Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.343

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.343.1

स एवमुक्तो द्विपदां वरिष्ठो ।
नारायणेनोत्तमपूरुषेण।
जगाद वाक्यं द्विपदां वरिष्ठं ।
नारायणं लोकहिताधिवासम् ॥ १२.३४३.१ ॥

至上神那罗延如此开口后,人中最优者对那为世界福祉而住的那罗延说出了这些话。

12.343.2

यदर्थमात्मप्रभवेह जन्म ।
त्वयोत्तमं धर्मगृहे चतुर्धा।
तत्साध्यतां लोकहितार्थमद्य ।
गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् ॥ १२.३४३.२ ॥

愿你自生而来此降生的目的,即你在法之居所以四重形态成为至上者的那目的,如今为世界的福祉而成就。我去观看你当下的本性。

12.343.3

वेदाः स्वधीता मम लोकनाथ ।
तप्तं तपो नानृतमुक्तपूर्वम्।
पूजां गुरूणां सततं करोमि ।
परस्य गुह्यं न तु भिन्नपूर्वम् ॥ १२.३४३.३ ॥

哦,世界之主,我善习吠陀,修行苦行;从未说过谎话,常常恭敬老师,也从未泄露过他人的秘密。

12.343.4

गुप्तानि चत्वारि यथागमं मे ।
शत्रौ च मित्रे च समोस्मि नित्यम्।
तं चादिदेवं सततं प्रपन्न ।
एकान्तभावेन वृणोभ्यजस्रम् ॥ १२.३४३.४ ॥

依照经典,我守持四种秘密的誓愿;对敌人与朋友,我始终一视同仁。我常常皈依那原初之神,以专一的虔诚不断地只选择他。

12.343.5

एभिर्विशेषैः परिशृद्धसत्वः ।
कस्मान्न पश्येयमनन्तमीशम्।
तत्पारमेष्ठ्यस्य वचो निशम्य ।
नारायणः शाश्वतधर्मगोप्ता ॥ १२.३४३.५ ॥

我以这些殊胜之德而本性清净,为何不能见到无限的主?那至上居所的话被听见后,永恒法的守护者那罗延(回答)。

12.343.6

गच्छेति तं नारदमुक्तबान्स ।
संपूजयित्वा विधिवत्क्रियाभिः।
ततो विसृष्टः परमेष्ठिपुत्रः ।
सोऽभ्यर्चयित्वा तमृषिं पुराणम् ॥ १२.३४३.६ ॥

他对那仙人说:“去吧。”依仪轨以祭礼恭敬供养之后,梵天之子便被遣去。他礼敬了那位古老的仙人。

12.343.7

खमुत्पपातोत्तमयोगयुक्त ।
स्ततोऽधिमेरौ सहसा निलिल्ये।
तत्रावतस्थे च मुनिर्मुर्हुत ।
मेकान्तमासाद्य गिरेः स शृङ्क्ते ॥ १२.३४३.७ ॥

他具足无上瑜伽,升入天空;随后忽然在须弥山上方隐没。那位圣者在那里停留片刻,到达山的一处僻静峰顶后,便留在了那里。

12.343.8

आलोकयन्नुत्तरपश्चिमेन ।
ददर्श चाप्यद्भुतमुक्तरूपम्।
क्षीरोदधेर्योत्तरतो हि द्वीपः ।
श्वेतः स नाम्ना प्रथितो विशालः ॥ १२.३४३.८ ॥

他望向西北,又看到一座形貌奇特的奇妙岛屿。在乳海以北有这座岛,广阔而以白岛(Śveta)之名闻名。

12.343.9

मेरोः सहस्रैः स हि योजनानां ।
द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः।
अनिन्द्रियाश्चानशनाश्च तत्र ।
निष्पन्दहीनाः सुसुगन्धिनस्ते ॥ १२.३४३.९ ॥

智者说,它位于须弥山之上数千由旬又三十二由旬处。那里居住着无感官、不食之物的众生,静止不动,极其芬芳。

12.343.10

श्वेताः पुमांसो गतसर्वपापा ।
श्चक्षुर्मुषः पापकृतां नराणाम्।
वज्रास्थिकायाः सममानोन्माना ।
दिव्यावयवरूपाः शुभसारोपेताः ॥ १२.३४३.१० ॥

他们是白色的人,已脱离一切罪业,夺人眼目(于光辉)。他们的身体骨骼如金刚,度量与比例均衡;肢体具神圣之形,具备吉祥之精华。

12.343.11

छत्राकृतिशीर्षा मेघौघनिनादाः ।
सममुष्कचतुष्का राजीवच्छदपादाः।
षष्ठ्या दन्तैर्युक्ताः शुक्लैरष्टाभिर्दंष्ट्राभिर्ये ।
जिह्वाभिर्ये विश्ववक्रंलेलिह्यन्ते सूर्यप्रख्यम् ॥ १२.३४३.११ ॥

头如伞盖,声如云雷轰鸣,四肢相等,足如莲瓣;具六十颗牙齿与八根白色獠牙,以舌舔舐如太阳般的面容。

12.343.13

सर्वे तस्य निसर्ग इति ।
युधिष्ठिर उवाच।
अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ।
कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा ॥ १२.३४३.१३ ॥

这都是他们的本性。坚战说:那些无感官、无饮食、不动、有香气的人是如何出生的?他们最高的归宿是什么?

12.343.14

ये च मुक्ता भवन्तीह नरा भरतसत्तम ।
तेषां लक्षणमेतद्धि तच्छ्वेतद्द्वीपवासिनाम् ॥ १२.३४३.१४ ॥

婆罗多之最!此乃在此获得解脱之人的标志;这也是白洲居民的标志。

12.343.15

तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे ।
त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम् ॥ १२.३४३.१५ ॥

请为我断除疑惑,我心中甚是好奇。您乐于讲述一切故事,我们都依靠您。

12.343.16

विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसन्निधौ ।
यैषा तव हि वक्तव्या कथासारो हि सा मता ॥ १२.३४३.१६ ॥

国王啊,此长篇故事我曾在父亲面前听闻。它值得讲给您听,因为它被视为故事的精华。

12.343.17

शन्तनोः कथयामास नारदो मुनिसत्तमः ।
राज्ञा पृष्टः पुरा प्राह तत्राहं श्रुतवान्पुरा ॥ १२.३४३.१७ ॥

最优秀的仙人那罗陀曾把这件事讲给桑坦努听。往昔国王问起时,他便讲述;而我在那里早已听过。

12.343.18

राजोपरिचरो नाम बभूवाधिपतिर्भुवः ।
आखण्डलसखः ख्यातो भक्तो नारायणं हरिं ॥ १२.३४३.१८ ॥

一位名叫乌帕里恰罗的国王成为大地的主宰;他以因陀罗之友而闻名,并虔诚地奉事那罗延哈里。

12.343.19

धार्मिको नित्यभक्तश्च पितुर्नित्यमतन्द्रितः ।
साम्राज्यं तेन संप्राप्तं नारायणवरात्पुरा ॥ १२.३४३.१९ ॥

他正直,常怀虔诚,对父亲始终不知疲倦。往昔,凭那罗延的恩赐,他获得了王权。

12.343.20

सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम् ।
पूजयामास देवेशं तच्छेषेण पितामहान् ॥ १२.३४३.२० ॥

他遵循先前从太阳之口传出的萨特瓦特仪轨,供奉诸神之主;并以其余物供养祖先。

12.343.21

पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः ।
शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः ॥ १२.३४३.२१ ॥

他把祖先的供余分给婆罗门和依附者,自己则食用剩余的食物;他专注于真理,对一切众生都不加伤害。

12.343.22

सर्वभावेन भक्तः स देवदेवं जनार्दनम् ।
अनादिमध्यनिधनं लोककर्तारमव्ययम् ॥ १२.३४३.२२ ॥

他全心全意地虔信神中之神遮那陀那——无始无中无终、世界的创造者、不朽者。

12.343.23

तस्य नारायणे भक्तिं वहतोऽमित्रकर्शिनः ।
एकशय्यासनं देवो दत्तवान्देवराट् स्वयम् ॥ १२.३४३.२३ ॥

那位对那罗延怀有虔诚、摧伏敌人的人,天神之王,天神本人亲自赐予他同一张床与同一个座位。

12.343.24

आत्मराज्यं धनं चैव कलत्रं वाहनं तथा ।
यत्तद्भागवतं सर्वमिति तत्प्रेषितं सदा ॥ १२.३४३.२४ ॥

他自己的王国、财富、妻子、车乘以及一切,都被视为属于虔信者,并且总是送给他。

12.343.25

काम्यनैमित्तिका राजन्यज्ञियाः परमक्रियाः ।
सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः ॥ १२.३४३.२५ ॥

大王啊,他依循萨特瓦特之道,以专注的心完成了所有仪式:有所求的与按时节的仪式、刹帝利的祭祀,以及一切至上的功课。

12.343.26

पाञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः ।
वरान्नं भगवत्प्रोक्तं भुञ्जते वाऽग्रभोजनम् ॥ १२.३४३.२६ ॥

那位大德家中,通晓般遮罗多的上首们食用世尊所说的上等食物,或者接受他第一份食物。

12.343.27

तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः ।
नानृता वाक्समभवन्मनो दुष्टं न चाभवत्।
न च कायेन कृतवान्स पापं परमण्वपि ॥ १२.३४३.२७ ॥

那位摧伏敌人的人依法统治国土之时,他的言语中没有虚妄,心也没有变得邪恶,身体上也从未犯下哪怕微小如微尘的罪过。

12.343.28

ये हि ते ऋषयः ख्याताः सप्त चित्रशिखण्डिनः ।
तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् ॥ १२.३४३.२८ ॥

那七位名为「奇冠」的著名仙人,意见一致,宣说了这部至上的论典。

12.343.29

वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ ।
आस्यैः सप्तभिरुद्गीर्णं लोकधर्ममनुत्तमम् ॥ १२.३४३.२९ ॥

以四吠陀圆满编成于大山弥卢之上,由七口宣说,乃世间法之至上者。

12.343.30

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महातेजास्ते हि चित्रशिखण्डिनः ॥ १२.३४३.३० ॥

摩里伽、阿特里、安吉罗、补罗斯底耶、补罗诃、迦陀,以及大光明的婆私湿陀——他们便是“彩冠者”。

12.343.31

सप्त प्रकृतयो ह्येतास्तथा स्वायंभुवोऽष्टमः ।
एताभिर्धार्यते लोकस्ताभ्याः शास्त्रं विनिःसृतं ॥ १२.३४३.३१ ॥

此七者为根本之性,第八为自生者(摩奴)。世界由此维系,而典籍亦由此出现。

12.343.32

एकाग्रमनसो दान्ता मुनयः संयमे रताः ।
भूतभव्यभविष्यज्ञाः सत्यधर्मपरायणाः ॥ १२.३४३.३२ ॥

专心一意、克己节制的仙人,乐于修持;通晓过去、未来与现在,专一于真理与法。

12.343.33

इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।
लोकान्संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे ॥ १२.३४३.३३ ॥

此为至善,此为梵,此为无上之利。他们以心深思诸世界之后,方才著作此论。

12.343.34

तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः ।
मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः ॥ १२.३४३.३४ ॥

其中阐明法、利、欲,末后宣说解脱;天上与地上所立的种种规范,也在其中被宣说。

12.343.35

आराध्य तपसा देवं हरिं नारायणं प्रभुम् ।
दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह ॥ १२.३४३.३५ ॥

以苦行崇拜神哈里、那罗延、主宰之后,他们与诸仙人共度了千年天年。

12.343.36

नारायणानुशिष्टा हि तदा देवी सरस्वती ।
विवेश तानृषीन्सर्वाल्लोँकानां हितकाम्यया ॥ १२.३४३.३६ ॥

于是女神萨罗室伐底受那罗延教导,出于利益诸世间的愿望,进入了所有那些仙人之中。

12.343.37

ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः ।
शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा ॥ १२.३४३.३७ ॥

随后,由知晓苦行的再生者如理推动,这一学问诞生于初次创造,在声、义与理之中。

12.343.38

आदावेव हि तच्छास्त्रमोंकारस्वरपूजितम् ।
ऋषिभिः श्रावितं तत्र यत्र कारुणिकोह्यसौ ॥ १२.३४३.३८ ॥

在最初,那部以唵声敬奉的论典,由诸仙人宣讲,在那里,那位慈悲者(同在)。

12.343.39

ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः ।
ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः ॥ १२.३४३.३९ ॥

于是喜悦的世尊,行于不定之身,不可见的至上人,对诸仙人说道。

12.343.40

कृतं शतसहस्रं हि श्लोकानां हितमुत्तमम् ।
लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते ॥ १२.३४३.४० ॥

已作成十万颂的至善利益之书,由此,整个世界秩序的法得以流行。

12.343.41

प्रवृत्तौ च निवृत्तौ च यस्मादेतद्भविष्यति ।
यजुर्ऋक्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥ १२.३४३.४१ ॥

在入世与出世之中,因为此将存在;为《夜柔》、《梨俱》、《娑摩》及《阿闼婆-央耆罗》所奉行。

12.343.42

यथाप्रमाणं हिं मया कृतो ब्रह्म प्रसादतः ।
रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा। ॥ १२.३४३.४२ ॥

如其尺度,此由我依梵天之恩而作;楼陀罗生于忿怒,婆罗门们,你们也同样是诸自性。

12.343.43

सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च ।
सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम् ॥ १२.३४३.४३ ॥

日月、风、地、水与火;一切星宿群,以及被众生称谓者。

12.343.44

अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः ।
सर्वे प्रमाणं हि यथा तथा तच्छास्त्रमुत्तमम् ॥ १२.३४३.४४ ॥

梵之宣说者各居其位;一切皆是准量,那至上的论典亦是如此。

12.343.45

भविष्यति प्रमाणं वै एतन्मदनुशासनम् ।
तस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायंभुवः स्वयम् ॥ १२.३४३.४५ ॥

此乃我之教诫,必为准量;因此,自生之子摩奴将亲自宣说诸法。

12.343.46

उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः ।
तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् ॥ १२.३४३.४६ ॥

当乌娑那与毗诃娑帕提也降生之时,他们将宣说由你们智慧所提炼的论典。

12.343.47

स्वायंभुवेषु धर्मेषु शास्त्रे चोशनसा कृते ।
बृहस्पतिमते चैव लोकेषु प्रतिचारिते ॥ १२.३४३.४७ ॥

在自生主的法则中,在乌莎那所作的论典中,也在木星师的学说中,这些已在诸世界中流传。

12.343.48

युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः ।
बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः ॥ १२.३४३.४८ ॥

你们所作的这部论典,诸位婆罗门中的至尊啊,护民者婆修将从木星师那里获得。

12.343.49

स हि मद्भावनिरतो मद्भक्तश्च भविष्यति ।
तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति ॥ १२.३४३.४९ ॥

他将专心思念我,成为我的信徒;他将依照那部论典,在诸世界中完成一切祭仪。

12.343.50

एतद्धि युष्मच्छास्त्राणां शास्त्रमुत्तमसंज्ञितम् ।
एतदर्थ्यं च धर्म्यं च रहस्यं चैतदुत्तमम् ॥ १२.३४३.५० ॥

这部论典在你们的论典中被称为最上;它于此有益、合乎法,且秘密而至上。

12.343.51

अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ ।
स च राजश्रिया युक्तो भविष्यति महान्वसुः ॥ १२.३४३.५१ ॥

由于推行此书,你们将子嗣昌盛;那位伟大的婆修也将拥有王者的光辉。

12.343.52

संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम् ।
अन्तर्धास्यति तत्सर्वमेतद्वः कथितं मया ॥ १२.३४३.५२ ॥

那位君王离世之后,这部永恒的论典将会消失;这一切都已由我告诉了你们。

12.343.53

एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः ।
विसृज्य तानृषीन्सर्वान्कामपि प्रसृतो दिशम् ॥ १२.३४३.५३ ॥

说完这些话,那位不可见的至上人遣散了所有仙人,朝某个方向离去。

12.343.54

ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः ।
प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम् ॥ १२.३४३.५४ ॥

于是,那些关心一切世界福祉的世界之父,推行了那部作为法之源头的永恒论典。

12.343.55

उत्पन्नेऽङ्गिरसे चैव युगे प्रथमकल्पिते ।
साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ ॥ १२.३४३.५५ ॥

在最初所定的时代,当安吉罗斯之族出现时,把包括支分与奥义书在内的论典托付给布利哈斯帕提之后——

12.343.56

जग्मुर्यथेप्सितं सर्वलोकानां सर्वधर्मप्रवर्तकाः ॥ १२.३४३.५६ ॥

一切法的推行者便随心所欲地前往诸世界。