातकम् ।
दुष्टायाऽलक्ष्यते लिङ्गं विवृण्वत्या प्रकाशितम् ॥ १२.३२५.६५ ॥

这是另一个第三种迹象,它会摧毁情感的触动。当邪恶的女子暴露自己时,便可见此标志。

12.325.66

न मय्येवाभिसन्धिस्ते जयैषिण्या जये कृतः ।
येयं मत्परिषत्कृत्स्ना चेतुमिच्छसि तामपि ॥ १२.३२५.६६ ॥

你的意图并不在我身上,你这求胜之人。你连我的整个议会也想要了解。

12.325.67

तथाऽर्हतस्ततश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि ।
मत्पक्षप्रतिघाताय स्वपक्षोद्भवनाय च ॥ १२.३२५.६७ ॥

如此合宜地,随后你将自己的目光投向我方,以击败我方,并使你方崛起。

12.325.68

सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता ।
भूयः सृजसि योगांस्त्वं विषामृतमिवैकताम् ॥ १२.३२५.६८ ॥

你被自己愤怒所生的财富迷惑,又再次设计计谋,仿佛把毒药与甘露合为一体。

12.325.69

इच्छतोरत्र यो लाभः स्त्रीपुंसोरमृतोपमः ।
अलाभश्चापि रक्तस्य सोपि दोषो विषोषमः ॥ १२.३२५.६९ ॥

在此,求欲的男女所得之利如同甘露;而执著者所受之失,那过失也如同毒药。

12.325.70

मा त्याक्षीः साधु जानीष्व स्वशास्त्रमनुपालय ।
कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम ॥ १२.३२५.७० ॥

不要舍弃;要明白,遵守你自己的经典。这是为了考验我而做的;并非你使我得到解脱。

12.325.71

एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितम् ।
सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः।
तत्त्वमत्र प्रतिच्छन्ना मयि नार्हसि गूहितम् ॥ १२.३२५.७१ ॥

这一切隐藏之事,你不应对我隐瞒。若此事因你的事务,或因另一位地上之王的事务而隐于此,你也不应对我隐瞒。

12.325.72

न राजानं मृषा गच्छेन्न द्विजातिं कथंचन ।
न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः ॥ १२.३२५.७२ ॥

不可以虚假之心去见国王,也不可以任何方式去见婆罗门,不可去见具有女性德性的女子;带着虚假而去者,必定会害了他们。

12.325.73

राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम् ।
रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम् ॥ १२.३२५.७३ ॥

国王的力量是权威,梵智者的力量是梵,而女子无上的力量是容貌、青春与福运。

12.325.74

अत एतैर्बलैरेव बलिनः स्वार्थमिच्छता ।
आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम् ॥ १२.३२५.७४ ॥

因此,想成就自身目标的人,应当以这些力量,以正直去亲近强者,因为邪曲只会导致毁灭。

12.325.75

सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः ।
कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः ॥ १२.३२५.७५ ॥

女子啊,你应当如实说明你的出身、学识、品行、性情与本性,以及你前来的目的。

12.325.76

इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः ।
प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत ॥ १२.३२५.७६ ॥

王者以这些令人不快、不合宜、杂乱无章的话拒绝了她,但苏罗跋并未颤抖。

12.325.77

उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना ।
ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् ॥ १२.३२५.७७ ॥

国王说完这些话后,容颜秀美的苏罗跋开始说出更加优雅的言辞。

12.325.78

सुलभोवाच ।
नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः।
अपेतमुपपन्नार्थमष्टादशगुणान्वितम् ॥ १२.३२५.७८ ॥

苏罗跋说:没有九九之过、没有言语与智慧之失,有意义,并具备十八种美德的言辞。

12.325.79

सौक्ष्म्यं साङ्ख्यक्रमौ चोभौ निर्णयः सप्रयोजनः ।
पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप ॥ १२.३२५.७९ ॥

精微、数论次第两者,以及有目的的决断——这五者是义类;大王,这些称为「句」(vākya)。

12.325.80

एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां स्वलक्षणम् ।
शृणु संसार्यमाणानां पदार्थपदवाक्यतः ॥ १२.३२५.८० ॥

请听这些中每一者——精微等——的自相:它们依次经由词义、词与句而被考察。

12.325.81

ज्ञानं ज्ञेयेषु भिन्नेषु यदा भेदेन वर्तते ।
तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते ॥ १२.३२५.८१ ॥

当知识在相异的所知之中以分别而运作,且智慧在其中殊胜,这便称为精微。

12.325.82

दोषाणां च गुणानां च प्रमाणं प्रविभागतः ।
कंचिदर्थमभिप्रेत्य सा सङ्ख्येत्युपधार्यताम् ॥ १२.३२५.८२ ॥

过失与德性的量度,依次分别,为某一目的而设——应知此即「数」(saṅkhyā)。

12.325.83

इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम् ।
क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः ॥ १२.३२५.८३ ॥

「此先,此后」——所欲言者应当言之;通晓句者亦称此次第之组合为「句」(vākya)。

12.325.84

धर्मकामार्थमोक्षेषु प्रतिज्ञाय विशेषतः ।
इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः ॥ १२.३२५.८४ ॥

就法、欲、利、解脱特别立誓之后,在句末宣说「此即彼」——这便是决定之断。

12.325.85

इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते ।
तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते ॥ १२.३२५.८५ ॥

在贪欲与憎恶所生的痛苦达到极点之处,王啊,那里所行的行为便被认为是其目的。

12.325.86

तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप ।
एकार्थसमवेतानि वाक्यं मम निशामय ॥ १२.३२५.८६ ॥

人主啊,如所说的精微等诸德,都汇聚于同一义理。现在请听我的言语。

12.325.87

उपेतार्थमभिन्नार्थं न्यायवृत्तं न चाधिकम् ।
नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं ततः ॥ १२.३२५.८७ ॥

然后我将说出至上之言:意义明确而不分歧,合乎道理,不过多,不粗俗,无所疑惑。

12.325.88

न गुर्वक्षरसंयुक्तं पराङ्युखपदं न च ।
नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम् ॥ १२.३२५.८८ ॥

不夹杂沉重的音节,不含背离之词,不虚妄,不违背三目的,也不粗糙未经修饰。

12.325.89

न न्यूनं नष्टशब्दं वा व्युत्क्रमाभिहितं न च ।
सदोषमभिकल्पेन निष्कारणमहेतुकम् ॥ १२.३२५.८९ ॥

不残缺,不失词,不颠倒次序而说,不带过失,不由臆测虚构,不无因无由。

12.325.90

कामात्क्रोधाद्भयाल्लोभाद्दैन्याच्चानार्थकात्तथा ।
ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथंचन ॥ १२.३२५.९० ॥

因为欲望、愤怒、恐惧、贪婪、卑屈或无益之事,同样因为羞惭、怜悯或傲慢——我决不以任何方式说出。

12.325.91

वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप ।
स ममेति विवक्षायां तदा सोर्थः प्रकाशते ॥ १२.३२५.९१ ॥

国王啊,当说者、听者与言辞都完备,且怀着“这是我的”之念而欲言时,其义便显现。

12.325.92

वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते ।
स्वार्थमाह परार्थं तत्तदा वाक्यं न रोहति ॥ १२.३२५.९२ ॥

当应当言说之事时,说者若轻慢听者,只说自己的私利而非他人之利,那么这番话便不能生根。

12.325.93

अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः ।
विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत् ॥ १२.३२५.९३ ॥

即便是那舍弃自身私利而言他人之利的人,也会引起猜疑;因此他的言辞也变得有过失。

12.325.94

यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते ।
श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप ॥ १२.३२५.९४ ॥

然而,说者若能言辞无所冲突,既利于听者,也利于自己,国王啊,此人才是真正的说者,别人不是。

12.325.95

तदर्थवदिदं वाक्यमुपेतं वाक्यसंपदा ।
अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि ॥ १२.३२५.९५ ॥

国王啊,此言有义,且具备善言之美;您应以不散乱的心、专注地聆听。

12.325.96

काऽसि कस्य कुतो वेति त्वयाऽहमिति चोदिता ।
तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु ॥ १२.३२५.९६ ॥

若有人问你:“你是谁,属于谁,从何处而来?”其回答便是这样;国王啊,请专心一意地听。

12.325.97

यथा जतु च काष्ठं च पांसवश्चोदबिन्दवः ।
सुश्लिष्टानि तथा राजन्प्राणिनामिह संभवः ॥ १२.३२५.९७ ॥

如同漆、木、尘土与水滴紧密结合,大王啊,生命的起源便在此产生。

12.325.98

शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च ।
पृथगात्मा दशात्मानं संश्लिष्टा जतुकाष्ठवत्।
न चैषां चोदना काचिदस्तीत्येष विनिश्चयः ॥ १२.३२५.९८ ॥

声、触、味、色、香与五根,各自的我与十重之我,如漆与木般相连。对它们并无任何驱动,这便是确定的结论。

12.325.99

एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे ।
न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते ॥ १२.३२५.९९ ॥

此处每一者的知觉不在自我之中,在他者亦然。眼不知其自身的见之能力;耳不存在于自我之中。

12.325.100

तथैव व्यभिचारेण न वर्तन्ते परस्परम् ।
प्रश्लिष्टं च न जानन्ति यथाऽऽप इव पांवसः ॥ १२.३२५.१०० ॥

同样,由于偏离,它们彼此不相作用;虽然紧密相连,却彼此不知,正如尘埃微粒不识其所在之水。

12.325.101

वाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु ।
रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः ॥ १२.३२५.१०१ ॥

它们依赖外在及其他的性质;这些性质也请听我说。色、眼与光,是见的三个因。

12.325.102

यथैवात्र तथाऽन्येषु ज्ञानज्ञेयेषु हेतवः ।
ज्ञानज्ञेयांतरेतस्मिन्मनो नामापरो गुणः ॥ १२.३२५.१०२ ॥

如此处所示,他处亦然,因由存在于能知与所知之间。在知与可知之间,还有一种名为意的性质。

12.325.103

विचारयति येनायं निश्चये साध्वसाधुनी ।
द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः।
येंन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति ॥ १२.३२५.१०३ ॥

凭此人在决断中权衡善与不善,此处第十二种另一德性称为觉慧(buddhi)。凭此人在有疑之前、待知之事中作出决定。

12.325.104

अथ द्वादशके तस्मिन्सत्वं नामापरो गुणः ।
महासत्वोऽल्पसत्वो वा जन्तुयेनानुमीयते ॥ १२.३२५.१०४ ॥

现在,在那第十二种之中,还有另一德性名为萨埵(内在力量),凭此可推知生灵是大力还是小力。

12.325.105

क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत चतुर्दशः ।
ममायमिति येनायं मन्यते न ममेति च ॥ १२.३२५.१०५ ॥

另一德性名为刹多阇(知场者),其次是第十四。凭此人认为「这是我的」与「这不是我的」。

12.325.106

अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः ।
पृथक्कालसमूहस्य सामग्र्यं तदिहोच्यते ॥ १२.३२५.१०६ ॥

现在,大王,那里提到另一个第十五种德性:这里所说的是各别时间聚合的总和。

12.325.107

गुणस्त्वेकोऽपरस्तत्र संघात इति षोडशः ।
आकृतिर्व्यक्तिरित्येतौ गुणो यस्मिन्समाश्रितौ ॥ १२.३२५.१०७ ॥

另有一德性,即第十六,名为「聚合」(saṃghāta),形态与显现二者皆依托于此。

12.325.108

सुखासुखे जन्ममृत्यू लाभालाभौ प्रियाप्रिये ।
इति चैकोनर्विशोऽयं द्वन्द्वयोग इति स्मृतः ॥ १२.३२५.१०८ ॥

苦乐、生死、得失、爱与不爱:如此,这第十九种,即成对相对之结合,被如此记述。

12.325.109

ऊर्ध्वमेकोनर्विशत्या कालो नामापरो गुणः ।
इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् ॥ १२.३२५.१०९ ॥

超过二十,以二十九计,另有一种名为“时”的属性。应知:以二十而生灭众生。

12.325.110

विंशकश्चैव संघातो महाभूतानि पञ्च च ।
सदसद्भवायोगौ तु गुणावन्यौ प्रकाशकौ ॥ १२.३२५.११० ॥

第二十者亦为集合,五大元素亦然。而有与无的生起与结合,则是另外两种照明之德。

12.325.111

इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः ।
विधिः शुक्रं बलं चेति त्रय एते गुणाः परे ॥ १२.३२५.१११ ॥

如是二十与七,被称为诸德;命、精、力——此三者为最上之德。

12.325.112

एवं विंशच्च दश च कलाः संख्यानतः स्मृताः ।
समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम् ॥ १२.३२५.११२ ॥

如是二十与十之分,依数而述。众者俱在之处,即称为身。

12.325.113

अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति ।
व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति ॥ १२.३२५.११३ ॥

有人欲知此诸分的未显本性;另一以粗见者,则见其显现之相。

12.325.114

अव्यक्तं यदि वा व्यक्तं द्वयं वाऽथ चतुष्टयम् ।
प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः ॥ १२.३२५.११४ ॥

无论未显或已显,或二或四,修习内观者皆见一切众生之本性。

12.325.115

सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता ।
ततोऽहं त्वं च राजेन्द्र चे चाप्यन्ये शरीरिणः। ॥ १२.३२५.११५ ॥

此未显现的本性,借其诸分而得以显现。由此而有我、你,王中之王,以及其他有身之众生。

12.325.116

विन्दुन्यासादयोऽवस्थाः शुक्रशोणितसंभवाः ।
यासामेव निपातेन कललं नाम जायते ॥ १२.३२५.११६ ॥

自滴落之置入起的诸阶段,生于精与血。由其下降,便生出名为“羯罗罗”的阶段。

12.325.117

कललाद्बुद्बुदोत्पत्तिः पेशी वा बुद्बुदात्स्मृता ।
पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः ॥ १२.३२५.११७ ॥

由羯罗罗生出泡;或说由泡生出肉团。由肉团形成肢体,由肢体生出指甲与毛发。

12.325.118

संपूर्णे नवमे मासि जन्तोर्जातस्य मैथिल ।
जायते नामरूपत्वं स्त्रीपुमान्वेति लिङ्गतः ॥ १२.३२५.११८ ॥

满足第九个月之时,mithila啊,所生之众获得名与色;依其性相而成为女或男。

12.325.119

जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि ।
कौमारं रूपमापन्नं रूपवानुपलभ्यते ॥ १२.३२५.११९ ॥

见此初生之形,指甲与指头铜红色,有形之体便显现为已臻童稚之形。

12.325.120

कौमाराद्यौवनं चापि स्थावीर्यं चापि यौवनात् ।
अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते ॥ १२.३२५.१२० ॥

由童稚生出青年,由青年又得坚固之力。依此次第,先前的诸状态不可再得。

12.325.121

कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे ।
वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते ॥ १२.३२५.१२१ ॥

在时间的各个分段中,每一刻在一切众生身上都发生着变化,但因其细微而不可察觉。

12.325.122

न चैषामप्ययो राजँल्लक्ष्यते प्रभवो न च ।
अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः ॥ १२.३२५.१२२ ॥

大王,它们的进程与起源皆不可见;如同灯焰的摇动,它们在每一种状态中都在变化。

12.325.123

तस्याप्येवंप्रभावस्य सदश्वस्येव धावतः ।
अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः ॥ १२.३२५.१२३ ॥

即便对于那拥有如此威力、如良马般不停奔驰的存在,对于整个世界而言,它是谁?从何而来?或从何而不来?

12.325.124

कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः ।
संबन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह ॥ १२.३२५.१२४ ॥

这是谁的,或不是谁的?它从何而来,或从何而不来?在此,众生即便与自身的肢体之间,又有何种关联?

12.325.125

यथाऽऽदित्यान्मणेश्चापि वीरुद्भ्यश्चैव पावकः ।
जायन्त्येवं समुदयात्कलानामिह जन्तवः ॥ १२.३२५.१२५ ॥

犹如火从太阳、宝珠乃至草木中生起,此处众生亦从时间诸分段的生起而诞生。

12.325.126

आत्मन्येवात्मनाऽऽत्मानं यथा त्वमनुपश्यसि ।
एवमेवात्मनाऽऽत्मानमन्यस्मिन्किं न पश्यसि ॥ १२.३२५.१२६ ॥

你以自我于自我之中、借自我而见自我,为何不以同样的方式在他者之中见到自我?

12.325.127

यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि ।
अथ मां काऽसि कस्येति किमर्थमनुपृच्छसि ॥ १२.३२५.१२७ ॥

若你已在自己与他人之中确立了平等,为何还要问我是谁、属于谁?

12.325.128

इदं मे स्यादिदं नेति द्वन्द्वैर्मुक्तस्य मैथिल ।
काऽसि कस्य कुतो वेति वचनैः किं प्रयोजनम् ॥ १२.३२५.१२८ ॥

哦,弥提罗之子,对于已脱离二元对立的人,“这可以是我的”或“这不是我的”又有何意义?“你是谁,属于谁,从何而来”这类言语又有何用?

12.325.129

रिपौ मित्रेऽथ मध्यस्थे विजये सन्धिविग्रहे ।
कृतवान्यो महीपालः किं तस्मिन्मुक्तलक्षणम् ॥ १२.३२५.१२९ ॥

对于在敌人、朋友、中立者面前,在胜利、和战之中都保持平等之心的国王,解脱的标志是什么?

12.325.130

त्रिवर्गं सप्तधा न्यस्तं यो न वेदेह कर्मसु ।
सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम् ॥ १२.३२५.१३० ॥

对于在行动中不知三事(分为七类),且执著于三事者,解脱的标志是什么?

12.325.131

प्रिये वाऽप्यप्रिये वाऽपि दुर्बले बलवत्यपि ।
यस्य नास्ति समं चक्षुः किं तस्मिन्मक्तलक्षणम् ॥ १२.३२५.१३१ ॥

对于对可爱者或可厌者、弱者或强者不能一视同仁之人,解脱的标志是什么?

12.325.132

तदयुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप ।
सुहृद्भिः सन्निवार्यस्तेऽविरक्तस्येव भेषजम् ॥ १२.३२५.१३२ ॥

因此,国王啊,你尚未在瑜伽中确立,你心中关于解脱生起的傲慢,应当由朋友们加以制止,犹如良药之于未离欲者。

12.325.133

तानि तान्यनुसंदृश्य सङ्गस्थानान्यरिंदम् ।
आत्मनाऽऽत्मनि संपश्य किमन्यन्मुक्तलक्षणम् ॥ १२.३२५.१३३ ॥

汝,降敌者啊,仔细审察那些执着的处所,以自己在自己之中看见自己;解脱的标志还有什么别的?

12.325.134

इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य केनचित् ।
चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु ॥ १२.३२५.१३४ ॥

依托解脱,人可以知道这些以及其他细微的执着之处,它们通过四支而运作;请听我说。

12.325.135

य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह ।
एकमेव स वै राजा पुरमध्यावसत्युत ॥ १२.३२५.१३५ ॥

统治整个大地、大权独揽的国王,只居住在一座城中。

12.325.136

तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति ।
गृहे शयनमप्येकं निशायां यत्र लीयते ॥ १२.३२५.१३६ ॥

在那座城中,他只有一处所居之屋;在那屋中,夜里休息只有一张床,他便在那里安歇。

12.325.137

शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति ।
तदनेन प्रसङ्गेन फलेनाल्पेन युज्यते ॥ १२.३२५.१३७ ॥

他床的一半也首先由女人占据;因这种牵连,他便与微小的果报相连。

12.325.138

एवमेवोपभोगेषु भोजनाच्छादनेषु च ।
गुणेष्वपरिमेयेषु निग्रहानुग्रहं प्रति ॥ १२.३२५.१३८ ॥

同样,在享受、饮食衣服、无量的品德之中,以及对惩罚与恩惠,也有执着。

12.325.139

परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते ।
सन्धिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता ॥ १२.३२५.१३९ ॥

国王常常受制于人;即使是小事,他也会受到牵制。那么在和战之事上,国王又哪有自主之权?

12.325.140

स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता ।
मन्त्रे चामात्यसहिते कुतस्तस्य स्वतन्त्रता ॥ १२.३२५.१४० ॥

即使在与女子嬉戏游乐之时,他也从未自由;那么在与大臣共商之时,他又何来自主?

12.325.141

यदा ह्याज्ञापयत्यन्यांस्तत्रास्योक्ता स्वतन्त्रता ।
अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः ॥ १२.३२५.१४१ ॥

只有当他向他人发号施令时,才可说他在那里有自主;然而,他被置于每一种职分之中,便被迫违心而行。

12.325.142

स्वप्नकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः ।
शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः ॥ १२.३२५.१४२ ॥

他想睡觉却无法入睡,因为有所求的人不让他安睡;即使在床榻上得到允许,入睡的他也会被违心地唤醒。

12.325.143

स्नाह्यालभ पिब प्राश जुहुध्यगीन्यजेत्यपि ।
वदस्व शृणु चापीति विवशः कार्यते परैः ॥ १२.३२५.१४३ ॥

“沐浴、触碰、饮用、进食、向诸火献祭、行祭祀”,“言说、聆听”——如此,他无力自主,被他人驱使而行。

12.325.144

अभिगम्याभिगम्यैवं याचन्ते सततं नराः ।
न चाप्युत्सहते दातुं वित्तरक्षी महाजनान् ॥ १२.३२५.१४४ ॥

如此,人们一再上前,不断乞求;可是掌管财富的君王,连给予贤达之人也不敢。

12.325.145

दाने कोशक्षयोऽप्यस्य वैरं चास्य प्रयच्छतः ।
क्षणेनास्योऽपवर्तन्ते दोषा वैराग्यकारकाः ॥ १२.३२५.१४५ ॥

施舍使他的库藏耗尽,也使施予者心生仇恨;但刹那之间,那些令人厌离的过失便从他身上离去。

12.325.146

प्राज्ञाञ्शूरांस्तथा वैद्यानेकस्थानपि शङ्कते ।
भयमप्यनये राज्ञो यैश्च नित्यमुपास्यते ॥ १२.३२५.१४६ ॥

国王怀疑智者、勇士、医师,甚至那些只居一职的人;他也恐惧那些时常侍奉他的人会带来祸患。

12.325.147

तथा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया ।
तथैवास्य भयं तेभ्यो जायते पश्य यादृशम् ॥ १२.३२५.१४७ ॥

正如我在君王中所说,这些人也会堕落;由此他也会产生同样的恐惧——看看那是怎样的恐惧。

12.325.148

सर्वः स्वेस्वे गृहे राजा सर्वः स्वेस्वे गृहे गृही ।
निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः ॥ १२.३२५.१४८ ॥

每个家主在自己的家中都是国王,每个持家者在自己的家里都是国王;施行惩罚与恩惠的他,啊遮那迦,与君王相等。

12.325.149

पुत्रा दारास्तथैवात्मा कोशो मित्राणि संचयाः ।
परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः ॥ १२.३२५.१४९ ॥

儿子、妻子,以及自身、库藏、朋友和积蓄——这些都与他人共有;正因这些缘由,它们也属于他。

12.325.150

हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः ।
लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते ॥ १२.३२५.१५० ॥

国土被毁,城池被焚,主象已死——对于这些世间共有之事,他因虚妄的认知而自我折磨。

12.325.151

अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः ।
शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः ॥ १२.३२५.१५१ ॥

他不能免于由欲望、憎恶与所爱而生的心中之苦,也不能免于头痛等疾病,以及同样使人倾覆的灾难。

12.325.152

द्वन्द्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः ।
बहुभिः प्रार्थितं राज्यमुपास्ते गणयन्निशाः ॥ १२.३२५.१५२ ॥

被对立之双、种种苦恼所困扰,四面皆怀忧惧,他侍奉着众人所求的王国,数着夜晚。

12.325.153

तदल्पसुखमत्यर्थं बहुदुःखमसारवत् ।
तृणाग्निज्वलनप्रख्यं फेनबुद्बुदसंनिभम् ॥ १२.३२५.१५३ ॥

那王国带来的快乐极少,痛苦极多,没有实质;如草火的火焰,如泡沫与水泡。

12.325.154

को राज्यमभिपद्येत प्राप्य चोपशमं लभेत् ।
ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे ॥ १२.३२५.१५४ ॥

谁得到王国之后能获得平静呢?你认为:“这是我的,这城市和王国是我的。”

12.325.155

बलं कोशममात्यांश्च कस्यैतानि न वा नृप ।
मित्रामात्यपुरं राष्ट्रं दण्डः कोशो महीपतिः ॥ १२.३२५.१५५ ॥

军队、府库、大臣,这些究竟属于谁,王啊,还是谁也不属?盟友、大臣、城市、国土、刑罚、府库与君主,又属于谁?

12.325.156

सप्ताङ्गश्चैष सङ्घातो राज्यमित्युच्यते नृप ।
सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः।
अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः ॥ १२.३२५.१५६ ॥

王啊,这七支组成的整体被称为王国。在这如三重杖般矗立、彼此具有对方之德的七支王国中,谁在何德上胜过谁?

12.325.157

तेषुतेषु हि कालेषु तत्तदङ्गं विशिष्यते ।
येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते ॥ १२.३२५.१५७ ॥

在不同的时候,各个肢体各自突出。凭借何者事业得以成就,何者便适合居于首要。

12.325.158

सप्ताङ्गश्चैव संघातस्त्रयश्चान्ये नृपोत्तम ।
संभूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत् ॥ १२.३२५.१५८ ॥

诸王之最,七支之聚合与其他三者结合成此十分之群,它如同国王一般享有国土。

12.325.159

यश्च राजा महोत्साहः क्षत्रधर्मे रतो भवेत् ।
स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः ॥ १२.३२५.१५९ ॥

若有大志、专注于刹帝利之法的国王,应以十分之一而满足;另一位则以更小的十分之一而满足。

12.325.160

नास्त्यसाधारणो राजा नास्ति राज्यमराजकम् ।
राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम् ॥ १२.३२५.१६० ॥

没有不平凡的国王,也没有无王的国家。无国,何来法?无法,何来至善?

12.325.161

योप्यत्र परमो धर्मः पवित्रं राजराज्ययोः ।
पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते ॥ १२.३२५.१६१ ॥

此处的至上之法,乃是净化国王与国家的;以大地为布施者,别无可与马祭相比者。

12.325.162

साऽहमेतानि कर्माणि राजदुःखानि मैथिल ।
समर्था शतशो वक्तुमथवाऽपि सहस्रशः ॥ १२.३२५.१६२ ॥

迷提罗之王啊,关于这些令国王受苦的事务,我能够用成百上千种方式来讲述。

12.325.163

स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे ।
न मामेवंविधां युक्तामीदृशं वक्तुमर्हसि ॥ १२.३२५.१६३ ॥

我对自己的身体并无执着,对他人所有之物又何来执着?像我这样的人,你不应当这样对我说。

12.325.164

ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः ।
सोपायः सोपनिषदः सोपसङ्गः सनिश्चयः ॥ १२.३२५.१६४ ॥

你必定从般遮尸诃那里完整地听过解脱之道,包括其方法、奥义、途径与确定。

12.325.165

तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः ।
छत्रादिषु विशेषेषु पुनः सङ्गः कथं नृप ॥ १२.३२५.१६५ ॥

大王啊,你已摆脱执着,超越了羁绊而立于世,为何又会在华盖等王家标志这些差别之物上生起执着呢?

12.325.166

श्रुतं ते न श्रुतं मन्ये मृषा वाऽपि श्रुतं श्रुतम् ।
अथवा श्रुतसंकाशं श्रुतमन्यच्छ्रुतं त्वया ॥ १२.३२५.१६६ ॥

我想你所听闻的,其实并未真正听闻;或者你听闻的是虚妄之言,或者听到的是与所闻相似的别的东西——无论你听到的是什么。

12.325.167

अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसे ।
अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा ॥ १२.३२५.१६७ ॥

然而你仍安住于这些世俗的名称之中;被执着与障碍所缚,你就如同一个普通人。

12.325.168

सत्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया ।
किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वशः ॥ १२.३२५.१६८ ॥

我借由悉多(善性)使你进入此境,若你已完全解脱,这于你有何损害呢?

12.325.169

नियमो ह्येषु धर्मेषु यतीनां शून्यवासिता ।
शून्यमावासयन्त्या च मया किं कस्य दूषितम् ॥ १२.३२५.१६९ ॥

在这些法中,苦行者的规定是居于空寂之处。我使她居于空处,对谁有何污染?

12.325.170

न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ ।
न गात्राक्यवैरन्यैः स्पृशामि त्वां नराधिप ॥ १२.३२५.१७० ॥

无罪者啊,人王啊,我不以手,不以臂,不以脚与大腿,也不以肢体、眼睛或其他部位触碰你。

12.325.171

कुले महति जातेन ह्रीमता दीर्घदर्शिना ।
नैतत्सदसि वक्तव्यं सद्वाऽसद्वा मिथः कृतम् ॥ १२.३२५.१७१ ॥

出生于高贵家族、知羞耻、有远见的人,不应在众人之中说出彼此之间所做的事,无论好坏。

12.325.172

ब्राह्मणा गुरवश्चेमे तथा मान्या गुरूत्तमाः ।
त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम् ॥ १२.३२५.१७२ ॥

这些婆罗门和师长,以及同样受尊敬的至上师长,而你也是他们的老师;如此便有彼此的尊重。

12.325.173

तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता ।
स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि ॥ १२.३२५.१७३ ॥

因此,你应当如此思量,权衡何言何不言,不应在众人之中说出这男女之合。

12.325.174

यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् ।
तिष्ठत्यस्पृशती तद्वत्त्वपि वत्स्यामि मैथिल ॥ १२.३२५.१७४ ॥

犹如荷叶上的水停留在叶上而不触及叶子,同样,哦,弥提罗王,我也将留住。

12.325.175

यदि चाद्य स्पृशन्त्या मे स्पर्शं जानासि कंचन ।
ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा ॥ १२.३२५.१७५ ॥

若今日你触及我的触碰而有所知,你的智慧便是无种子的;那么你如何与这位乞士在此同住?

12.325.176

स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं चानाप्य दुर्विदम् ।
उभयोरन्तराले वै वर्तसे मोक्षवादिकः ॥ १२.३२५.१७६ ॥

你既已从居家生活中堕落,又未得难以知晓的解脱,便停留在二者之间,只谈论解脱。

12.325.177

न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः ।
भावाभावसमायोगे जायते वर्णसंकरः ॥ १२.३२५.१७७ ॥

因为当解脱者与解脱者相处,智者处于一性或异性之中,有与无相结合时,并不会产生种姓混乱。

12.325.178

वर्णाश्रमाः पृथक्त्वेन दृष्टार्थस्यापृथक्त्वतः ।
नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्र वर्तते ॥ १२.३२५.१७८ ॥

种姓与人生阶段看似各自分离;但对见到真义者而言,它们并不分离。知道“此是别者,彼是别者”,别者便不存在于他处。

12.325.179

पापौ कुण्डं तथा कुण्डे पयः पयसि मक्षिका ।
आश्रिताश्रययोगेन पृथक्त्वेनाश्रिताः पुनः ॥ १२.३२५.१७९ ॥

罐中有乳,乳中有蝇——也是如此;通过所依与能依的结合,它们又作为分别者而相依。

12.325.180

न तु कुण्डे पयोभावः पयश्चापि न मक्षिका ।
स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम् ॥ १२.३२५.१८० ॥

然而罐中既无乳之状态,也无乳,亦无蝇;这些状态自己依附自己,而非依他人之依。

12.325.181

पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च ।
परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः ॥ १२.३२५.१८१ ॥

既然各个生活阶段彼此分立,各种姓(瓦尔纳)各不相同,且相互区隔,他们之间又怎会有种姓混杂?

12.325.182

नास्मि पर्णोत्तमा जात्या न वैश्या नावरा तथा ।
तव राजन्सवर्णाऽस्मि शुद्धयोनिरविप्लुता ॥ १२.३२५.१८२ ॥

我既非出身最高贵,也非吠舍女子,亦非出身低贱。大王啊,我与您同属一种姓,出身清净,毫无瑕疵。

12.325.183

प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।
कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् ॥ १२.३२५.१८३ ॥

名为普罗丹那的王仙,想必已传入您的耳中。请知道我名叫苏拉芭,生于他的家族。

12.325.184

द्रोणश्च शतशृङ्गश्च वक्रद्धारश्च पर्वतः ।
मम सत्रेषु पूर्वेषां चिता मघवता सह ॥ १२.३२५.१८४ ॥

德罗纳、百峰与曲门三座山——在我祖先的祭祀会上,那里与因陀罗一同建起了祭火坛。

12.325.185

साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे ।
विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम् ॥ १२.३२५.१८५ ॥

我生于那个家族,是像我这样丧夫的女子,受教于解脱之法,独自践行修行者的誓愿而行走。

12.325.186

नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी ।
न धर्मसंकरकरी स्वधर्मेऽस्मि दृढव्रता ॥ १२.३२५.१८६ ॥

我并非藏身于祭祀之中而来,也非贪慕他人财物之人,更不会造成法的混杂。我于自己的法中坚定立誓。

12.325.187

नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्य प्रवादिनी ।
नासमीक्ष्यागता चेह त्वत्सकाशं जनाधिप ॥ १२.३२५.१८७ ॥

人主啊,我在自己的誓言中并不动摇,也不是不加思索就说话的人,更不是不加思索就来到你面前的。

12.325.188

मोक्षे ते भावितां बुद्धिं श्रुत्वाऽहं कुशलैषिणी ।
तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता ॥ १२.३२५.१८८ ॥

我听闻你在解脱中培养的智慧,心中希望你安好,因此为了探问你这解脱之事而来到此地。

12.325.189

न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः ।
मुक्तो विमुच्यते यश्च शान्तौ यश्च न शाम्यति ॥ १२.३२५.१८९ ॥

我说这话并非站在任何阵营之中,无论是己方还是对方。已解脱者便得解脱;而身处寂静者却并不平静。

12.325.190

यथा शून्ये पुराऽगारे भिक्षुरेकां निशां वसेत् ।
तथाऽहं त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम् ॥ १२.३२५.१९० ॥

就像乞食的僧人在一座空荡的旧屋里住一夜,我也将在你的这个身体里度过这一夜。

12.325.191

साऽहं मानप्रदानेन वागातिथ्येन चार्चिता ।
सुप्ता सुशरणं प्रीता श्वो गमिष्यामि मैथिल ॥ १२.३२५.१९१ ॥

我因你给予的敬意和言语的款待而受到尊重,在良好的庇护之处安睡,心中欢喜。迷提罗之王啊,明日我将离去。

12.325.192

इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च ।
श्रुत्वा नाधिजगौ राजा किंचिदन्यदतः परं ॥ १२.३२५.१९२ ॥

国王听了这些有道理、有意义的话,此后便不再说别的什么了。