Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.342

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.342.1

गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः ।
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥ १२.३४२.१ ॥

无论是居家者、梵行学生、林居者还是乞食者,欲求成就者应当崇拜哪一位神祇?

12.342.2

कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैःश्रेयसं परम् ।
विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च ॥ १२.३४२.२ ॥

如何得到恒久的天界与至高的福祉?应依何种仪轨向诸神与祖先献祭?

12.342.3

मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः ।
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ॥ १२.३४२.३ ॥

解脱之人走向何种境界?解脱的本质为何?到达天界后应当做什么,才不会从天界坠落?

12.342.4

देवतानां च को देवः पितॄणां च पिता तथा ।
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ॥ १२.३४२.४ ॥

诸神之中谁是神?祖先之中谁是父?请告诉我比他们更高的是什么,祖父啊。

12.342.5

गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ ।
न ह्येतत्तर्कया शक्यं वक्तुं वर्षशतैरपि ॥ १२.३४२.५ ॥

无罪的人啊,你这熟知问题的人向我提出了一个隐微之问。即使经过数百年的推理,也难以言说。

12.342.6

ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा ।
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् ॥ १२.३४२.६ ॥

若非得诸神之恩,或非获得智慧,王啊——此教法甚深。灭敌者啊,应由你来阐释。

12.342.7

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादमृषेर्नारायणस्य च ॥ १२.३४२.७ ॥

此处人们也引用这段古老的故事——那罗陀与仙人那罗延的对话。

12.342.8

नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः ।
धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत ॥ १२.३४२.८ ॥

那罗延是宇宙之我,具四相,永恒;他从法之自性之子而生——我父如此对我说。

12.342.9

कृते युगे महाराज पुरा स्वायंभुवेऽन्तरे ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ १२.३४२.९ ॥

大王啊,在克利塔时代,往昔,斯瓦扬布瓦摩奴时期:那罗与那罗延,同样还有诃利与黑天。

12.342.10

तेषां नारायणनरौ तपस्तेपतुरव्ययौ ।
बदर्याश्रममासाद्य शकटे कनकामये ॥ १२.३४२.१० ॥

其中,两位不朽者那罗延与那罗,抵达跋达利苦行林,乘金车修行苦行。

12.342.11

अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् ।
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ ॥ १२.३४२.११ ॥

那车有八轮,由诸元素驾驭,极其美妙;那里的两位原初世界主宰消瘦,布满血管。

12.342.12

तपसा तेजसा चैव दुर्निरीक्ष्यौ सुरैरपि ।
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति ॥ १२.३४२.१२ ॥

以苦行与光辉,那二者即使诸神也难以得见;谁得他们恩典,谁便能见到那两位神。

12.342.13

नूनं तयोरनुमते हृदि हृच्छपचोदितः ।
महामेरोगिंरेः शृङ्गात्प्रत्युतो गन्धमादनम् ॥ १२.३४२.१३ ॥

诚然,经二者同意,受心中心咒所驱,从大须弥山之巅折返,前往乾陀摩陀那。

12.342.14

नारदः सुमहद्भूतं सर्वलोकानचीचरत् ।
तं देशमगमद्राजन्वदर्याश्रममाशुगः ॥ १२.३४२.१४ ॥

大仙那罗陀遍历一切世界;大王啊,他迅速前往那个地方,即菩提树林的隐修处。

12.342.15

तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् ।
इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः ॥ १२.३४२.१५ ॥

在他们日常仪式的时候,他心中生起了好奇:这便是诸世界所安立的整个处所。

12.342.16

सदेवासुरगन्धर्वाः सकिन्नरमहोरगाः ।
एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा ॥ १२.३४२.१६ ॥

与诸天、阿修罗、乾闼婆、紧那罗及大蛇一起——这一形体先前诞生,之后又分为四种。

12.342.17

धर्मस्य कुलसंताने धर्मादेभिर्विवर्धितः ।
अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह ॥ १२.३४२.१७ ॥

在法的族系中,由这些从法而来者所养育——啊!今日在此,法确实蒙受了这些诸天的恩惠。

12.342.18

नरनारायणाभ्यां च कृष्णेन हरिणा तथा ।
अत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे ॥ १२.३४२.१८ ॥

由那罗与那罗延,同样由黑天与诃梨所成——此处黑天与诃梨也因某种别的缘由。

12.342.19

स्थितौ धर्मसुतावेतौ तथा तपसि धिष्ठितौ ।
एतौ हि परमं धाम काऽनयोराह्निकक्रिया ॥ १२.३४२.१९ ॥

这两位法之子安住于苦行之中。这二位即是至高之所。这二位每日的仪轨是什么?

12.342.20

पितरौ सर्वभूतानां दैवतं च यशस्विनौ ।
कां देवतां तु यजतः पितॄन्वा कान्महामती ॥ १२.३४२.२० ॥

这两位尊贵者是一切众生的父母与神明。行祭者应供奉哪位神明,或是祖先呢?大智者啊!

12.342.21

इति संचिन्त्य मनसा भक्त्या नारायणस्य तु ।
सहसा प्रादुरभवत्समीपे देवयोस्तदा ॥ १२.३४२.२१ ॥

如此在心中思量,怀着对那罗延的虔敬,那时他忽然出现在那两位神明的身边。

12.342.22

कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः ।
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः ॥ १२.३४२.२२ ॥

神祭与祖祭既已完成,那二位便望见他,并依照经典所规定的仪轨,如法地礼敬了他。

12.342.23

तद्दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् ।
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः ॥ १२.३४२.२३ ॥

那位那罗陀仙人见此大奇迹与前所未有的仪式之盛,心中大悦,便在近旁坐下。

12.342.24

नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना ।
नमस्कृत्य महादेवमिदं वचनमब्रवीत् ॥ १२.३४२.२४ ॥

他以平静的心仔细望着那罗延,向大天神致敬后,说出了这些话。

12.342.25

वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे ।
त्वमजः शाश्वतो धाता माता मृतमनुत्तमम् ॥ १२.३४२.२५ ॥

你在吠陀、往世书及其支分和副支分中被颂扬。你是无生者、永恒者、持有者、母亲,也是至上的甘露。

12.342.26

प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् ।
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः ॥ १२.३४२.२६ ॥

这整个世界,过去与未来的一切,都安立于你之中。天神啊,四住期皆以居家生活为根本。

12.342.27

यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् ।
पिता माता च सर्वस्य देवतानां च शाश्वतम्।
कं त्वद्य यजसे देवं पितरं कं न विद्महे ॥ १२.३४२.२७ ॥

他们日复一日地崇拜你,你安住于众多形相之中。你是一切众生及诸天神永恒的父与母。今天你敬拜的是哪位神?我们不认识的又是哪位父亲?

12.342.28

कमर्चसि महाभाग तन्मे प्रब्रूहि पृच्छतः ॥ १२.३४२.२८ ॥

大福之人啊,你崇拜的是谁?请告诉我这个问询者。

12.342.29

अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् ।
तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम् ॥ १२.३४२.२९ ॥

此事不可言说,却必须言说:这是自我的永恒秘密。婆罗门啊,因你有虔信,我将如实告诉你。

12.342.30

यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् ।
इन्द्रियैन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ॥ १२.३४२.३० ॥

那微妙、不可知、未显现、不动而恒常者,超越于诸根、诸根之境及一切众生。

12.342.31

स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ।
त्रिगुणव्यतिरिक्तो वै पुरुषश्चेति कल्पितः ॥ १२.३४२.३१ ॥

他是众生的内在我,被称为知场者。他被设想为超越三德的原人。

12.342.32

तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ।
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरव्यया ॥ १२.३४२.३२ ॥

因此,二生者中最优秀者啊,从未显者生出了由三德构成的显者。处于未显与显现两种状态中的,正是不灭的自性。

12.342.33

तां योनिमावयोर्विद्धि योसौ सदसदात्मकः ।
आवाभ्यां पूज्यते यो हि दैवे पित्र्ये च कल्प्यते ॥ १२.३४२.३३ ॥

要知道,那是我们二者的根源。它具有有与无的本性;我们二人所崇拜的正是它,也是神祭与祖先祭中所规定的。

12.342.34

नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथवा द्विज ।
आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे ॥ १२.३४२.३४ ॥

二生者啊,除此之外没有比它更高的父亲或神。应当认识到它是我们二人的自我;因此让我们二人敬拜它。

12.342.35

तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकमाविनी ।
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ॥ १२.३४२.३५ ॥

婆罗门啊,由此确立了这一遍布诸世界的准则:应当行神祭与祖先祭。这便是他的教诫。

12.342.36

ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तथा यमः ।
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ॥ १२.३४२.३६ ॥

梵天、湿婆(Sthāṇu)、摩奴、达刹、婆利固、法、阎摩,以及摩利制、安吉罗、阿低利、补拉斯底耶、补拉诃和羯罗图。

12.342.37

वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च ।
कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च ॥ १२.३४२.३७ ॥

婆私吒、最高者、毗婆娑婆、月神、迦尔达摩,以及也被称为愤怒与毗克利陀者。

12.342.38

एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः ।
तस्य देवस्य मर्यादां पूजयन्तः सनातनीम् ॥ १२.३४२.३८ ॥

这二十一位众生之主被记为所生,他们礼敬那位神的永恒规范。

12.342.39

दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः ।
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ॥ १२.३४२.३९ ॥

真实地认识他,并恒常行神祭与祖先祭,最优秀的再生者也知道由自我所得之物。

12.342.40

स्वर्गस्था अपि ये केचित्तान्नमस्यन्ति देहिनः ।
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् ॥ १२.३४२.४० ॥

凡在天界者中,有人被有形众生礼敬,他们凭其恩典,走向由他所定果报的归宿。

12.342.41

ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च ।
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ॥ १२.३४२.४१ ॥

远离十七种性质与业行、舍弃十五分者,即得解脱——这是确定的。

12.342.42

मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पिता ।
स हि सर्वगतिश्चैव निर्गुणश्चैव कथ्यते ॥ १२.३४२.४२ ॥

婆罗门啊,解脱者的归宿被设想为“知田者”;据说他遍在而又无性质。

12.342.43

दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः ।
एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् ॥ १२.३४२.४३ ॥

以知识瑜伽可见他,我们二人由此而生。如此认识那永恒的自我,让我们崇拜他。

12.342.44

तं वेदाश्चाश्रमाश्चैव नानातनुसमाश्रितम् ।
भक्त्या संपूजयन्त्यद्य गतिं चैषां ददाति सः ॥ १२.३४२.४४ ॥

那寄居于众多身体中的他,吠陀与各个生命阶段今日都以虔诚崇拜他;他赐予他们归宿。

12.342.45

ये तु तद्भाविता लोके ह्येकान्तित्वं समास्थिताः ।
एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत ॥ १२.३४२.४५ ॥

然而对于世间那些沉浸于他、安住于专一虔诚的人,这更为殊胜:他们确实进入于他之中。

12.342.46

इति गुह्यसमुद्देशस्तव नारद कीर्तितः ।
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः ॥ १२.३४२.४६ ॥

纳罗陀啊,如此,这秘密的阐述已向你宣说。婆罗门中的圣贤啊,因为虔诚与爱,也因你对我们的虔诚,你已经听闻了它。