摩诃婆罗多 · 章 12.344
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.344.1
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते ।
बभूवुर्निर्वृता देवा जाते देवपुरोहिते ॥ १२.३४४.१ ॥
此后大劫已过,安吉罗斯之子降生,诸神便安乐了,诸神的祭司降生之时。
12.344.2
बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः ।
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः ॥ १२.३४४.२ ॥
大、梵、广,皆为同义之词。具足这些德性的智者便是布利哈斯帕提,大王啊。
12.344.3
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः ।
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजं ॥ १२.३४४.३ ॥
他最杰出的弟子是国王乌帕里恰拉·婆苏,当时他已通晓源自旗尖仙人(Citraśikhaṇḍin)的论典。
12.344.4
स राजा भावितः पूर्वं दैवेन विधिना वसुः ।
पालयामास पृथिवीं दिवमाखण्डलो यथा ॥ १२.३४४.४ ॥
那位国王婆苏,先前由天命与规矩所塑造,守护大地,正如因陀罗守护天界。
12.344.5
तस्य यज्ञो महानासीदश्वमेधो महात्मनः ।
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह ॥ १२.३४४.५ ॥
那位大德的大祭是马祭(Aśvamedha);在那里,导师布利哈斯帕提担任了呼唤祭司(Hotṛ)。
12.344.6
प्रजापतिसुताश्चात्र सदस्याश्चाभवंस्त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चैव मर्हषयः ॥ १२.३४४.६ ॥
此处,生主之子充任与会者:大仙人一多、二多与三多。
12.344.7
धनुषाख्योऽथ रैभ्यश्च अर्वावसुपरावसू ।
ऋषिर्मोधातिथिश्चैव ताण्ड्यश्चैव महानृषिः ॥ १२.३४४.७ ॥
达努沙、莱跋耶、阿尔瓦婆苏与婆罗婆苏,圣者梅陀提提,以及大仙坦衍耶。
12.344.8
ऋषिः शान्तिर्महाभागस्तथा वेदशिराश्च यः ।
ऋषिश्रेष्ठश्च कपिलः शालिहोत्रपिता स्मृतः ॥ १२.३४४.८ ॥
圣者寂静(Śānti)、大福者,同样还有吠陀头(Vedaśiras),以及圣者中最优秀的迦毗罗(Kapila),被称为沙利诃特罗之父。
12.344.9
आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः ।
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः ॥ १२.३४४.९ ॥
首先是迦陀(Kaṭha)、泰帝利(Taittiri)、毗舍衍那的先祖,迦纳婆(Kaṇva),然后是提婆呼恃罗(Devahotra)——这十六位被提及。
12.344.10
संभूताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ ।
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् ॥ १२.३४४.१० ॥
大王啊,在那场大祭祀中,所有供物都已齐备;那里没有宰杀牲畜,那位国王也就这样安住了。
12.344.11
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः ।
आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः ॥ १२.३४४.११ ॥
不害、清净、心胸宽广、无欲求报、以行为受赞;那里安排了由森林文本之词而生的份额。
12.344.12
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः ।
साक्षात्तं दर्शयामास सोदृश्योऽन्येन केनचित् ॥ १२.३४४.१२ ॥
于是,天神之神、古老的世尊对他感到欢喜,亲自向他显现;此神非他人所能得见。
12.344.13
स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान् ।
अदृश्येन हृतो भागो देवेन हरिमेधसा ॥ १२.३४४.१३ ॥
他亲自嗅了供品之分,取走了祭饼;这份供品被隐形之神哈里梅陀斯夺走。
12.344.14
बृहस्पतिस्ततः क्रुद्धः स्रुचमुद्यम्य वेगितः ।
आकाशं घ्नन्स्रुचः पातै रोषादश्रूण्यवर्तयत् ॥ १२.३४४.१४ ॥
于是愤怒的布利诃帕提迅速举起勺子,以勺击打天空,因愤怒而流泪。
12.344.15
उवाच चोपरिचरं मया भागोऽयमुद्यतः ।
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः ॥ १२.३४४.१५ ॥
他对优帕里恰罗说:"这份供品是我奉献的;神明亲自在我面前取走了它,毫无疑问。"
12.344.16
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह ।
किमर्थमिह न प्राप्तो दर्शनं मे हरिर्नृप ॥ १२.३४४.१६ ॥
供品之分已经献上,由诸神直接来到这里。国王啊,哈里为何不来这里让我见到他?
12.344.17
ततः स तं समुद्भूतं भूमिपालो महान्वसुः ।
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः ॥ १२.३४४.१७ ॥
于是那位大地的守护者、伟大的婆苏王安抚了因愤怒而起身的仙人;会众也以各种方式这样做了。
12.344.18
हुतस्त्वया वदानीह पुरोडाशस्य यावती ।
गृहीता देवदेवेन मत्प्रत्यक्षं न संशयः ॥ १२.३४४.१८ ॥
你在这里献上的祭饼有多少,请说出来。神中之神在我面前取走了它,毫无疑问。
12.344.19
इत्येवमुक्ते वसुना सरोषश्चाब्रवीद्गुरुः ।
न यजेयमहं चात्र परिभूतस्त्वया नृप ॥ १२.३४४.१९ ॥
婆苏如此说后,愤怒的导师(毗诃婆提)说道:国王啊,我不会在此行祭祀,因为你羞辱了我。
12.344.20
त्वया पशुर्वारितश्च कृतः पिष्टमयः पशुः ।
त्वं देवं पश्यसे नित्यं न पश्येयमहं कथम् ॥ १२.३४४.२० ॥
你禁止杀害动物,却让人用面粉做了一只动物。你总是看见神,我又怎能看不见他呢?
12.344.21
पशुहिंसा वारिता च यजुर्वेदादिमन्त्रतः ।
अहं न वारये हिंसां द्रक्ष्याम्येकान्तिको हरिम्।
तस्मात्कोपो न कर्तव्यो भवता गुरुणा मयि ॥ १२.३४४.२१ ॥
依据《夜柔吠陀》等咒文,杀害动物是被禁止的。我并不阻止暴力;我将专一地见到哈里。因此,导师啊,您不应对我发怒。
12.344.22
वसुमेवं ब्रुवाणं तु क्रुद्ध एव बृहस्पतिः ।
उवाच ऋत्विजश्चैव किं नः कर्मेति वारयन् ॥ १२.३४४.२२ ॥
婆苏如此说话时,愤怒的毗诃婆提对祭司们说,并制止婆苏道:“我们的职责是什么?”
12.344.23
अथैकतो द्वितश्चैव त्रितश्चैव महर्षयः ।
ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि ॥ १२.३४४.२३ ॥
于是,大仙人一、二、三也平静地对他说:“你不应发怒。”
12.344.24
शृणु त्वं वचनं पुत्र अस्माभिः समुदाहृतम् ।
नैष धर्मः कृतयुगे यत्त्वं रोषमिहाहिथाः ॥ १२.३४४.२४ ॥
孩子,听我们所说的话。在克里塔时代,你在此显露愤怒并非正法。
12.344.25
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः ।
न शक्यः स त्वया द्रष्टुमस्माभिर्वा बृहस्पते।
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १२.३४४.२५ ॥
他是无怒之神,此份祭供正是献给他的。哦,布里哈斯帕蒂,你我都无法见到他;唯有蒙他恩宠之人,才有资格见到他。
12.344.26
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः ।
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् ॥ १२.३४४.२६ ॥
我们被称为梵天意生之子。为了至高的福祉,我们曾经前往北方。
12.344.27
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् ।
एकपादा स्थिताः सम्यक्काष्ठभूताः समाहिताः ॥ १२.३४४.२७ ॥
修持至高苦行四千年之后,我们单足而立,如木石般静止,心神完全专注。
12.344.28
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः ।
स देशो यत्र नस्तप्तं तपः परमदारुणम् ॥ १२.३४४.२८ ॥
在须弥山北侧、乳海之滨,便是我们修持极为严酷苦行的所在。
12.344.29
वरेण्यं वरदं तं वै देवदेवं सनातनम् ।
कथं पश्येमहि वयं देवं नारायणं त्विति ॥ १२.३४४.२९ ॥
我们如何能见到那至尊、赐予恩惠的神中之神、永恒的那罗延天?
12.344.30
अथ व्रतस्यावभृथे वागुवाचाशरीरिणी ।
स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो ॥ १२.३४४.३० ॥
于是在誓愿圆满之时,一个无形之声开口了,以温柔而深沉、令人欢喜的声音说道。哦,伟大者!
12.344.31
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना ।
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं विभुम् ॥ १२.३४४.३१ ॥
诸位婆罗门啊,你们以清净的内心,将诸婆苏的苦行修得极好。你们作为求知而虔诚的修行者,将如何见到那遍在的主?
12.344.32
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः ।
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः ॥ १२.३४४.३२ ॥
在乳海之北有大光明的白洲。那里住着专一于那罗延的人,他们的光辉如同月亮。
12.344.33
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ।
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् ॥ १२.३४४.३३ ॥
那些达到专一虔诚境界的信徒,敬拜至上人,并进入那千光的永恒之神。
12.344.34
अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ।
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः।
गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः ॥ १२.३४४.३४ ॥
那些人离诸根,不食,不动,身有香气,专一于一境,居住在白洲。诸位仙人,你们去那里吧;我的自性就在那里显现。
12.344.35
अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम् ।
यथाख्यातेन मार्गेण तं देशं प्रविशेमहि ॥ १२.३४४.३५ ॥
于是我们都听到了那无形之声,便依照所说的道路,进入那个地方。
12.344.36
प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः ।
सहसा हि गताः सर्वे तेजसा तस्य मोहिताः ॥ १२.३४४.३६ ॥
抵达大白洲后,心念专注于他,渴望见到他,我们突然都去了;然而却被他的光辉所迷惑。
12.344.37
ततोऽस्मद्दृष्टिविषयस्तदा प्रतिहतोऽभवत् ।
न च पश्याम पुरुषं तत्तेजोहतदर्शनाः ॥ १२.३४४.३७ ॥
于是我们的视野被阻断,我们的目光被他的光辉所击,因而未能见到那位补鲁沙。
12.344.38
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम् ।
न किलातप्ततपसा शक्यते द्रष्टमञ्जसा ॥ १२.३४४.३८ ॥
于是我们心中生起由神圣契合而生的智慧,因为未行苦行的人不能轻易见到他。
12.344.39
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् ।
व्रतावसाने च शुभान्नरान्ददृशिमो वमय् ॥ १२.३४४.३९ ॥
此后,我们依当时之情实行百年大苦行,待誓愿圆满之时,见到了吉祥的人们。
12.344.40
श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् ।
नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्भुखान् ॥ १२.३४४.४० ॥
他们洁白如月,具足一切相好,常合掌持诵梵咒,面向东北。
12.344.41
मानसो नाम स जपो जप्यते तैर्महात्मभिः ।
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ॥ १२.३४४.४१ ॥
此名为心念持诵,是那些大德所行;以一心之心,哈里确实欢喜。
12.344.42
याऽभवन्मुनिशार्दूल भाः सूर्यस्य युगक्षये ।
एकैकस्य प्रभा तादृक्साऽभवन्मानवस्य ह ॥ १२.३४४.४२ ॥
哦,诸仙中的虎尊,劫末之时太阳所具的光明,每一个人都具有那样的光明。
12.344.43
तेजोनिवासः स द्वीप इति वै मेनिरे वयम् ।
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः ॥ १२.३४४.४३ ॥
我们以为那座岛是光辉的居所。那里没有人胜过他人,他们都具有同等的光辉。
12.344.44
अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् ।
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते ॥ १२.३४४.४४ ॥
于是我们忽然又看见千个太阳的光芒同时升起,啊,布利哈斯帕蒂。
12.344.45
सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् ।
कृताञ्जलिपुष्टा हृष्टा नम इत्येव वादिनः ॥ १२.३४४.४५ ॥
于是那些人一同快速奔跑,欢喜地合掌,口中说着“南无”。
12.344.46
ततो हि वदतां तेषामश्रौष्म विपुलं ध्वनिम् ।
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः ॥ १२.३४४.४६ ॥
当他们说话时,我们听到一阵巨大的声音:“这些人正在向那位神献上供品。”
12.344.47
वयं तु तेजसा तस्य सहसा हृतचेतसः ।
न किंचिदपि पश्यामो हतचक्षुर्बलेन्द्रियाः ॥ १२.३४४.४७ ॥
然而我们因他的光辉而心神忽然被夺,眼目失明,力量与感官衰竭,什么也看不见。
12.344.48
एकस्तु शब्दो विततः श्रुतोऽस्माभिरुदीरितः ।
आकाशं पूरयन्सर्वं शिक्षाक्षरसमन्वितः ॥ १२.३४४.४८ ॥
然而我们听到的只有一个声音,它四处扩散,由我们发出,充满整个天空,具备教诲的清晰音节。
12.344.49
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज।
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमन्वितः ॥ १२.३४४.४९ ॥
胜利属于你,莲花眼者;敬礼你,世界的养育者。敬礼你,感官之主,大人,原初者。我们就这样听到了充满教导音节的声音。
12.344.50
एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः ।
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा ॥ १२.३४४.५० ॥
此时,携带一切芬芳的清净之风,为仪式带来了神圣的花朵与草药。
12.344.51
तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः ।
भक्त्या परमया युक्तैर्मनोवाक्कर्मभिस्तदा ॥ १२.३४४.५१ ॥
那时,那些知晓五时、唯独奉事哈里的虔信者,以意、语、行,以至上的虔敬礼拜了他。
12.344.52
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता ।
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया ॥ १२.३४४.५२ ॥
神的确来到了那里,正如他们的话所说;而我们被他的幻化所迷惑,没有看见他。
12.344.53
मारुते सन्निवृत्ते च बलौ च प्रतिपादिते ।
चिन्ताव्याकुलितात्मानो जाताः स्मोङ्गिसांवर ॥ १२.३४४.५३ ॥
风已退去,力量已被赐予之后,啊,安吉拉斯的后裔,我们的心被忧虑所扰乱了。
12.344.54
मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु ।
अस्मान्न कश्चिन्मनसा चक्षुषा वाऽप्यपूजयत् ॥ १२.३४४.५४ ॥
在成千上万的人中,即便在那些出身清净的人里,也没有一人以心或以目来尊敬我们。
12.344.55
तेऽपि स्वस्था मुनिगणा एक भावमनुव्रताः ।
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः ॥ १२.३४४.५५ ॥
那些安详的仙人群也遵循同一心境;安住于梵的境界,他们对我们并无任何情意。
12.344.56
ततोऽस्मान्सुपरिश्रान्तांस्तपसा चातिकर्शितान् ।
उवाच स्वस्थं किमपि भूतं तत्राशरीरकम् ॥ १२.३४४.५६ ॥
那时,对于我们这些因苦行而极度疲惫、消瘦的人,那里一个无形体的存在平静地说了些什么。
12.344.57
दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः ।
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमैः ॥ १२.३४४.५७ ॥
你们看见了白色的、无一切感官的人;天神之主被这些最优秀的再生者所见。
12.344.58
गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् ।
न स शक्यस्त्वभक्तेन द्रष्टुं देवः कथंचन ॥ १२.३४४.५८ ॥
诸位仙人,你们都尽快按原路从此处返回;没有虔诚之心的人,无论如何也不可能见到那位神。
12.344.59
कामं कालेन महता एकान्तित्वमुपागतैः ।
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः ॥ १२.३४४.५९ ॥
诚然,经过长久时间,那些达到专一虔诚的人,可以见到那位世尊;因其光轮,他难以被看见。
12.344.60
महत्कार्यं च कर्तव्यं युष्माभिर्द्विजसत्तमाः ।
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च ॥ १२.३४४.६० ॥
诸最优秀的再生者啊,你们要完成一项伟大的事业,即便在圆满时代逝去、颠倒来临之后,也要从此处完成。
12.344.61
वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे पुनः ।
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ॥ १२.३४४.६१ ॥
诸位婆罗门啊,在毗婆娑特之时期,当再次来临特莱塔时代时,你们将成为诸神完成使命的助手。
12.344.62
ततस्तदद्भुतं वाक्यं निशम्यैवामृतोपमम् ।
तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सिंतमञ्जसा ॥ १२.३४४.६२ ॥
于是,聆听了他那奇妙如甘露的话语后,凭借他的恩典,我们轻易地抵达了所希望的地方。
12.344.63
एवं सुतपसा चैव हव्यकव्यस्तैथैव च ।
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि ॥ १२.३४४.६३ ॥
如此,即便以大苦行,并安住于havya与kavya祭供之中,我们也未能见到那位神;你又怎能得见他呢?
12.344.64
नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक् ।
अनादिनिधनोऽव्यक्तो देवदानवपूजितः ॥ १२.३४४.६४ ॥
那罗延,大存在者,宇宙的创造者,享用havya与kavya供物者,无始无终,未显现者,为诸神与檀那婆所敬拜。
12.344.65
एवमेकतवाक्येन द्वितत्रितमतेन च ।
अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः।
समापयत्ततो यज्ञं दैवतं समपूजयत् ॥ १२.३४४.६५ ॥
如此,在众人一致的话语以及两三种意见的劝说之下,心胸高尚的布里哈斯帕蒂于是完成了祭祀,并恭敬地供奉了神灵。
12.344.66
समाप्तयज्ञो राजाऽपि प्रजां पालितवान्वसुः ।
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः ॥ १२.३४४.६६ ॥
国王伐苏完成祭祀后也保护了臣民;随后,因婆罗门的诅咒而从天界坠落,进入了大地。
12.344.67
स राजा राजशार्दूल सत्यधर्मपरायणः ।
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः ॥ १२.३४४.६७ ॥
那位国王,王者中的猛虎,专注于真理与法,虽已进入地下,仍时常热爱法。
12.344.68
नारायणपरो भूत्वा नारायणजपं जपन् ।
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः ॥ १२.३४४.६८ ॥
专注于那罗延,念诵那罗延之名,凭他的恩典,他再次站了起来。
12.344.69
महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् ।
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा ॥ १२.३४४.६९ ॥
从地面离去,随即到达梵天的居所,获得了至高的归宿——如此确定地被说道。