摩诃婆罗多 · 章 12.336
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.336.1
एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः ।
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा ॥ १२.३३६.१ ॥
诸位毗耶娑的大力弟子听了老师这番话,心中欢喜,便彼此拥抱。
12.336.2
उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम् ।
तन्नो मनसि संरूढं करिष्यामस्तथा च तत् ॥ १२.३३६.२ ॥
世尊所说的那番关乎今世与来世的教导,已在我们心中深深扎根;我们必将照此而行。
12.336.3
अन्योन्यं संविभाष्यैवं सुप्रीतमनसः पुनः ।
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः ॥ १२.३३६.३ ॥
众弟子如此彼此交谈,心中极为欢喜,善于言辞的他们又向老师禀告。
12.336.4
शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने ।
वेदाननेकधा कर्तुं यदि ते रुचितं प्रभो ॥ १२.३३६.४ ॥
大仙啊,我们愿从此山下到人间,以多种方式弘扬吠陀,主啊,若您认为合适。
12.336.5
शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः ।
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् ॥ १२.३३६.५ ॥
弟子们的话听罢,波罗奢罗之子主便以兼具法与利的、有益的言辞作答。
12.336.6
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते ।
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम् ॥ १२.३३६.६ ॥
若你们愿意,或往人间,或往天界,都可前去;但你们必须谨慎,因为梵知之中充满了诸多诡诈。
12.336.7
तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना ।
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाऽभिवाद्य च ॥ १२.३३६.७ ॥
他们得到真言师尊的允许后,全都右绕毗耶娑,低头行礼,然后离去。
12.336.8
अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन् ।
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा ॥ १२.३३६.८ ॥
他们降临大地,设立四祭司的祭祀制度,并使婆罗门、刹帝利和吠舍举行祭祀。
12.336.9
पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः ।
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः ॥ १२.३३६.९ ॥
常受再生者尊敬,安居家中,欢喜快乐,专心主持祭祀与教授,富足且名闻天下。
12.336.10
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् ।
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् ॥ १२.३३६.१० ॥
弟子们下去之后,智慧的毗耶娑与其子一同在僻静处静坐,默然沉入禅定。
12.336.11
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा ।
हिमवन्तमगं द्रष्टुं सिद्धचारणसेवितम् ॥ १२.३३६.११ ॥
就在此时,天仙那罗陀也前来观看喜马拉雅山,那里是悉陀与遮罗所常往之地。
12.336.12
तं ददर्शाश्रमपदे नारदः सुमहातपाः ।
अथैनमब्रवीत्काले मधुराक्षरया गिरा ॥ १२.३३६.१२ ॥
大苦行者那罗陀在精舍中见到他,随后在适当的时候以甜美的言辞对他说话。
12.336.13
भोभो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते ।
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव ॥ १२.३३६.१३ ॥
啊,大仙Vasiṣṭha之后裔!此处不闻吠陀梵音。你为何独自静坐,沉默入定,仿佛在思索什么?
12.336.14
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते ।
रजसा तमसा चैव सोमः सोपप्लवो यथा ॥ १२.३३६.१४ ॥
此山失去梵音,便不再光彩,正如月亮被躁动与暗昧所侵,在蚀中黯淡无光。
12.336.15
न भ्राजते यथापूर्वं निषादानामिवालयः ।
देवर्षिगणजुष्टोऽपि वेदध्वनिविनाकृतः ॥ १२.३३६.१५ ॥
虽有天仙众圣常来,然无吠陀之声,便不复如往昔光明,如猎人所居之处。
12.336.16
ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः ।
वियुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा ॥ १२.३३६.१६ ॥
诸仙、天神与大力之乾闼婆,若离梵音,便不再如往昔光明。
12.336.17
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत् ।
महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण ॥ १२.३३६.१७ ॥
克里希那·二重生(毗耶娑)闻那罗陀之言,乃曰:大仙,精通吠陀论辩者,你所说的。
12.336.18
एतन्मनोऽनुकूलं मे भवानर्हसि भाषितुम् ।
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली ॥ १२.३३६.१८ ॥
此言合我心意;唯汝有资格说之,汝全知、全见,且处处好奇。
12.336.19
त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम् ।
तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते ॥ १२.३३६.१९ ॥
三界中所发生的一切,都在你的心中确立。婆罗门中的仙人啊,请吩咐,告诉我为你做什么。
12.336.20
यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर ।
वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः ॥ १२.३३६.२० ॥
梵的仙人啊,请告诉我应当做什么。我在此与弟子分离,心中不太欢喜。
12.336.21
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।
मलं पृथिव्या बाह्वीकाः स्त्रीणां कौतूहलं मलम् ॥ १२.३३६.२१ ॥
吠陀的污垢是不诵习;婆罗门的污垢是缺乏誓戒;大地的污垢是巴赫利克人;女人的污垢是好奇。
12.336.22
अधीयतां भवान्वेदान्सार्घं पुत्रेण धीमता ।
विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः ॥ १२.३३६.२२ ॥
你与聪慧的儿子一同学习吠陀,以梵的声音驱散因罗刹之惧而生的黑暗。
12.336.23
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् ।
तथेत्युक्त्वाऽथ संहृष्टो वेदाभ्यासे दृढव्रतः ॥ १२.३३६.२३ ॥
毗耶娑听到那罗陀的话,通晓至上法,说:“就这样吧。”他欢喜地在吠陀修习中坚守誓愿。
12.336.24
उवाच च महाप्राज्ञं नारदं पुनरेव हि ॥ १२.३३६.२४ ॥
他又对大智慧的那罗陀说道。
12.336.25
मलं पृथिव्या बाह्लीका इत्युक्तमधुना त्वया ।
कीदृशाश्चैव वाह्लीका ब्रूहि मे वदतां वर ॥ १२.३३६.२५ ॥
你刚才说,巴赫利迦是大地的污秽。巴赫利迦是怎样的人?善言者中最优秀的,请告诉我。
12.336.26
अस्यां पृथिव्यां चत्वारो देशाः पापजनैर्वृताः ।
युगन्धरस्तु प्रथमस्तथा भूतिलकः स्मृतः ॥ १२.३३६.२६ ॥
这片大地上有四个地区住满了罪人。第一个是瑜伽达罗,同样被称为菩提罗迦。
12.336.27
अच्युतच्छल इत्युक्तस्तृतीयः पारकृत्तमः ।
चतुर्थस्तु महापापो बाह्लीक इति संज्ञितः ॥ १२.३३६.२७ ॥
第三个称为阿周陀车拉,是最善于割裂边界的。第四个,大罪之地,被称为巴赫利迦。
12.336.28
भृगोष्ट्रगर्दभक्षीरं पिबन्त्यस्य युगन्धरे ।
एवकर्णास्तु दृश्यन्ते जना वै ह्यच्युतस्थले ॥ १२.३३६.२८ ॥
在瑜伽达罗,人们喝绵羊、骆驼和母驴的奶;在阿周陀之地,可以看到只有一只耳朵的人。
12.336.29
मेहन्ति च मलं पापा विसृजन्ति जलेषु वै ।
नित्यं भूतिलकेत्यन्नं तज्जलं च पिबन्ति च ॥ १२.३३६.२९ ॥
这些罪人小便,并把秽物排入水中;在菩提罗迦,他们常吃那食物、喝那水。
12.336.30
हरिबाह्यास्तु बाहीका न स्मरन्ति हरिं क्वचित् ।
ऐहलौकिकमोक्षं ते मांसशोणितवर्धनाः।
वृथा जाता भविष्यन्ति बाह्लीका इति विश्रुताः ॥ १२.३३६.३० ॥
远离哈里的巴赫利迦从不忆念哈里。他们只求此世的解脱,增长血肉;生而无益,将以巴赫利迦之名闻名于世。
12.336.31
पुष्कराहारनिरताः पिशाचा यदभाषते ।
मुसुण्ठीं परिगृह्योग्रां तच्छृणुष्व महामुने ॥ १२.३३६.३१ ॥
大仙啊,请听那些沉溺于在普什卡拉食莲的毕舍遮所说之言,他们手持凶猛的木槌。
12.336.32
ब्राह्मणीं बहुपुत्रां तां पुष्करे स्नातुमागताम् ।
युगन्धरे पयः पीत्वा ह्युचिता ह्यच्युतस्थले ॥ १२.३३६.३२ ॥
那位多子的婆罗门妇人,前来普什卡拉沐浴,在瑜根达罗饮水,并在阿097处受合宜。
12.336.33
तथा भूतिलके स्नात्वा बाह्लीकांश्च निरीक्ष्य वै ।
आगताऽसि तथा स्नातुं कथं स्वर्गं न गच्छसि ॥ १२.३३६.३३ ॥
同样地,你在菩提罗迦沐浴,并看到巴赫利迦人,然后前来沐浴。你为何不去天界呢?
12.336.34
इत्युक्त्वा ब्राह्मणीभाण्डं पोथयित्वा मुसुण्ठिना ।
उवाच क्रोधताम्राक्षी पिशाची तीर्थपालिका ॥ १२.३३६.३४ ॥
说完这些,并用木槌击打了婆罗门妇人的器皿,守护圣地的毕舍遮女,双眼因愤怒而发红,开口说道。
12.336.35
एतत्तु ते दिवावृत्तं रात्रौ वृत्तमथान्यथा ।
गच्छ बाह्लीकसंसर्गादशुचित्वं न संशयः ॥ १२.३३६.३५ ॥
这是你白天的行为,夜里又是另一种。走吧;与巴赫利迦人接触带来不净,此事无疑。
12.336.36
यद्द्विषन्ति महात्मानं न स्मरन्ति जनार्दनम् ।
न तेषां पुण्यतीर्थेषु गतिः संसर्गिणामपि ॥ १२.३३६.३६ ॥
那些憎恨大我、不忆念遮那陀那的人,在圣洁的福德圣地没有去处;与他们交往的人也没有。
12.336.37
उद्युक्ता ब्राह्मणी भीता प्रतियाता सुतैः सह ।
स्वदेहस्था जजापैवं सपुत्रा ध्यानतत्परा ॥ १२.३३६.३७ ॥
受惊的婆罗门妇人决意带着儿子返回。她安住于自己的身体之中,专心于禅定,与儿子们一同如此持诵念修。
12.336.38
अनन्तस्य हरेः शुद्धं नाम वै द्वादशाक्षरम् ।
वत्सरत्रितये पूर्णे ब्राह्मणी पुनरागता ॥ १२.३३६.३८ ॥
无穷之哈里那纯净的十二字之名——三年圆满之时,婆罗门妇人再次来到。
12.336.39
सपुत्रा पुष्करद्वारं पिशाच्याह तथागतम् ।
नमस्ते ब्राह्मणि शुभे पूताऽहं तव दर्शनात् ॥ १२.३३६.३९ ॥
在普什卡门前,食人鬼对如此与儿子们前来的婆罗门妇人说:“婆罗门啊,吉祥者,向你致敬;因见到你,我已得清净。”
12.336.40
कुरु तीर्थाभिषेकं च सपुत्रा पापवर्जिता ।
हरेर्नाम्ना च मां साध्वी जलेन स्प्रष्टुमर्हसि ॥ १२.३३६.४० ॥
无罪者啊,请与儿子们在圣渡口沐浴;贤德的女子啊,请以哈里之名,用水触碰我。
12.336.41
इत्युक्ता ब्राह्मणी हृष्टा पुत्रैः सह शुभव्रता ।
जलेन प्रोक्षयामास द्वादशाक्षरसंयुतम् ॥ १२.३३६.४१ ॥
如此被告知后,持善愿的婆罗门妇人欢喜,与儿子们一同以联结着十二字之名的水洒向她。
12.336.42
तत्क्षणादभवच्छुद्धा पिशाची दिव्यरूपिणी ।
अप्सरा ह्यभवद्दिव्या गता स्वर्लोकमुत्तभम् ॥ १२.३३६.४२ ॥
就在那一刻,食人鬼得到清净,化为天界之形;她成为天上的天女,前往至高的天界。
12.336.43
ब्राह्मणी चैव कालेन वासुदेवपरायणा ।
सपुत्रा चागता स्थानमच्युतस्य शुभं परम् ॥ १२.३३६.४३ ॥
一位婆罗门妇人也随着时日,虔诚归依婆苏提婆,与其子一同抵达阿周陀吉祥的至高之处。
12.336.44
एतत्ते कथितं विद्वन्मुने कालोऽयमागतः ॥ १२.३३६.४४ ॥
学者啊,我已向你讲述了这些,此时已经到来。
12.336.45
गमिष्येऽहं महाप्राज्ञ आगमिष्यामि वै पुनः ।
इत्युक्त्वा स जगामाथ नारदो वदतांवरः ॥ १२.३३६.४५ ॥
"大智者啊,我将离去,但必定会再来。" 说完,言辞中最出众的那罗陀便离开了。
12.336.46
द्वैपायनस्तु भगवांस्तच्छ्रुत्वा मुनिसत्तमात् ।
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्।
स्वरेणोच्चैः सशैक्ष्येण लोकानापूरयन्निव ॥ १२.३३६.४६ ॥
然而,尊贵的毗耶娑听闻此言于最优秀的圣者,便与其子鹦鹉(Śuka)一同诵习吠陀,声音洪亮,连同弟子的诵读,仿佛充满了诸世界。
12.336.47
तयोरभ्यसतोरेव नानाधर्मप्रवादिनोः ।
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः ॥ १२.३३६.४७ ॥
当那两人阐述诸种法义而诵习之时,被海风搅动的风猛烈地吹了起来。
12.336.48
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् ।
शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥ १२.३३६.४८ ॥
于是毗耶娑对其子说:"这是不宜诵习的时节(anadhyāya)。"然而,儿子虽被制止,心中仍充满好奇。
12.336.49
अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम् ।
आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम् ॥ १२.३३६.४९ ॥
他问父亲:
12.336.50
शुकस्यैतद्वचः श्रुत्वा व्यासः परमधर्मवित् ।
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत् ॥ १२.३३६.५० ॥
毗耶娑闻知殊迦之言,精通至高法,于此停止诵读之时,乃说此言。
12.336.51
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः ।
तमसा रजसा चापि त्यक्तः सत्वे व्यवस्थितः ॥ १२.३३६.५१ ॥
你的天眼已生,你的心安定不动;舍弃黑暗与激情,你已安住于善性之中。
12.336.52
आदर्शे रस्वामिव च्छायां पश्यस्यात्मानमात्मना ।
न्यस्यात्मनि स्वयं चेतो बुद्ध्या समनुचिन्तय ॥ १२.३३६.५२ ॥
如人在镜中见自己的影子,你以自己观照自己。将心置于自身之内,以智慧善加思惟。
12.336.53
देवयानपथो विष्णुः पितृयानपथो रविः ।
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः ॥ १२.३३६.५३ ॥
天神之道为毗湿奴,祖先之道为太阳。死后,这两条道路通往天界与下界。
12.336.54
पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः ।
सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः ॥ १२.३३६.५४ ॥
于大地与虚空之中,诸风所共吹之处,此即七种风道。依次当知之。
12.336.55
तत्र देवगणाः साध्याः संबभूवुर्महाबलाः ।
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ॥ १२.३३६.५५ ॥
那里诞生了大力的悉陀众神。他们也有一子,名叫Samāna,难以战胜。
12.336.56
उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः ।
अपानश्च ततो ज्ञेयः प्राणश्चापि तताऽपरः ॥ १२.३३६.५६ ॥
他的儿子是Udāna;Udāna的儿子是Vyāna。其后应知Apāna,而从他又生出另一位,名为Prāṇa。
12.336.57
अनपत्योऽभवत्प्राणो दुर्घर्षः शत्रुतापनः ।
पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् ॥ १२.३३६.५७ ॥
Prāṇa无子嗣,难以攻破,是烧灼敌人者。现在我将如实说明他们各自的职能。
12.336.58
प्राणिनां सर्वतो वायुश्रेष्टां वर्तयते पृथक् ।
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ॥ १२.३३६.५८ ॥
风在一切众生中各自推动最殊胜的生命作用;因众生呼吸,故称之为Prāṇa。
12.336.59
प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः ।
प्रथमः प्रथमे मार्गे आवहो नाम योऽनिलः ॥ १२.३३६.५९ ॥
驱动由烟雾与热气所生云团的风——在第一条道路上居首——名为Āvaha。
12.336.60
अम्बरे स्नेहमभ्रेभ्यस्तटिद्भ्यश्च महाद्युतिः ।
प्रवहो नाम संवाति द्वितीयश्च सतोयदः ॥ १२.३३६.६० ॥
天空中,将云与闪电之中的水汽吹送的大光辉之风,名为Pravaha;它是第二者,并且能降雨。
12.336.61
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः ।
अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः ॥ १२.३३६.६१ ॥
他恒常使月亮等诸光明升起,而智者称其在身体之内为“上气”(udāna)。
12.336.62
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम् ।
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः ॥ १२.३३६.६२ ॥
从四大海中承载水分,并在天空中从云中提起并取走水的风,即是阿尼罗(Anila)。
12.336.63
योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति ।
उद्वहो नाम वर्षिष्ठस्तृतीयः स सदागतिः ॥ १२.३३६.६३ ॥
他将水与云相合,交给雨神帕尔贾尼亚,他是第三种名为乌德瓦哈的风,最能降雨,恒常流动。
12.336.64
समुह्यमाना बहुधा येन नीताः पृथग्घनाः ।
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः ॥ १२.३३६.६४ ॥
被他以多种方式载运、分别带来的云,一旦开始降雨,便成为浓密的雷云(ghanāghana)。
12.336.65
संहता येन चाविद्धा भवन्ति नदनान्तराः ।
रक्षणार्थाय संभूता मेघत्वमुपश्यान्ति च ॥ १२.३३६.६५ ॥
被他聚合、未被穿透、间隔中有雷鸣的云,为了守护而生,便获得云的状态。
12.336.66
योऽसौ वहति देवानां विमानानि विहायसा ।
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ॥ १२.३३६.६६ ॥
他在空中载运诸神的天车,他是第四种名为僧瓦哈的风,即摧山者。
12.336.67
येन वेगवता तूर्णं रूक्षेणारुजता रसान् ।
वायुना विहता मेघा न भवन्ति बलाहकाः ॥ १२.३३६.६७ ॥
疾速而干燥的风迅速吹散水汽,被它驱走的云便不再成为雨云。
12.336.68
दारुणोत्पातसंचारो नभसः स्तनयित्नुमान् ।
पञ्चमः स महावेगो विवहो नाम मारुतः ॥ १२.३३६.६८ ॥
第五种风在天空中以可怕的猛烈运动回旋,雷鸣作响,速度极大,名为毗婆诃。
12.336.69
यस्मिन्पारिप्लवा दिव्या भवन्त्यापो विहायसा ।
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति ॥ १२.३३६.६९ ॥
其中天上流动着神圣的水,它托住天河的圣水而屹立。
12.336.70
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ।
यो निरंशुः सहस्रस्य येन भाति वसुंधरा ॥ १२.३३६.७० ॥
其中远处便被击回的单光之日——即千光者的无光之体——借此大地得以照耀。
12.336.71
यस्मादाप्यायते सोमो योनिर्दिव्योऽमृतस्य यः ।
षष्ठः पिरवहो नाम स वायुर्जयतांवरः ॥ १२.३३६.७१ ॥
月亮借此得到滋养,它是甘露的神圣源泉——第六种风名为波利婆诃,是胜利者中的至尊。
12.336.72
सर्वप्राणभृतां प्राणान्योऽनुकाले निरस्यति ।
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ ॥ १२.३३६.७२ ॥
他在适当的时候驱出一切众生的生气,而死神与毗婆娑都循其道而行。
12.336.73
सम्यगन्वीक्षतां बुद्ध्या शान्तयाऽध्यात्मचिन्तकाः ।
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ॥ १२.३३६.७३ ॥
对于以平静之智正确思辨、并乐于修习禅定的内在自我思考者而言,这导向不死。
12.336.74
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे ।
दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः ॥ १२.३३६.७४ ॥
以疾速达到之后,他们前往四方的尽头——创造主达刹的十子的数千人。
12.336.75
येन सृष्टः पराभूतो यात्येव न निवर्तते ।
परावहो नाम परो वायुः स दुरतिक्रमः ॥ १२.३३६.७५ ॥
被其派遣者,即使被击败,也只是离去而不返回:这便是名为Parāvaha的至上之风,难以超越。
12.336.76
एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः ।
अनारतं ते संवान्ति सर्वगाः सर्वधारिणः ॥ १२.३३६.७६ ॥
如此,阿底提的这些子嗣摩录多(Marut)极其奇妙;他们不停地吹动,遍行一切,并承载一切。
12.336.77
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः ।
कम्पितः सहसा तेन वायुनाऽतिप्रवायता ॥ १२.३३६.७७ ॥
这确实是一个大奇迹:这座最殊胜的山竟被那极其猛烈吹来的风突然撼动。
12.336.78
विष्णोर्निः श्वासवातोऽयं यदा वेगसमीरितः ।
सहसोदीर्यते तात जगत्प्रव्यथते तदा ॥ १२.३३६.७८ ॥
当毗湿奴呼吸之风被其力量激动而突然升起时,孩子啊,那时世界便会震颤。
12.336.79
तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति ।
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् ॥ १२.३३६.७९ ॥
因此,通晓吠陀者在风势过猛时不诵习吠陀。据说风畏惧风;那时,梵(吠陀)便受到扰乱。
12.336.80
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः ।
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात्तदा ॥ १२.३३६.८० ॥
说完这些话,帕拉萨拉之子、那位主者对儿子说:“去学习吧!”随后便前往天上的恒河。