Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.331

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.331.1

कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः ।
सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह ॥ १२.३३१.१ ॥

坚战说:毗耶娑那位心怀正法的儿子、大苦行者舍卡如何诞生?他又如何获得了至上的成就?祖父啊,请告诉我。

12.331.2

कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः ।
न ह्यस्य जननीं विद्मो जन्म चाग्र्यं महात्मनः ॥ १२.३३१.२ ॥

苦行富足的毗耶娑是从哪位女子那里生下舍卡的?我们不知道那位大心者的母亲,也不知道他最殊胜的出生。

12.331.3

कथं च बालस्य सतः सूक्ष्मज्ञाने रता मतिः ।
यथा नान्यस्य लोकेऽस्मिन्द्वितीयस्येह कस्यचित् ॥ १२.३३१.३ ॥

他尚是孩童,其心为何能沉浸于精微的知识之中?这世上任何他人之心都未曾如此沉浸。

12.331.4

एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते ।
न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम् ॥ १२.३३१.४ ॥

大智者啊,我希望详细地听闻此事。虽然听着,我仍未满足,因为这是至上的甘露。

12.331.5

माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह ।
यथावदानुपूर्व्येण तन्मे ब्रूहि पितामह ॥ १२.३३१.५ ॥

祖父啊,请按次第如实告诉我舍卡的伟大、他的自我瑜伽,以及他所证悟的智慧。

12.331.6

न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ १२.३३१.६ ॥

诸仙人并非以年岁、白发、财富或亲属来确立正法;精通经典者,才是我们心中的伟大之人。

12.331.7

तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डव ।
तदिन्द्रियाणि संयम्य तपो भवति नान्यथा ॥ १२.३३१.७ ॥

般度之子啊,你所问的一切都以苦行为根本。苦行只能通过约束诸根而成,别无他途。

12.331.8

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।
संनियम्य तु तान्येव सिद्धिमाप्नोति मानवः ॥ १२.३३१.८ ॥

因沉溺于诸根,人无疑会招致过失;但若完全约束这些诸根,人便能获得成就。

12.331.9

अश्वमेधसहस्रस्य वाजपेयशतस्य च ।
योगस्य कलया तात न तुल्यं विद्यते फलम् ॥ १२.३३१.९ ॥

孩子啊,瑜伽的一分之力所得之果,也不及千次马祭与百次婆遮配耶祭之果。

12.331.10

अत्र ते वर्तयिष्यामि जन्मयोगफलं तथा ।
शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः ॥ १२.३३१.१० ॥

在此,我将为你叙述瑜伽与出生之果,以及首陀罗(?)之最上之道——对于无自制者而言,此极难知晓。

12.331.11

मेरुशृङ्गे किल पुरा कर्णिकारवनायुते ।
विजहार महादेवो भीमैर्भूतगणैर्वृतः ॥ १२.३३१.११ ॥

相传往昔,在多有迦尼迦罗树林的须弥山顶,大天神(摩诃提婆)被可怖的鬼众所围绕而嬉游居住。

12.331.12

शैलराजसुता चैव देवी तत्राभवत्पुरा ।
तत्र दिव्यं तपस्तेषे कृष्णद्वैपायनः प्रभुः ॥ १२.३३१.१२ ॥

往昔,那里也有山王之女女神;并且,主宰者黑仙(毗耶娑)在那里修习了神圣的苦行。

12.331.13

योगेनात्मानमाविश्य योगधर्मपरायणः ।
धारयन्स तपस्तेपे पुत्रार्थं कुरुसत्तम ॥ १२.३३१.१३ ॥

他以瑜伽进入自我,专注于瑜伽之法,持守其身,为求子而修苦行。库卢最优秀者啊!

12.331.14

अग्नेर्भूमेरपां वायोरन्तरिक्षस्य वा विभो ।
वीर्येण संमितः पुत्रो मम भूयादिति स्म ह ॥ १२.३३१.१४ ॥

愿我得一子,其力量与火、地、水、风或虚空相等,啊,无上者——他如此说道。

12.331.15

संकल्पेनाथ मौनेन दुष्प्रापमकृतात्मभिः ।
वरयामास देवेशमास्थितस्तप उत्तमम् ॥ १२.३३१.१५ ॥

以决心与沉默——这对不能自制者是难以得到的——他依靠至上的苦行,向诸神之主求取恩惠。

12.331.16

अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः ।
आराधयन्महादेवं बहुरूपमुमापतिम् ॥ १२.३३१.१६ ॥

他以风为食,站立了整整百年,崇拜多形态的大天、乌玛之主摩诃提婆。

12.331.17

तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा ।
लोकपालाश्च लोकेशं साध्याश्च वसुभिः सह ॥ १२.३३१.१७ ॥

那里聚集了婆罗门仙人与所有天仙,世界守护者,世界之主,萨adhya神众与婆苏神众一同到来。

12.331.18

आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ ।
मारुतो मरुतश्चैव सागराः सरितस्तथा ॥ १२.३३१.१८ ॥

诸阿提耶与诸楼陀罗,日与月,风神与摩录多,大海与河流,亦皆在场。

12.331.19

अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ ।
विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसां गणाः ॥ १२.३३१.१९ ॥

双阿湿文、诸天与乾闼婆、那罗陀与波尔瓦塔、乾闼婆毗首婆苏、悉陀及阿普萨拉斯众。

12.331.20

तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ।
धारयाणः स्रजं भाति ज्योत्स्नामिव निशाकरः ॥ १२.३३१.२० ॥

伟大的大天神鲁陀罗佩戴着吉祥的迦尼迦罗花环,光辉犹如月亮的月光。

12.331.21

तस्मिन्दिव्ये वने रम्ये देवदेवर्षिसंकुले ।
आस्थितः परमं योगमृषिः पुत्रार्थमच्युतः ॥ १२.३३१.२१ ॥

在那座充满诸天与仙人的神圣而秀美的森林中,不坠的仙人为求子嗣而修持至上瑜伽。

12.331.22

न चास्य हीयते प्राणो न ग्लानिरुपजायते ।
त्रयाणामपि लोकानां तदद्भुतमिवाभवत् ॥ १२.३३१.२२ ॥

他的生命之气并不减弱,身上也不生出倦怠;这对三界而言如同奇迹一般。

12.331.23

जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः ।
प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः ॥ १२.३३१.२३ ॥

那位沉浸于瑜伽、光辉无量者的发髻,以其光明燃烧如毗首安罗之焰,清晰可见。

12.331.24

मार्कण्डेयो हि भगवानेतदाख्यातवान्मम ।
स देवचरितानीह कथयामास मे तदा ॥ १२.३३१.२४ ॥

尊贵的摩尔康德耶亲口告诉了我此事;那时他在此向我叙说了诸天的事迹。

12.331.25

एता अद्यापि कृष्णस्य तपसा तेन दीपिताः ।
अग्निवर्णा जटास्तात प्रकाशन्ते महात्मनः ॥ १२.३३१.२५ ॥

孩子啊,那位大德黑天(二生者)因苦行而燃起的火色发髻,至今仍然闪耀。

12.331.26

एवंविधेन तपसा तस्य भक्त्या च भारत ।
महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥ १२.३३१.२६ ॥

婆罗多之子啊,因这样的苦行和他的虔诚,大自在天心生欢喜,在心中做出了决定。

12.331.27

ततस्तस्य महादेवो दर्शयामास साम्बिकः ।
उवाच चैवं भगवांख्यम्बकः प्रहसन्निव।
एवंविधस्ते तनयो द्वैपायन भविष्यति ॥ १२.३३१.२७ ॥

于是大神与安比卡一同向他显现。世尊三眼者含笑似地说道:“二生者啊,你的儿子将会如此。”

12.331.28

यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम् ।
यथाऽऽकारास्तथा शुद्धो भविता ते सुतो महान् ॥ १२.३३१.२८ ॥

正如火、风、地、水各自的本性,你那伟大的儿子也将依其本性而清净。

12.331.29

तद्भावभावी तद्बुद्धिस्तदाऽऽत्मा तदपाश्रयः ।
तेजसाऽऽवृत्य लोकांस्त्रीन्यशः प्राप्स्यति ते सुतः ॥ १२.३३१.२९ ॥

安住于那同样的本性,怀着同样的智慧与本我,唯以之为依归,你的儿子将以其光辉遍覆三界,并获得荣名。