Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.332

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.332.1

स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः ।
अरणीं तु ततो गृह्य ममन्थाग्निचिकीर्षया ॥ १२.३३२.१ ॥

萨提亚瓦蒂之子从神处获得至上恩赐后,取过取火木阿罗尼,为了生火而钻木。

12.332.2

अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा ।
घृताचीं नामाप्सरसमपश्यद्भगवानृषिः ॥ १२.३३२.२ ॥

大王,那时尊贵的仙人看见一位名叫古利塔制的天女,她以自身光辉显现出至上的容貌。

12.332.3

ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः ।
अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर ॥ १२.३३२.३ ॥

般遮,见到那位天女,尊贵的仙人毗耶娑骤然被欲望迷惑,在那片森林中。

12.332.4

सा च दृष्ट्वा तदा व्यासं कामसंविग्नमानसम् ।
शुकी भूत्वा महाराज घृताची समुपागमत् ॥ १२.३३२.४ ॥

大王,她看见心被欲望扰动的毗耶娑,便化作一只雌鹦鹉,来到他身边。

12.332.5

स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् ।
शरीरजेनानुगतः सर्वगात्रातिगेन ह ॥ १२.३३२.५ ॥

他见到那位以另一种形貌遮掩的天女,便真的被那由身体所生、遍及全身的欲望所牵引。

12.332.6

स तु धैर्येण महता निगृह्णन्हृच्छयं मुनिः ।
न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः।
भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः ॥ १२.३३२.६ ॥

然而,尽管他以极大的坚忍压制住心中潜伏的欲念,仙人毗耶娑却无法约束那已然散乱的心;他被情感所动,终为古利塔制的身体所夺。

12.332.7

यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया ।
अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥ १२.३३२.७ ॥

当仙人竭力克制自己、想要生火时,他的精液突然落在了钻木取火的阿兰尼木中。

12.332.8

सोऽविशङ्केन मनसा तथैव द्विजसत्तमः ।
अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप ॥ १२.३३२.८ ॥

那位再生者中的最优者,怀着毫无疑虑的心,钻磨阿兰尼木;国王啊,从中诞生了舍卡。

12.332.9

शुक्रे निर्मथ्यमाने स शुको जज्ञे महातपाः ।
परमर्षिर्महायोगी अरणीगर्भसंभवः ॥ १२.३३२.९ ॥

当精液被钻出时,舍卡诞生了——伟大的苦行者,至上仙人,大瑜伽士,诞生于阿兰尼木的胎中。

12.332.10

यथाऽध्वरे समिद्धोऽग्निर्भाति हव्यमुदावहन् ।
तथारूपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥ १२.३३२.१० ॥

犹如祭祀中燃起的火焰闪耀,将供物向上送去,舍卡便这样诞生了,仿佛以光辉燃烧。

12.332.11

विभ्रत्पितुश्च कौरव्य रूपवर्णमनुत्तमम् ।
बभौ तदा भावितात्मा विधूमोऽग्निरिवज्वलन् ॥ १२.३३२.११ ॥

啊,俱卢后裔!他承载着父亲无与伦比的形貌与肤色,那心灵已净化的人此时如无烟之火般闪耀,熊熊燃烧。

12.332.12

तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर ।
स्वरूपिणी तदाऽभ्येत्य स्नापयामास वारिणा ॥ १२.३३२.१२ ॥

人主啊,河流中最殊胜的恒河便以其本体来到须弥山的山脊,用水为他沐浴。

12.332.13

अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह ।
पपात भुवि राजेन्द्र शुकस्थार्थे महात्मनः ॥ १२.३३२.१३ ॥

库卢之裔啊,天上也落下了手杖和黑羚羊皮,于大地之上,诸王之主啊,为了伟大心灵的修迦的位置。

12.332.14

जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः ।
देवदुन्दुभयश्चैव प्रावाद्यन्त सहस्रशः ॥ १२.३३२.१४ ॥

乾闼婆歌唱,阿普萨拉斯群舞,天神的鼓声千百次齐鸣。

12.332.15

विश्वासुश्च गन्धर्वस्तथा तुम्बुरुनारदौ ।
हाहा हूहूश्च गन्धर्वौ तुष्टुवुः शुकसंभवम् ॥ १२.३३२.१५ ॥

乾闼婆毗首婆苏、呾布录、那罗陀,以及两位乾闼婆哈哈与呼呼,赞颂了生于修迦者。

12.332.16

तत्र शक्रपुरोगाश्च लोकपालाः समागताः ।
देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च ॥ १२.३३२.१६ ॥

帝释为首的世界守护者们聚集于此,诸天神、天仙与梵仙也都到来了。

12.332.17

दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः ।
जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् ॥ १२.३३२.१७ ॥

风吹下了各种天上的花朵,动与不动的整个世界都欢欣起来。

12.332.18

तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ।
जतामात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥ १२.३३२.१८ ॥

于是这位大心灵、大光辉者亲自怀着慈爱,与女神一同,依照仪轨将那位仙人刚出生的儿子带到身边。

12.332.19

तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम् ।
ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो ॥ १२.३३२.१९ ॥

众神之主因陀罗出于喜爱,赐予他一个形貌奇妙的神圣水罐和神圣的衣服,啊,强大者。

12.332.20

हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः ।
प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत ॥ १२.३३२.२० ॥

天鹅、百瓣鸟和成千上万的鹤,以及鹦鹉和鹧鸪,都向右绕行,啊,婆罗多。

12.332.21

आरणेयस्ततो दिव्यं प्राप्य जन्म महाद्युतिः ।
तत्रैवोवास मेधावी ब्रह्मचारी समाहितः ॥ १२.३३२.२१ ॥

此后,大光明的阿罗尼耶获得神圣的出生,便在那里住下,他是智者,修持梵行,心意专一。

12.332.22

उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ।
उपतस्थुर्महाराज यथाऽस्य पितरं तथा ॥ १२.३३२.२२ ॥

他一出生,吠陀便连同其秘义与汇编来到他的面前,啊大王,正如它们曾来到他父亲面前一样。

12.332.23

बृहस्पतिं च वव्रे स वेदवेदाङ्गभाष्यवित् ।
उपाध्यायं महाराज धर्ममेवानुचिन्तयन् ॥ १२.३३२.२३ ॥

他通晓吠陀、吠陀支分与注疏,啊大王,一心思维法,选择了布利哈斯帕蒂作为他的老师。

12.332.24

सोऽधीत्य निखिलान्वेदान्सरहस्यान्ससंग्रहान् ।
इतिहासं च कार्त्स्न्येन धर्मशास्त्राणि चाभिभो ॥ १२.३३२.२४ ॥

他学习了全部吠陀及其秘义与汇编,也完整学习了史诗传说与法论典籍,啊,强大者。

12.332.25

गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ।
उग्रं तपः समारेभे ब्रह्मचारी समाहितः ॥ १२.३३२.२५ ॥

大仙人向师父奉上酬礼,结束梵行学习后归来,心志专一地开始了严酷的苦行。

12.332.26

देवतानामृषीणां च बाल्येऽपि स महातपाः ।
संमन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा ॥ १२.३३२.२६ ॥

即使年少时,他已是大苦行者,凭借智慧与苦行,为诸神和仙人所敬重,可以向其请教。

12.332.27

न त्वस्य रमते बुद्धिराश्रमेषु नराधिप ।
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥ १२.३३२.२७ ॥

然而,人主啊,他的心不喜欢那些生活阶段,因为他洞见解脱之法,超越了居家生活的三根基。