Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.335

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.335.1

एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः ।
आत्मनाऽऽत्मानमास्थाय दृष्ट्वा चात्मानमात्मना ॥ १२.३३५.१ ॥

闻此言已,自制而决心坚定者,以自我安住于自我,以自我见自我,

12.335.2

कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्भुखः ।
शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः ॥ १२.३३५.२ ॥

功成事毕,安乐而寂静,默然面向北方而行,以雪山为目标,与风同性,

12.335.3

एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा ।
हिमवन्तमियाद्दुष्टुं सिद्धचारणसेवितम् ॥ १२.३३५.३ ॥

此时,天仙圣者那罗陀也前往观看为悉陀与遮罗那所侍奉的雪山。

12.335.4

तमप्सरोगाकीर्णं गीतस्वननिनादितम् ।
किन्नराणां सहस्रैश्च भृङ्गराजैस्तथैव च ॥ १२.३३५.४ ॥

那座山中充满了阿普萨拉斯,回响着歌声,有成千上万的紧那罗,也有蜜蜂王鸟。

12.335.5

मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः ॥ १२.३३५.५ ॥

有麻鹬、鹡鸰以及形色各异的 jīvajīvaka 鸟。

12.335.6

चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः ।
राजहंससमूहैश्च हृष्टैः परभृतैस्तथा ॥ १२.३३५.६ ॥

有色彩斑斓的孔雀,以数百声鸣叫而生辉,有成群的王天鹅,也有欢快的杜鹃。

12.335.7

पक्षिराजो गरुत्मांश्च यं नित्यमधितिष्ठति ।
चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा ॥ १२.३३५.७ ॥

鸟王迦卢特曼常居其上,四方护世者、诸天与仙人群亦然。

12.335.8

तत्र नित्यं समायान्ति लोकस्य हितकाम्यया ।
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना ॥ १२.३३५.८ ॥

众生为求世间之利,常聚集于此;昔日大德毗湿奴为求子而在此修苦行。

12.335.9

तत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः ।
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै ॥ १२.३३५.९ ॥

也在那里,童年的鸠摩罗轻视三界,向诸天掷出名为“力”的长矛,将其插入大地。

12.335.10

तत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा ।
योऽन्योस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः ॥ १२.३३५.१० ॥

于是世界之支柱斯堪达讥讽地说道:“诸位婆罗门啊,谁能胜过我,谁更得婆罗门的珍爱?”

12.335.11

यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान् ।
सोभ्युद्धरत्विमां शक्तिमथवा कम्पयत्विति ॥ १२.३३५.११ ॥

若三界中另有一位忠于婆罗门的强者,便让他举起此矛,或使它震动吧。

12.335.12

तच्छुत्वा व्यथिता लोकाः क इमामुद्धरेदिति ।
अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम् ॥ १२.३३५.१२ ॥

众世界闻此而惶恐:“谁能举起它?”于是诸天众神,感官与心意皆惊惶失措……

12.335.13

अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम् ।
किंन्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् ॥ १२.३३५.१३ ॥

世尊毗湿奴看到阿修罗和罗刹等一切众生都被抛落,他思索道:“此处应当做什么善事呢?”

12.335.14

अनामृष्य ततः क्षेपमवैक्षत च पाविकम् ।
संप्रगृह्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा ॥ १२.३३५.१४ ॥

他不能忍受这种被抛落,遂看向如火一般的力量;清净之魂于是紧紧握住了那燃烧的长矛。

12.335.15

कम्पयामास सव्येन पाणिना पुरुषोत्तमः ।
शक्त्यां तु कम्प्यमानायां विष्णुना बलिना तदा ॥ १२.३३५.१५ ॥

最上人以左手使之颤动;力量颤动之时,有力的毗湿奴便使其震动。

12.335.16

मेदिनी कम्पिता सर्वा सशैलवनकानना ।
शक्तेनापि समुद्धर्तुं कम्पिता साऽभवत्तदा ॥ १२.३३५.१६ ॥

整个大地连同山岳、森林与园林都震动了;即便被力量托举之时,她那时也在颤动。

12.335.17

रक्षिता स्कन्दराजस्य धर्षणा प्रभविष्णुना ।
तां कम्पयित्वा भगवान्प्रह्लादमिदमब्रवीत् ॥ १२.३३५.१७ ॥

这次攻击由斯坎达王所守护,却被那有力者所抵挡;使之颤动之后,世尊对钵罗诃罗陀说了这番话。

12.335.18

पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति ।
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः ॥ १२.३३५.१८ ॥

“看那童子(斯坎达)的威力;别人不会做到这件事。”他不能忍受这番话,遂决意要将她托起。

12.335.19

जग्राह तां तदा शक्तिं न चैनामभ्यकम्पयत् ।
नादं महान्तं मुक्त्वा स मूर्च्छितो गिरिमूर्घनि ॥ १२.३३५.१९ ॥

他随即抓住那枝长矛,却无法撼动它;发出一声巨吼后,他昏倒在山巅。

12.335.20

विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः ।
तत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः ॥ १२.३३५.२० ॥

希兰亚卡希布之子神志昏乱,倒卧于地;他前往北方,来到群山之王的身旁。

12.335.21

तपोऽतप्यत दुर्घर्षं तात नित्यं वृषध्वजः ।
पावकेन परिक्षिप्तं दीप्यता यस्य चाश्रमम् ॥ १२.३३५.२१ ॥

孩子啊,持牛旗者(湿婆)在那里不断修持难以企及的苦行,他的修行处被燃烧的大火所环绕。

12.335.22

आदित्यपर्वतं नाम दुर्घर्षमकृतात्मभिः ।
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः ॥ १२.३३५.२२ ॥

名为阿迪提耶山的那个地方,对心未调伏者来说难以逾越;夜叉、罗刹与檀那婆都无法前往那里。

12.335.23

दशयोजनविस्तारमग्निज्वालसमावृतम् ।
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान् ॥ १२.३३५.२३ ॥

那个方圆十由旬、被火焰环绕的地方,正是威力广大的吉祥火神帕瓦卡亲自居住之处。

12.335.24

सर्वान्विघ्नान्प्रशमयन्महादेवस्य धीमतः ।
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः ॥ १२.३३५.२४ ॥

他为智慧的大天(摩诃提婆)平息一切障碍,单足而立,历经千年天年。

12.335.25

देवान्संतापयंस्तत्र महादेवो महाव्रतः ।
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः ॥ १२.३३५.२५ ॥

大誓者摩诃提婆在那里使诸神受苦,面向智慧的山王之东方而立。

12.335.26

विविक्ते पर्वततटे पाराशर्यो महातपाः ।
वेदानध्यापयामास व्यासः शिष्यान्महातपाः ॥ १२.३३५.२६ ॥

在幽静的山坡上,大苦行者波罗舍罗之子毗耶娑让弟子们学习吠陀。

12.335.27

सुमन्तुं च महाभागं वैशंपायनमेव च ।
जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् ॥ १२.३३५.२७ ॥

大福者苏曼图、吠舍衍那、大智慧者阇弥尼,以及苦行者毗罗。

12.335.28

एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः ।
तत्राश्रमपदं रम्यं ददर्श पितुरुत्तमम्।
आरणेयो विशुद्धात्मा नभसीव दिवाकरः ॥ १२.३३५.२८ ॥

毗耶娑被这些弟子围绕,大苦行者住在那里。他看见父亲那美丽而殊胜的净修处。纯净心灵的阿罗尼耶如天空中的太阳出现。

12.335.29

अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम् ।
ददृशे सुतमायान्तं दिवाकरसमप्रभम् ॥ १२.३३५.२९ ॥

于是毗耶娑看见儿子走来,他被如熊熊烈火般的光环围绕,光辉如同太阳。

12.335.30

असज्जमानं वृक्षेषु शैलेषु विषयेषु च ।
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् ॥ १२.३३५.३० ॥

不执着于树木、山岳与诸境,专注于瑜伽的大我,如同离弦的箭。

12.335.31

सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः ।
यथोपजोषं तैश्चापि समागच्छन्महामुनिः ॥ १२.३३५.३१ ॥

火钻之子(Śuka)上前抱住父亲的双足;依礼,这位大仙也与他们相处。

12.335.32

ततो निवेदयामास पित्रे सर्वमशेषतः ।
शुको जनकराजेन संवादं प्रीतमानसः ॥ १२.३३५.३२ ॥

于是,心怀欢喜的śuka将与遮那迦王的全部对话完整地禀告父亲。

12.335.33

एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान् ।
उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः ॥ १२.३३५.३३ ॥

如此,这位威力的波罗奢罗之子、大仙毗耶娑,一面教导弟子与自己的儿子,一面居住在喜马拉雅山的山脊上。

12.335.34

ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे ।
वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः ॥ १२.३३५.३४ ॥

后来有一次,精通吠陀学习、心性寂静、制伏诸根的弟子们围绕着他站立。

12.335.35

वेदेषु निष्ठां संप्राप्य साङ्गेष्वपि तपस्विनः ।
अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् ॥ १२.३३५.३५ ॥

那时,已在吠陀及其支分上获得坚定造诣的苦行弟子合掌,对师尊毗耶娑说道。

12.335.36

शिष्या ऊचुः ।
महता तेजसा युक्ता यशसा चापि वर्धिताः।
एकं त्विदानीमिच्छामो गुरुणाऽनुग्रहं कृतम् ॥ १२.३३५.३६ ॥

弟子们说:我们已具备大光辉,名声也增长了;如今我们只愿师尊施予一次恩惠。

12.335.37

इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाद ह ।
उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया ॥ १२.३३५.३७ ॥

婆罗门仙人听了他们的话,对他们说:"孩子们,说吧,你们所愿之事,我都会去做。"

12.335.38

एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः ।
पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् ॥ १२.३३५.३८ ॥

众弟子听了师尊的话,心中欢喜,再次合掌,低头向老师行礼。

12.335.39

ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम् ।
यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम ॥ १२.३३५.३९ ॥

他们一同说道:"大王,这是极好的话:若师尊欢喜,圣仙中最优秀者,我们便是有福之人。"

12.335.40

काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा ।
पष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः ॥ १२.३३५.४० ॥

我们都希望大仙所赐的恩惠成就:愿您的第六位弟子不在此处获得名声;请对我们施以恩惠。

12.335.41

चत्वारस्ते वयं शिष्या गुरुपूत्रश्च पञ्चमः ।
इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः ॥ १२.३३५.४१ ॥

我们四人是您的弟子,老师之子为第五人。愿吠陀在此确立——这便是我们所求的恩赐。

12.335.42

शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् ।
पराशरात्मजो धीमान्परलोकार्थचिन्तकः ॥ १२.३३५.४२ ॥

毗耶娑听了弟子们的话——他是通晓吠陀真义的人,波罗奢罗之子,智慧之人,心念来世之福——...

12.335.43

उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः ।
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे तथा ॥ १२.३३५.४३ ॥

这位以法为本的人对弟子说出合乎法义、通向至善的话:应当常常把(教导)施予婆罗门,以及侍奉吠陀的人。

12.335.44

ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षते ।
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् ॥ १२.३३५.४४ ॥

凡是确实渴望住在梵天世界的人:愿你们人数众多,愿这部吠陀得到广泛传播。

12.335.45

नाशिष्ये संप्रदातव्यो नाव्रते नाकृतात्मनि ।
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः।
नापरीक्षितचारित्रे विद्या देया कथंचन ॥ १२.३३५.४५ ॥

不应把知识传给不是弟子的人、未持戒的人、心未修炼的人。弟子的这些品质都应当如实了解。对于品行未经考验的人,无论如何都不应传授知识。

12.335.46

यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः ।
परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः ॥ १२.३३५.४६ ॥

正如纯金要经过加热、切割和摩擦来检验,弟子也应当以其家世、品德等来加以考察。

12.335.47

न नियोज्याश्च वः शिष्या अनियोगे महाभये ।
यथामति यथापाठं तथा विद्या फलिष्यति ॥ १२.३३५.४७ ॥

你们也不应让弟子去从事不当、充满大危险的事务。依其智慧、依其诵习的程度,知识便会结出果实。

12.335.48

सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।
श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः ॥ १२.३३५.४८ ॥

愿所有人都渡过难关,愿所有人都见到吉祥。应以婆罗门为先,使四种姓都听闻(吠陀)。

12.335.49

वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् ।
स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयंभुवा ॥ १२.३३५.४९ ॥

此即诵习吠陀,被称为大义务。此处,为赞颂诸神,自生者创造了吠陀。

12.335.50

यो निर्वदेत संमोहाद्ब्राह्मणां वेदपारगम् ।
सोऽभिध्यानाद्ब्राह्मणस्य पराभूयादसंशयम् ॥ १२.३३५.५० ॥

若因迷惑而诽谤已通达吠陀彼岸的婆罗门,必定会被婆罗门的愤怒所击败,毫无疑问。

12.335.51

यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥ १२.३३५.५१ ॥

以不义之道言说者,与以不义之道发问者——二者之中一人败退而去,并遭遇仇恨。

12.335.52

एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति ।
उपकुर्याच्च शिष्याणामेतच्च हृद्वि वो भवेत् ॥ १२.३३५.५२ ॥

关于诵习吠陀的规则,这一切已向你们讲述。应当施惠于弟子,愿此留在你们心中。