摩诃婆罗多 · 章 12.329
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.329.1
कथं निर्वेदमापन्नः शुको वैयासकिः पुरा ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥ १२.३२९.१ ॥
往昔毗耶娑之子shuka如何达到了离欲?我愿意听闻,因为我心中极为好奇。
12.329.2
प्राकृतेनैव वृत्तेन चरन्तमकुतोभयम् ।
अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् ॥ १२.३२९.२ ॥
父亲教授了儿子全部的吠陀诵习,那儿子以寻常行为游走,无所畏惧,父亲于是教导他。
12.329.3
धर्मं पुत्र निपेवस्व सुतीक्ष्णौ च हिमातपौ ।
क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः ॥ १२.३२९.३ ॥
儿啊,亲近法;忍受酷寒与酷热、饥渴与风。常以克制诸根而取胜。
12.329.4
सत्यमार्जवमक्रोधमनसूयां दमं तपः ।
अहिंसां चानृशंस्यं च विधिवत्परिपालय ॥ १२.३२९.४ ॥
真实、正直、不怒、不嫉、克制、苦行、不害与仁慈——依法而完整地奉行之。
12.329.5
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् ।
देवतातिथिशेषेण यात्रां प्राणस्य संलिह ॥ १२.३२९.५ ॥
安住于真实,乐于法,舍弃一切邪曲;只以供奉诸天与宾客之后所余之食,维持生命之旅。
12.329.6
फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते ।
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ॥ १२.३२९.६ ॥
此身不过如泡沫,众生寄居其中如飞鸟;与所爱相聚亦是无常。儿啊,你怎么还睡得着?
12.329.7
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु ।
अन्तरं लिप्यमानेषु बालस्त्वं नावबुध्यसे ॥ १२.३२९.७ ॥
在警觉、清醒、时刻准备的敌人中,他们正在寻找空隙,而你却像孩子一样毫无察觉。
12.329.8
अहःसु गण्यमानेषु क्षीयमाणे तथाऽऽयुषि ।
जीविते लिख्यमाने च किमुत्थाय न धावसि ॥ १२.३२९.८ ॥
days被计数,寿命减少,生命被记录之时,你为何不起身奔走?
12.329.9
ऐहलौकिकनीहन्ते मांसशोणितवर्धनम् ।
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः ॥ १२.३२९.९ ॥
那些为今世而努力、追求增长血肉之物,在来世之事上沉睡的人,都是彻底的无信者。
12.329.10
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः ।
अपथा गच्छतां तेषामनुयाताऽपि पीड्यते ॥ १२.३२९.१० ॥
被智慧迷惑的人若诽谤法,便走上邪路;即使跟随他们的人也会受苦。
12.329.11
ये तु तुष्टाः श्रुतिपरा महात्मानो महाबलाः ।
धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च ॥ १२.३२९.११ ॥
但要侍奉并请教那些知足、专心于圣典、伟大而强大、已登上正道的人。
12.329.12
उपधार्य मतं तेषां बुधानां धर्मदर्शिनाम् ।
नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै ॥ १२.३२९.१२ ॥
思量那些洞见法的智者的意见,以无上的智慧约束那倾向于走入邪途的心。
12.329.13
आद्यकालिकया बुद्ध्या दूरेश्च इति निर्भयाः ।
सर्वभक्ष्या न पश्यन्ति कर्मभूमिमचेतसः ॥ १२.३२९.१३ ॥
以远古的智慧而无所畏惧、吞食一切的人,看不见行动之地;他们昏昧无知。
12.329.14
धर्मं निःश्रेणिमास्थाय किंचित्किंचित्समारुह ।
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे ॥ १२.३२९.१४ ॥
登上法的梯子,一点一点向上攀登;像蚕一样缠绕自身的你,并不觉察。
12.329.15
नास्तिकं भिन्नमर्यादं कूलपातमिव स्थितम् ।
वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धृतम् ॥ १२.३२९.१५ ॥
对那已经破坏界限、像将要崩塌的河岸般站立的无神论者,应当安心地向左避开,如同避开被连根拔起的竹子。
12.329.16
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥ १२.३२९.१६ ॥
以坚定为舟,渡过充满欲望与愤怒之鳄、五根之水的河流,越过生的重重险关。
12.329.17
मृत्युनाऽभ्याहते लोके जरया परिपीडिते ।
अमोघासु पतन्तीषु धर्मयानेन संतर ॥ १२.३२९.१७ ॥
在这个被死亡击中、被衰老折磨的世界里,当不会落空的箭雨落下时,应当乘法之车渡过。
12.329.18
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा ।
निर्वृत्तिं लभते कस्मादकस्मान्मृत्युनाऽशितः ॥ १२.३२९.१८ ॥
当死亡寻找站立的和躺卧的人时,人怎能得到安宁?突然被死亡吞噬的人,怎能安然?
12.329.19
संचिन्वानकमेवैनं कामानामवितृप्तकम् ।
वृकीवोरणमासाद्य मृत्युरादायं गच्छति ॥ १२.३२९.१९ ॥
此人积聚欲望,永不满足,死亡便如母狼遇到绵羊,将其攫走而去。
12.329.20
क्रमशः संचितशिखो धर्मबुद्धिमयो महान् ।
अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् ॥ १२.३२९.२० ॥
伟大的灯,火焰逐渐积聚,由法智所成;当将要进入黑暗时,应当努力地把它拿稳。
12.329.21
संपतन्देहजालानि कदाचिदिह मानुषे ।
ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय ॥ १२.३२९.२१ ॥
在身体之网中坠落,众生有时在此人身中获得婆罗门的地位;因此,儿子啊,好好守护它。
12.329.22
ब्राह्मणस्य तु देहोऽयं न कामार्थाय जायते ।
इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम् ॥ १२.३२९.२२ ॥
婆罗门的此身并非为欲望与财富而生;在此是为辛劳与苦行,死后则为无比的快乐。
12.329.23
ब्राह्मण्यं बहुभिरवाप्यते तपोभि ।
स्तल्लब्ध्वा न रतिपरेण हेलितव्यम्।
स्वाध्याये तपसि दमे च नित्ययुक्तः ।
मोक्षार्थी कुशलपरः सदा यतस्व ॥ १२.३२९.२३ ॥
婆罗门之位需经无数苦行方能获得。既已得之,沉溺享乐者不可轻忽。应常专心于诵习、苦行与克制,求解脱,向善,恒常努力。
12.329.24
अव्यक्तप्रकृतिरयं कलाशरीरः ।
सूक्ष्मात्मा क्षणत्रुटिका निमेषरोमा।
यानेतत्समबलशुक्लकृष्णनेत्रो ।
मासाङ्गो द्रवति वयोहयो नराणाम् ॥ १२.३२९.२४ ॥
此无形之性,以时分为身,细微为我,以刹那与瞬息为肢体,以眨眼为毛发,白黑两目力量相等,以月为肢体——人之年寿这匹马便如此奔逝。
12.329.25
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं ।
गच्छन्तं सततमिहान्ववेक्षमाणम्।
यक्षुस्ते यदि न परप्रणेतृनेयं ।
धर्मे ते रमतु मनः परं निशाम्य ॥ १२.३२९.२५ ॥
见其不息蔓延、猛烈疾行,常在此处行走而被观察;若你想知道什么不受他人引导,那就让你的心理解至高之道,在法中欢喜。
12.329.26
येऽमी तु प्रचलितधर्मकामवृत्ताः ।
क्रोशन्तः सततमनिष्टसंप्रयोगात्।
क्लिश्यन्तः परिगतवेदनाशरीरा ।
बह्वीभिः सुभृशमधर्मवागुराभिः ॥ १२.३२९.२६ ॥
然而那些行为偏离法与欲的人,因与不愿之物相合而不断哀嚎、受苦;身体为痛苦所笼罩,他们被众多非法的罗网牢牢缚住。
12.329.27
राजा सदा धर्मपरः शुभाशुभस्य गोप्ता ।
समीक्ष्य सुकृतिनां दधाति लोकान्।
बहुविधमपि चरति प्रविशति ।
सुखमनुपगतं निरवद्यम् ॥ १२.३२९.२७ ॥
国王常以法为务,是善与恶的守护者;观察善人后,便把诸世界赐予他们。他以多种方式行走,进入从未达到的无过之乐。
12.329.28
श्वानो भीषणकाया अयोमुखानि वयांसि ।
बलगृध्रकुररपक्षिणां च संघातम्।
नरकदने रुधिरपा गुरुवचन ।
नुदमुपरतं विशन्त्यसन्तः ॥ १२.३२९.२८ ॥
身形可怖的狗,铁喙的鸟,强健的秃鹫、鹗和鸟群,在地狱折磨中饮血之辈,远离师长之言的人——恶人便进入其中。
12.329.29
मर्यादा नियताः स्वयम्भुवा य इहेमाः ।
प्रभिनत्ति दश गुणा मनोऽनुगत्वात्।
निवसति भृशमसुखं पितृविषय ।
विपिनमवगाह्य स पापः ॥ १२.३२९.२९ ॥
凡破坏这里由自生者所定之界限的人,因随从心意,他的十种德行便被毁坏;那罪人进入祖灵界的一片森林,久居于极大的痛苦之中。
12.329.30
यो लुब्ध सुभृशं प्रियानृतश्च मनुष्यः ।
सततनिकृतिवञ्चनाभिरतिः स्यात्।
उपनिधिभिरसुखकृत्स परमनिरयगो ।
भृशमसुखमनुभवति दुष्कृतकर्मा ॥ १२.३२९.३० ॥
那贪婪至极、喜爱悦耳谎言、时常以欺骗诈取为乐、借托付之物使他人受苦的人,这作恶之人将堕入最深的地狱,承受极大的痛苦。
12.329.31
उष्णां वैतरणीं महानदीमव ।
गाढोऽसिपत्रवनभिन्नगात्रः।
परशुवनशयोनिपतितो ।
वसति च महानिरये भृशार्तः ॥ १२.३२९.३१ ॥
他沉入灼热的大河毗罗尼,身体在剑叶林中被刺穿;倒卧在斧林之中,于大地狱中居住,极度痛苦。
12.329.32
महापादनि कत्थसे न चाप्यवेक्षसे परम् ।
चिरस्य मृत्युकारिकामनागतां न बुध्यसे ॥ १२.३२९.३२ ॥
你夸耀自己的大脚,却不向远处看;长久以来正在到来的死亡之因,你并不明白。
12.329.33
प्रयस्यतां किमास्यते समुत्थितं महद्भयम् ।
अतिप्रमार्थि दारुणं सुखस्य संविधीयताम् ॥ १२.३२९.३३ ॥
努力吧!你为何坐着不动?巨大的恐惧已经升起,可怕地摧毁着幸福;应当为幸福做好安排。
12.329.34
पुरा मृतः प्रणीयसे यमस्य राजशासनात् ।
त्वमन्तकाय दारुणैः प्रयत्नमार्जवे कुरु ॥ १२.३२९.३४ ॥
你如同已死之人,被阎摩的王命所带走;你应当以正直之心,为那终结者(阎摩)付出可怕的努力。
12.329.35
पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् ।
कियत्तवेह जीवितं यमे न चास्ति वारकः ॥ १२.३२९.३५ ॥
主宰者(阎摩)不知悲痛,过去曾将亲族连根带走;你在此处还剩多少生命?在阎摩面前,也无人能阻拦。
12.329.36
पुरा विवाति मारुतो यमस्य यः पुरःसरः ।
पुरैक एव नीयसे कुरुष्व सांपरायिकम् ॥ १२.३२९.३६ ॥
走在阎摩之前的风已经吹起。你将独自被带走;因此要为来世作准备。
12.329.37
पुरा स एक एव ते प्रवाति मारुतोऽन्तकः ।
पुरा च विभ्रमन्ति ते दिशो महाभयागमे ॥ १२.३२९.३७ ॥
那终结者之风已为你而吹。大恐惧来临时,你的方向已然眩乱。
12.329.38
श्रुतिश्च सन्निरुध्यते पुरा तवेह पुत्रक ।
समाकुलस्य गच्छतः समाधिमुत्तमं कुरु ॥ १२.३२९.३८ ॥
儿啊,你的听觉在此已经被阻断。你在慌乱中前行,应当修得至上的三摩地。
12.329.39
शुभाशुभे पुरा कृते प्रमादकर्मविप्लुते ।
स्मरन्पुराऽनुतप्यसे निधत्स्व केवलं निधिम् ॥ १२.३२९.३९ ॥
先前所作的善恶之业,被放逸之行搅乱,你将回想并预先悔恨。只需积存唯一的宝藏。
12.329.40
पुरा जरा कलेवरं विजर्झरीकरोति ते ।
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् ॥ १२.३२९.४० ॥
衰老已经使你的身体朽坏衰弱,夺去你的力量、肢体与容貌。只需积存唯一的宝藏。
12.329.41
पुरा शरीरमन्तको भिनत्ति रोगसायकैः ।
प्रसह्य जीवितक्षये तपो महत्समारभ ॥ १२.३२९.४१ ॥
终结者已用病箭射穿你的身体。在生命耗尽之前,应有力地修行伟大的苦行。
12.329.42
पुरा वृका भयंकरा मनुष्यदेहगोचराः ।
अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने ॥ १२.३२९.४२ ॥
往昔,徘徊于人体范围之内的可怖群狼从四面八方扑来。啊,德行高尚者,努力吧。
12.329.43
पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै ।
पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि ॥ १२.३२९.४३ ॥
往昔你独自望见黑暗,故当速行。往昔你在山巅望见金色的山岳。
12.329.44
पुरा कुसङ्गतानि ते सुहृन्मुखाश्च शत्रवः ।
विचालयन्ति दर्शनाद्धटस्व पुत्र यत्परम् ॥ १२.३२९.४४ ॥
往昔你的恶友与披着朋友面孔的敌人,使你动摇而失去所见。啊,儿子,努力追求至上之道。
12.329.45
धनस्य यस्य राजतो भयं न चास्ति चोरतः ।
मृतं च यन्न मुञ्चति समार्जयस्व तद्धनम् ॥ १२.३२९.४५ ॥
应当好好积累那种既不怕君王、也不怕盗贼,甚至死时也不会离去的财富。
12.329.46
न तत्र संविभज्यते स्वकर्मभिः परस्परम् ।
यदेव यस्य यौतकं तदेव तत्र सोऽश्नृते ॥ १२.३२९.४६ ॥
在那里,并不因各自的业而相互分享;谁所拥有的,他在那里便享受那一份。
12.329.47
परत्र तेन जीव्यते तदेव पुत्र जीयताम् ।
धनं यदक्षरं ध्रुवं समार्जयस्व तत्स्वयम् ॥ १२.३२९.४७ ॥
在来世,人正是靠它而生活。啊,儿子,就去赢得它吧。你自己应当好好积累那不朽而恒久的财富。
12.329.48
न यावदेव पच्यते महाजनस्य यावकम् ।
अपक्व एव यावके पुरा प्रलीयते त्वरम् ॥ १२.३२९.४८ ॥
在大人物的麦粥煮熟之前,那尚未煮熟的粥便迅速消散了。
12.329.49
न मातृपुत्रबान्धवा न संस्तुतः प्रियो जनः ।
अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम् ॥ १२.३२९.४९ ॥
母亲、儿子、亲属、熟人或所爱之人,在危难中都不会跟随独自前行的人。
12.329.50
यदेव कर्म केवलं पुराकृतं शुभाशुभम् ।
तदेव पुत्र यौतकं भवत्यमुत्र गच्छतः ॥ १२.३२९.५० ॥
儿啊,只有先前所做的善恶之业,才会伴随前往来世的人。
12.329.51
हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः ।
न तस्य देहसंक्षये भवन्ति कार्यसाधकाः ॥ १२.३२९.५१ ॥
以善恶之业积累的金银珠宝,在身体毁坏之时,已不能为他成就所需之事。
12.329.52
न पुत्र शान्तिरस्ति ते कृताकृतस्य कर्मणः ।
न साक्षिकोऽऽत्मना समो नृणामिहास्ति कश्चन ॥ १२.३२९.५२ ॥
儿啊,对于所做与未做之业,你不会得到安宁;在此世间,人没有比自己的内心更相称的见证者。
12.329.53
मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः ।
प्रविश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वशः ॥ १२.३२९.५३ ॥
对于脱去人身、前往来世之人,它便显现;以智慧之眼深入观察,便能全然看见。
12.329.54
इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः ।
त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः ॥ १२.३२९.५४ ॥
此处,居于身体之中的火、日、风这三者,便是他的见证;他们是洞见法(dharma)的人。
12.329.55
अहनिंशेषु सर्वतः स्पृशत्सु सर्वचारिषु ।
प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय ॥ १२.३२९.५५ ॥
无论昼夜,遍布各处,在一切行动的众生之中,在行为显露或隐秘的人们之间,你只须守护自己的法。
12.329.56
अनेकपारिपान्थके विरूपरौद्रमक्षिके ।
स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति ॥ १२.३२९.५६ ॥
在那多条道路、布满可怖丑陋苍蝇的地方,只守护你自己的业;在那里,唯有自己的业随之而去。
12.329.57
न तत्र संविभज्यते स्वकर्मभिः परस्परम् ।
तथा कृतं स्वकर्मजं तदेव भुज्यते फलम् ॥ १२.३२९.५७ ॥
在那里,果报不会因各自的业而彼此分享;所作之业,所生之果,唯有自己承受。
12.329.58
यथाऽप्सरोगणाः फलं सुखं महर्षिभिः सह ।
तथाऽऽप्नुवन्ति कर्मजं विमानकामगामिनः ॥ १२.३२९.५८ ॥
如同天女群与大仙们一起获得由业所生的果报与安乐,那些乘坐天车随意往来的人,也同样获得由业所生者。
12.329.59
यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः ।
तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः ॥ १२.३२९.५९ ॥
如同此处,无罪且心性自制者所行的善业,便可获得,同样,出身清净的人也能获得这善果。
12.329.60
प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः ।
व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः ॥ १२.३२९.६० ॥
他们获得与生主、布利哈斯帕蒂和百祭者因陀罗同居之境界;借助居家法之桥梁,他们抵达至高之境。
12.329.61
सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे ।
अबुद्धिमोहनं पुनः प्रभुस्तु तेन पावकः ॥ १२.३२९.६१ ॥
我们愿以千百种方式、多种形式来阐述此事;迷惑无智者的主宰,还是他,由他而有火(生起)。
12.329.62
गता त्रिरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः ।
कुरष्व धर्मसंचयं वयो हि तेऽतिवर्तते ॥ १२.३२९.६२ ॥
三个八年已经过去,你确实已二十五岁。积累法之财富吧,因为你的年寿确实在流逝。
12.329.63
पुरा करोति सोऽन्तकः प्रमादगोमुखां चमूम् ।
यथागृहीतमुत्थितस्त्वरस्व धर्मपालने ॥ १२.३२९.६३ ॥
在此之前,那终结者(死亡)以放逸为面的军队已然整备;如持械而起者一般起身,急速护持法。
12.329.64
यथा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि ।
तथा गतिं गमिष्यतः किमात्मना परेण वा ॥ १२.३२९.६४ ॥
正如你如今在后,之后你将走在前;对于将要前往之人的归途,应当为自己做什么,或为他人做什么?
12.329.65
यदेकपातिनां सतां भवत्यमुत्र गच्छताम् ।
भयेषु सांपरायिकं निधत्स्व केवलं निधिम् ॥ १२.३२९.६५ ॥
因为独自倒下的善人在彼世有(依靠),所以对于前往彼世之人,在险难之时有用的彼世之财,便是唯一的宝藏;请积聚它。
12.329.66
सतूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान् ।
न सन्ति यस्य वारकाः कुरष्व धर्मसंनिधिम् ॥ १२.३२९.६६ ॥
无人阻挡的主宰,无牵挂地夺走一切,连根基与亲族亦然;故当使法成为你的居所。
12.329.67
इदं निदर्शनं मया तवेह पुत्र संमतम् ।
स्वदर्शनानुपानतः प्रवर्णितं कुरुष्व तत् ॥ १२.३२९.६७ ॥
孩子,我在此为你所说的这个譬喻是被认可的;由你自身内观推论所述的,你当遵行。
12.329.68
ददाति यः स्वकर्मणा धनानि यस्यकस्यचित् ।
अबुद्धिमोहजैर्गुणैः स एक एव युज्यते ॥ १२.३२९.६८ ॥
凭自身之业将财富施予任何人者,因无知与迷妄所生的诸德,唯独他自己被与之系缚。
12.329.69
शुभं समस्तमश्नुते प्रकुर्वतः शुभाः क्रियाः ।
तदेतदर्थदर्शनं कृतज्ञमर्थसंहितम् ॥ १२.३२९.६९ ॥
行善业者享受一切善果;此义之开示,既有感恩之意,又充满义理。
12.329.70
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।
छित्त्वैतां सुकृतो यान्ति नैनां छिदन्ति दुष्कृतः ॥ १२.३२९.७० ॥
此束缚之绳,即居于村落者之爱恋;праведные斩断之而去,恶人则不能斩断。
12.329.71
किं ते धनेन किं बन्धुभिस्ते ।
किं ते पुत्रैः पुत्रक यो मरिष्यसि।
आत्मानमन्विच्छ गुहां प्रविष्टं ।
पितामहास्ते क्व गताश्च सर्वे ॥ १२.३२९.७१ ॥
孩子,你将死之时,财富于你何用,亲族于你何用,儿子于你何用?去寻求那已入洞穴的自我;你所有的祖先都去了何处?
12.329.72
श्वः कार्यमद्ये कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाऽकृतम् ॥ १२.३२९.७२ ॥
明日之事今日应做,午后之事上午应做;因为死亡不会等待人的事情是否做完。
12.329.73
अनुगम्य विनाशान्ते निवर्तन्ते ह बान्धवाः ।
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ॥ १२.३२९.७३ ॥
送他走到毁灭的尽头,亲属便返回;将人投入火中之后,族人和朋友也同样返回。
12.329.74
नास्तिकान्निरनुक्रोशान्नरान्पापमते स्थितान् ।
वामतः कुरु विस्रब्धं परं प्रेप्सुरतन्द्रितः ॥ १२.३२९.७४ ॥
把无神论者、无慈悲者和心怀恶念者置于左侧;渴望至善者,应毫不懈怠、满怀信心地去做。
12.329.75
एवमभ्याहते लोके कालेनोपनिपीडिते ।
सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु ॥ १२.३२९.७५ ॥
当世界如此被时间打击、压迫之时,应坚守最大的坚定,以全部自我奉行法。
12.329.76
अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः ।
सम्यक् स्वधर्मं कृत्वेह परत्र सुखमश्नुते ॥ १२.३२९.७६ ॥
若有人正确地理解这观照之方,并在此世如法地履行自己的法,他便在来世也得享安乐。
12.329.77
न देहभेदे मरणं विजानतां ।
न च प्रणाशः स्वनुपालिते पथि।
धर्मं हि यो बर्धयते स पण्डितो ।
य एव धर्माच्च्यवते स दह्यते ॥ १२.३२९.७७ ॥
对于明白的人,身体的毁坏并非死亡;行走于被善加守护之道的人,也无毁灭。能增益法的人便是智者;背离法的人便会燃烧。
12.329.78
प्रयुक्तयोः कर्मपथि स्वकर्मणोः ।
फलं प्रयोक्ता लभते यथाविधि।
निहीनकर्मा निरयं प्रपद्यते ।
त्रिविष्टपं गच्छति धर्मपारगः ॥ १२.३२९.७८ ॥
在行动之道上,二者各自从事自己的业,行为者依规则获得果报。行恶业者堕入地狱;精通法者升入天界。
12.329.79
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ।
तथाऽऽत्मानं समादध्याद्धश्यते न पुनर्यथा ॥ १२.३२९.७९ ॥
获得这难得的人身,它是通往天界的阶梯,应当如此安定自己,使自己不再堕落。
12.329.80
यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी ।
तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः ॥ १२.३२९.८० ॥
其心随天界之道而不偏离者,人称之为行善业之人,朋友与亲属不应为之悲伤。
12.329.81
यस्य नोपहता बुद्धिर्निश्चये ह्यवलम्बते ।
स्वर्गे कृतावकाशस्य नास्ति तस्य महद्भयम् ॥ १२.३२९.८१ ॥
其智慧不乱、坚定于决定,且已在天界占有一席之地者,便无大恐惧。
12.329.82
तपोवनेषु ये जातास्तत्रैव निधनं गताः ।
तेषामल्पतरो धर्मः कामभोगानजानताम् ॥ १२.३२९.८२ ॥
那些生于苦行林中并死于其中者,其法远少于不识欲乐之人。
12.329.83
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् ।
न तेन किंचिन्न प्राप्तं तन्मे बहुमतं फलम् ॥ १२.३२९.८३ ॥
然而,舍弃享乐、以身修苦行者,即便一无所得——这样的果报我深以为贵。
12.329.84
मातापितृसहस्राणि पुत्रदारशतानि च ।
अनागतान्यतीतानि कस्य ते कस्य वा वयम् ॥ १२.३२९.८४ ॥
成千上万的父母,成百上千的儿子与妻子,既有未来到来的,也有已经逝去的——他们属于谁?属于你,还是属于别人,或属于我们?
12.329.85
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् ।
न तं पश्यामि यस्याहं तन्न पश्यामि यो मम ॥ १२.३२९.८५ ॥
我孤身一人;没有谁属于我,我也不属于任何别人。我不见我所属之人,也不见属于我之人。
12.329.86
न तेषां भवता कार्यं न कार्यं तव तैरपि ।
स्वकृतैस्तानि जातानि भवांश्चैव गमिष्यति ॥ १२.३२९.८६ ॥
你对他们无所责任,他们对你也无所责任。他们都因自己的业行而生,而你也必定会离去。
12.329.87
इह लोके हि धनिना परोऽपि स्वजनायते ।
स्वजनस्तु दरिद्राणां जीवतामपि नश्यति ॥ १२.३२९.८७ ॥
在这世上,即使是陌生人,对富人来说也会变成亲人;而对穷人来说,即使活着的亲人也会被抛弃而亡。
12.329.88
संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः ।
ततः क्लेशमवाप्नोति परत्रेह तथैव च ॥ १२.३२९.८८ ॥
人为了妻子而积累不善之业,于是在此世与来世都会遭受苦难。
12.329.89
पश्यति च्छिन्नभूतं हि जीवलोकं स्वकर्मणा ।
तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम् ॥ १२.३२९.८९ ॥
因为他看到生灵之世因自身业行而被割裂。所以,孩子,请完全按照所说的去做。
12.329.90
तदेतत्संप्रदृश्यैव कर्म भूमिं प्रपश्यतः ।
शुभान्याचरितव्यानि परलोकमभीप्सता ॥ १२.३२९.९० ॥
既然清楚看到这些,观察大地上行为的人,若求来世,就应行善。
12.329.91
मासर्तुसंज्ञापरिवर्तकेन ।
सूर्याग्निना रात्रिदिवेन्धनेन।
स्वकर्मनिष्ठाफलसाक्षिकेण ।
भूतानि कालः पचति प्रसह्य ॥ १२.३२९.९१ ॥
改变月份与季节之名的时间,以太阳为火,以昼夜为薪,见证自身业行之果,强行烹煮众生。
12.329.92
धनेन किं यन्न ददाति नाश्नुते ।
बलेन किं येन रिपुं न बाधते।
श्रुतेन किं येन न धर्ममाचरे ।
त्किमात्मना यो न जितेन्द्रियो वशी ॥ १२.३२९.९२ ॥
财富若不施舍也不享用,有何用?力量若不能压制敌人,有何用?学问若不能行法,有何用?自我若未胜过诸根、不能自制,有何用?
12.329.93
इदं द्वैपायनवचो हितमुक्तं निशम्य तु ।
शुको गतः परित्यज्य पितरं मोक्षदैशिकम् ॥ १२.३२९.९३ ॥
听完毗耶娑这番有益的话,遮冕罗弃下那位指示解脱的父亲而离去。