摩诃婆罗多 · 章 12.333
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.333.1
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् ।
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः ॥ १२.३३३.१ ॥
舍卢迦深思解脱之后,去见父亲。他渴求至善,谦恭有礼,向老师行礼后说道。
12.333.2
मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे ।
यथा मे मनसः शान्तिः परमा संभवेत्प्रभो ॥ १२.३३३.२ ॥
愿精通解脱之法的尊者教导我,使我的心获得至高的平静,主啊。
12.333.3
श्रुत्वा पुत्रस्य तु वचः परमर्षिरुवाच तम् ।
अधीहि पुत्र मोक्षं वै धर्मांश्च विविधानपि ॥ १२.३३३.३ ॥
大仙听了儿子的话,对他说:“孩子,你要学习解脱,也要学习种种法。”
12.333.4
पितुर्नियोगाज्जग्राह शुको धर्मभृतां वरः ।
योगशास्त्रं च निखिलं कापिलं चैव भारत ॥ १२.३३३.४ ॥
奉父之命,舍卢迦——持守法的人中最优秀者——领受了全部瑜伽论和迦毗罗之教,婆罗多啊。
12.333.5
स तं ब्राह्नया श्रियः युक्तं ब्रह्मतुल्यपराक्रमम् ।
मेने पुत्रं यदा व्यासो मोक्षधर्मविशारदम् ॥ १२.३३३.५ ॥
当毗耶娑认为儿子具有婆罗门的光辉、勇力等同梵天、精通解脱之法时,他便这样看待他。
12.333.6
उवाच गच्छेति तदा जनकं मिथिलेश्वरम् ।
स ते वक्ष्यति मोक्षार्थं निखिलं मिथिलेश्वरः ॥ १२.३३३.६ ॥
于是他说:“去见弥提罗之主遮那迦吧。那位弥提罗之主会为你完整讲述解脱之法。”
12.333.7
पितुर्नियोगादगमन्मैथिलं जनकं नृपम् ।
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् ॥ १२.३३३.७ ॥
奉父之命,他前往弥提罗王遮那迦处,询问法的坚定根基与解脱的至高归宿。
12.333.8
उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः ।
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै ॥ १२.३३३.८ ॥
有人告诉你应走人间之路,你当不惊讶地前往;不应借助行于空中者的神通而去。
12.333.9
आर्जवेनैव गन्तव्यं न सुखान्वेषिणा तथा ।
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः ॥ १२.३३३.९ ॥
应以正直而行,不应像追求安乐者那样;也不应寻求特殊之利,因为特殊之物与执着相连。
12.333.10
अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ।
स्यातव्यं च वशे तस्य स ते छेत्स्यति संशयम् ॥ १२.३३३.१० ॥
对于你为之主祭的那位人主,你不应心生傲慢,应当顺服于他。他将斩断你的疑惑。
12.333.11
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ।
याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया ॥ १२.३३३.११ ॥
那位精通法、熟知解脱之论的国王,是我所主祭之人。他所说的,你应毫不犹豫地去做。
12.333.12
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ।
पद्भ्यां शक्तोन्तरिक्षेण क्रान्तुं पृथ्वीं ससागराम् ॥ १२.३३३.१२ ॥
如此被告知之后,那位心怀正法的仙人前往弥提罗。他本可以凭空中之力穿越大地与四海,却仍以双足步行。
12.333.13
स गिरींश्चाप्यतिक्रम्य नदीतीर्थसरांसि च ।
बहुव्यालमृगाकीर्णा ह्यटवीश्च वनानि च ॥ १२.३३३.१३ ॥
他越过群山、河流渡口与湖泊,也穿过布满众多毒蛇和野兽的森林与丛林。
12.333.14
मेहोर्हरेश्च द्वे वर्षे वर्षं हैमवतं ततः ।
क्रमेणैवं व्यतिक्रम्य भारतं वर्षमासदत् ॥ १२.३३३.१४ ॥
依次越过弥卢与诃梨的两个地域,然后是喜马拉雅地域,他终于抵达了婆罗多之地。
12.333.15
स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान् ।
आर्यावर्तमिमं देशमाजगाम महामुनिः ॥ १२.३३३.१५ ॥
这位大仙人一路看见许多为秦人与匈奴人所居的不同地域,便来到这片雅利安之地。
12.333.16
पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन् ।
अध्वानं सोऽतिचक्राम खचरः खे पतविव ॥ १२.३३३.१६ ॥
他知道了父亲的吩咐,并思量着这同一件事,便如空中飞鸟一般穿越了道路。
12.333.17
पत्तनानि च रम्याणि स्फीतानि नगराणि च ।
रत्नानि च विचित्राणि पश्यन्नपि न पश्यति ॥ १२.३३३.१७ ॥
他看着那些美丽的城镇、繁荣的都市和奇异的珍宝,却仿佛并未看见。
12.333.18
उद्यावानि च रम्याणि तथैवायतनानि च ।
पुण्यानि चैव तीर्थानि सोत्यक्रामदथाध्वगः ॥ १२.३३३.१८ ॥
那位行路人也越过了美丽的园林、神庙与圣洁的渡口。
12.333.19
सोचिरेणैव कालेन विदेहानाससाद ह ।
रक्षितान्धर्मराजेन जनकेन महात्मना ॥ १२.३३३.१९ ॥
过了一段时间,他抵达了毗提诃之地,那里由法王、大德者遮那迦所守护。
12.333.20
तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान् ।
पल्लीघोषान्समृद्धांश्च बहुगोकुलसंकुलान् ॥ १२.३३३.२० ॥
他在那里看到许多村庄,食物丰盛、宴飨充足,小村落与牧牛人的聚居地繁荣兴旺,到处是成群的牛羊。
12.333.21
स्फीतांश्च शालियवसर्हंससारससेवितान् ।
पद्मिनीभिश्च शतशः श्रीमतीभिरलकृतान् ॥ १२.३३३.२१ ॥
它们繁荣兴盛,稻米与大麦丰足,天鹅与鹤常来栖息,并有数百个华美的莲池点缀其间。
12.333.22
स विदेहानतिक्रम्य समृद्धजनसेवितान् ।
मिथिलोपवनं रम्यमाससाद समृद्धिमत् ॥ १२.३३३.२२ ॥
他越过毗提诃诸地,那里有富庶的人民往来,他终于抵达了弥提罗那美丽而繁盛的花园。
12.333.23
हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम् ।
पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः ॥ १२.३३३.२३ ॥
那座城市车马象群拥挤,男女熙攘,然而不动者虽见之,却仿佛未见一般穿行而过。
12.333.24
मनसा तं बहन्भारं तमेवार्थं विचिन्तयन् ।
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह ॥ १२.३३३.२४ ॥
他心中思量着那桩重大的使命,安住于自我,心境平和,终于抵达弥提罗。
12.333.25
तस्या द्वारं समासाद्य द्वारपालैर्निवारितः ।
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह ॥ १२.३३३.२५ ॥
到达其门,被守门人拦住,他沉浸于禅定,超脱而立;随后被认出,便进入了。
12.333.26
स राजमार्गमासाद्य समृद्धजनकसंकुलम् ।
पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह ॥ १२.३३३.२६ ॥
他来到繁华人群拥挤的御道,抵达王者的居所,无所畏惧地走了进去。
12.333.27
तत्रापि द्वारपलास्तमुग्रवाचा न्यषेधयन् ।
तथैव च शुक्रस्तत्र निर्मन्युः समतिष्ठत ॥ १२.३३३.२७ ॥
在那里守门人也用严厉的话语阻止他;同样,शुक在那里无怒地站立。
12.333.28
न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः ।
प्रताम्यति ग्लायति वा नापैति च तथाऽऽतपात् ॥ १२.३३३.२८ ॥
纵然被路上的烈日烤灼,为饥渴疲劳所困,他也不疲惫、不困倦,也不避开日光的暑热。
12.333.29
तेषां तु द्वारपालानामेकः शोकसमन्वितः ।
मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ॥ १२.३३३.२९ ॥
其中一名守门人心怀忧伤,见शुक如天中之日般站立,便如此。
12.333.30
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ।
प्रावेशयत्ततः कक्ष्यां प्रथमां राजवेश्मनः ॥ १२.३३३.३० ॥
依礼恭敬迎接,合掌致敬之后,便引他进入王宫的第一庭院。
12.333.31
तत्रासीनः शुकस्तात मोक्षमेवान्वचिन्तयत् ।
छायायामातपे चैव समदर्शी समद्युतिः ॥ १२.३३३.३१ ॥
坐在那里的究迦啊,亲爱的孩子,只思念解脱;无论在阴影中还是阳光下,他都一视同仁,光辉相同。
12.333.32
तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः ।
प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः ॥ १२.३३३.३२ ॥
不久,国王的大臣合掌走到他面前,把他带入王宫的第二庭院。
12.333.33
तत्रान्तः पुरसंबद्धं महच्चैत्ररथोपमम् ।
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ॥ १२.३३३.३३ ॥
那里有一座与后宫相连的大园林,如同紫车林,水上嬉戏之处划分得宜,树木繁花盛开。
12.333.34
तं दर्शयित्वा स शुकं मन्त्री जनकमुत्तमम् ।
अर्हमासनमादिश्य निश्चक्रामः ततः पुनः ॥ १२.३३३.३४ ॥
他把那地方指给Śuka看,并指示了一个适合贤明国王的座位,然后大臣又从那里退了出去。
12.333.35
तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः ।
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः ॥ १२.३३३.३५ ॥
他的周围有衣饰华美、腰肢秀丽、容貌可爱的少女,她们身着细薄的红衣,佩戴精炼的金饰。
12.333.36
संलापालापकुशला नृत्तगीतविशारदाः ।
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः ॥ १२.३३३.३६ ॥
她们擅长交谈与应对,精通舞蹈与歌唱,先以微笑向他说话,容貌与天女相当。
12.333.37
भावोपचारकुशला भावज्ञाः सत्वकोविदाः ।
परं पञ्चाशतं नार्यो वारमुख्याः समाद्रवन् ॥ १२.३३३.३७ ॥
精通情感与礼仪,understanding内心情绪,善察性情的五十余位出众女子纷纷前来。
12.333.38
पाद्यादीनि प्रतिग्राह्य पूजया परयाऽर्चयन् ।
कालोपपन्नेन तदा स्वाद्वन्नेनाभ्यतर्पयन् ॥ १२.३३३.३८ ॥
让他接受洗足水等礼物后,以最高的敬意供奉他,并以适合时辰的美味食物让他充分满足。
12.333.39
तस्य भुक्तवतस्तात तदन्तः पुरकाननम् ।
सुरम्यं दर्शयामासुरेकैकश्येन भारत ॥ १२.३३३.३९ ॥
他用餐之后,亲爱的,她们逐一向他展示内宫那片极为优美的园林,婆罗多之子啊。
12.333.40
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चापि ताः शुभम् ।
उदारसत्वं सत्वज्ञाः स्त्रियः पर्यचरंस्तथा ॥ १२.३३३.४० ॥
她们嬉戏、欢笑、吉祥地歌唱,那些懂得他高尚品性的女子同样地侍奉他。
12.333.41
आरणेयस्तु शुद्धात्मा निःसंदेहस्त्रिकर्मकृत् ।
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति ॥ १२.३३३.४१ ॥
然而那位阿罗尼耶,心地纯净,无所疑惑,行三重义务,诸根已调伏,嗔怒已克服,既不喜悦,也不愤怒。
12.333.42
तस्मै शय्यासनं दिव्यं वरार्हः रत्नभूषितम् ।
स्पर्ध्यास्तरणसंकीर्णं ददुस्ताः परमस्त्रियः ॥ १२.३३३.४२ ॥
那些最为出众的女子为他奉上神圣的床榻与座席,配得上至尊之人,以宝石装饰,铺满令人羡慕的锦褥。
12.333.43
पादशौचं तु कृत्वैव शुक्रः संध्यामुपास्य च ।
निषसादासने पुण्ये तमेवार्थं विचिन्तयन् ॥ १२.३३३.४३ ॥
洗足并完成晨昏礼之后,沙克拉坐在神圣的座位上,思索着这件事。
12.333.44
पूर्वरात्रे तु तत्रासौ हुत्वा ध्यानपरायणः ।
मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः। ॥ १२.३३३.४४ ॥
前半夜他在那里举行献祭,专注于冥想;午夜时分,依照规定,这位主人入睡了。
12.333.45
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम् ।
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत ॥ १२.३३३.४५ ॥
片刻之后,他起身并立即净身,智者在女眷环绕中便开始冥想。
12.333.46
अनेन विधिना कर्ष्णिस्तदहः शेषमच्युतः ।
तां च रात्रिं नृपकुले वर्तयामास भारत ॥ १२.३३३.४६ ॥
这位出自克利希尼家族的不坠者以此方式度过了当日剩余的时光,也在王宫中度过了那一夜,婆罗多啊。