Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.345

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.345.1

यदा भक्तो भगवति आसीद्राजा महान्वसुः ।
किमर्थं स परिभ्रष्टो विवेश विवरं भुवः ॥ १२.३४५.१ ॥

伟大的国王婆苏曾是世尊的虔诚信徒,他因何原因堕落,进入了大地的裂隙?

12.345.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ऋषीणां चैव संवादं त्रिदशानां च भारत ॥ १२.३४५.२ ॥

婆罗多之子啊,此处人们也讲述这古老的传说,即仙人与诸天之间的对话。

12.345.3

इयं वै कर्मभूमिः स्यात्स्वर्गो भोगाय कल्पितः ।
तस्मादिन्द्रो महीं प्राप्य यजनाप तु दीक्षितः ॥ १२.३४५.३ ॥

此地确是行动之地,天界则被安排为享乐之处。因此因陀罗得到大地后,便为祭祀而受戒。

12.345.4

सवनीयपशोः काल आगते तु बृहस्पतिः ।
पिष्टमानीयतामत्र पश्वर्थमिति भाषत ॥ १२.३४५.४ ॥

当萨瓦尼耶祭牲的时刻来临时,布里哈斯帕蒂说:“请在此取来面团,作为祭牲之用。”

12.345.5

तच्छ्रुत्वा देवताः सर्वा इदमूचुर्द्विजोत्तमम् ।
बृहस्पतिं मांसगृद्धाः पृथक्पृथगिदं पुनः ॥ १२.३४५.५ ॥

诸天听闻此言,贪恋肉食,便各自再次对最殊胜的再生者布里哈斯帕蒂说了这番话。

12.345.6

अजेन यष्टव्यमिति प्राहुर्देवा द्विजोत्तमान् ।
स च छागोप्यजो ज्ञेयो नान्यः पशुरिति स्थितिः ॥ १२.३४५.६ ॥

诸天对最殊胜的再生者说:“应以阿阇(未生者)祭祀。”而此阿阇应知为山羊,并非其他祭牲,这便是既定的规则。

12.345.7

बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः ।
अजसंज्ञानि बीजानि च्छागं नो हन्तुमर्हथ ॥ १२.३४५.७ ॥

祭祀应以种子进行,这是吠陀的启示。应以称为“阿阇”的种子献祭;你们不应为我们杀山羊。

12.345.8

नैष धर्मः सतां देवा यत्र बध्येत वै पशुः ।
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः ॥ १२.३४५.८ ॥

诸神啊,在杀牲之处进行杀生,这不是善人的法。这是最好的克利多时代;那么,牲畜怎能被杀?

12.345.9

तेषां संवदतामेवमृषीणां विबुधैः सह ।
मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः ॥ १२.३४५.९ ॥

当诸仙人与诸天如此商议时,诸王中最优秀的婆苏沿路来到了那个地方。

12.345.10

अन्तरिक्षचरः श्रीमान्सहस्रबलवाहनः ।
तं दृष्ट्वा सहसाऽऽयान्तं वसुं ते त्वन्तरिक्षगम् ॥ १२.३४५.१० ॥

他们见到光辉的天空行者婆苏带着千军万马忽然而至,他们自己也是能在空中行走的人,

12.345.11

ऊचुर्द्विजातयो देवानेष च्छेत्स्यति संशयम् ।
यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः।
कथंस्विदन्यथा ब्रूयादेष वाक्यं महान्वसुः ॥ १२.३४५.११ ॥

再生者对诸天说:“他将斩断这疑惑。他是行祭者、施主之主、最优秀者,热爱一切众生的福祉。这位伟大的婆苏怎会说别的?”

12.345.12

एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा ।
अपृच्छन्सहिताऽभ्येत्य वसुं राजानमन्तिकात् ॥ १२.३४५.१२ ॥

诸天与诸仙人如此达成共识,便一同走近婆苏王,在近处询问他。

12.345.13

भो राजन्केन यष्टव्यमजेनाहोस्विदौषधैः ।
एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः ॥ १२.३४५.१३ ॥

啊国王,祭祀当以何物行之——以不生之羊(aja),还是以草药?请断除我们的疑惑;您被我们视为权威。

12.345.14

स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः ।
कस्य वै को मतः पक्षो ब्रूत सत्यं द्विजोत्तमाः ॥ १२.३४५.१४ ॥

Vasu合掌向他们问道:“谁的主张属于哪一方?诸位最优秀的再生者,请说出真相。”

12.345.15

धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप ।
देवानां तु पशुः पक्षो मतो राजन्वदस्व नः ॥ १२.३४५.१५ ॥

“我们的主张是应以谷物行祭,人主啊。诸神的主张是以牲畜;请国王告诉我们您的意见。”

12.345.16

देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् ।
छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा ॥ १२.३४५.१६ ॥

Vasu知晓诸神之意,便依附其主张,当时说道:“应以公羊、以不生之羊(aja)行祭。”

12.345.17

कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः ।
ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम् ॥ १२.३४५.१७ ॥

于是那些光辉如太阳的仙人全都愤怒了,对坐在天车上、为诸神一方辩说的Vasu说道。

12.345.18

सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत ।
अद्यप्रभृति ते राजन्नाकाशे विहता गतिः ॥ १२.३४५.१८ ॥

“因为你取了诸神的一方,就从天上坠落吧。从今日起,国王啊,愿你在空中的行进受阻。”

12.345.19

अस्माच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि ।
विरुद्धं वेदसूत्राणामुक्तं यदि भवेन्नृप।
वयं विरुद्धवचना यदि तत्र पतामहे ॥ १२.३४५.१९ ॥

因这诅咒的打击,你将裂开大地而进入其中。国王啊,若有违背吠陀经线之言被说出,或若我们说了相违之语,那么我们便将在那里堕落。

12.345.20

ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा ।
अधो वै संबभूवाशु भूमेर्विवरगो नृप ॥ १२.३४५.२० ॥

于是,就在那一刻,国王优帕里查迅速下沉,进入大地的裂缝之中。国王啊。

12.345.21

स्मृतिस्त्वेवं न विजहौ तदा नारायणाज्ञया ॥ १२.३४५.२१ ॥

然而,依那罗延的命令,他的记忆当时并未如此离他而去。

12.345.22

देवास्तु सहिताः सर्वे वमोः शापविमोक्षणम् ।
चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत् ॥ १२.३४५.२२ ॥

众神聚集在一起,平静地思量如何解除伐苏的诅咒,因为那是国王的善业。

12.345.23

अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना ।
अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः ॥ १२.३४५.२३ ॥

为了我们,这位大德之王遭受了这诅咒。天上的诸位啊,我们应当共同为他做一件回报的善事。

12.345.24

इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः ।
ऊचुः संहृष्टमनसो राजोपरिचरं तदा ॥ १२.३४५.२४ ॥

众主如此思虑决定之后,迅速前往,怀着欢喜之心,对国王优帕里查说道。

12.345.25

ब्रह्मण्य देवभक्तस्त्वं सुरासुरगुरुर्हरिः ।
कामं स तव तुष्टात्मा कुर्याच्छापविभोक्षणम् ॥ १२.३४५.२५ ॥

你敬重婆罗门,又虔诚于诸神;诸神与阿修罗的导师哈里,心中欢喜,必定会使你摆脱诅咒。

12.345.26

मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् ।
अवश्यं तपसा तेषां फलितव्यं नृपोत्तम ॥ १२.३४५.२६ ॥

诸王之最,对再生者与大德之人必须敬重,因为他们苦行的果报必定成熟。

12.345.27

यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् ।
विरुद्धं वेदसूत्राणां न वक्तव्यं हितार्थिना ॥ १२.३४५.२७ ॥

你突然从天空坠落到大地之上,因此求善之人不应说违背吠陀经线的话。

12.345.28

अस्मत्पक्षनिमित्तेन व्यसनं प्राप्तमीदृशम् ।
एकं त्वनुग्रहं तुभ्यं दद्मो वै नृप्रसत्तम।
यावत्त्वं शापदोषेण कालमासिप्यसेऽनघ ॥ १२.३४५.२८ ॥

因为我们一方,你遭遇了如此灾难;然而,人中之最,我们赐你一个恩典。无过者啊,你因诅咒之过而停留的时间……

12.345.29

भूमेर्विवरगो भूत्वा तावत्त्वं कालमाप्स्यसि ।
यज्ञेषु सुहुतां विप्रैर्वसोर्धारां समाहितैः ॥ १२.३४५.२९ ॥

你将居于大地的裂缝之中,度过那段时间,直到专心的婆罗门在祭祀中供奉婆苏之善献之流。

12.345.30

प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिराविशेत् ।
न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः ॥ १२.३४५.३० ॥

因我们对你的思念,你将获得解脱;愿疲倦不侵扰你。诸王之主啊,在大地的裂缝中,你将不会有饥渴。

12.345.31

वसोर्धारामिपीतत्वात्तेजसाऽऽप्यायितेन च ।
स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति ॥ १२.३४५.३१ ॥

婆苏饮了那水流,又得其光明滋养,那位神因我们的恩赐而欢喜,必将引他往梵界。

12.345.32

एवं दत्त्वा वरं राज्ञे सर्वे ते च दिवौकसः ।
ऋतुं समाप्य पिष्टेन मुनीनां वचनात्तदा ॥ १२.३४५.३२ ॥

如此赐予国王恩惠之后,诸天众依据仙人之言,于是以面供完成了祭祀之季。

12.345.33

गताः धमवनं देवा ऋषगश्च तपोधनाः ।
गृहीत्वा दक्षिणां सर्वे गतः स्वानाश्रमान्पुनः ॥ १२.३४५.३३ ॥

诸天往法林而去,以苦行为财富的仙人们也去了;众人都取了酬金,又回到各自的隐修处。

12.345.34

वसुं विचिन्त्य शक्रश्च प्रविनेशामरावतीम् ।
वसुर्विवरगस्तत्र व्यलीकस्य फलं गुरोः ॥ १२.३४५.३४ ॥

因虑及婆苏,帝释天进入了阿摩罗婆提;婆苏则入于地裂之中,承受其师虚妄之果报。

12.345.35

चक्रे वसुस्ततः पूजां विष्वक्सेनाय भारत ।
जप्यं जगौ च सततं नारायणमुखोद्गवम् ॥ १२.३४५.३५ ॥

婆罗多的后裔啊,婆苏于是礼敬毗首羯摩之神(Viṣvaksena),并不断诵唱出自那罗延口中的持诵之语。

12.345.36

तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम् ।
अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन् ॥ १२.३४५.३६ ॥

敌人的征服者啊,即便身处地裂之中,婆苏仍在彼处以五种祭祀,于五时礼拜诸天之主哈利。

12.345.37

ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः ।
अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः ॥ १२.३४५.३७ ॥

于是,因他的虔诚而满意的世尊那罗延·诃梨,对这位专一奉信、专注于祂、自制的善人施以恩惠。

12.345.38

वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् ।
गरुत्मन्तं महावेगमावभाषेऽप्सितं तदा ॥ १२.३४५.३८ ॥

于是赐予恩惠的世尊毗湿奴,对近旁站立的、疾如风的诸再生者之最——迦楼罗,说出了所愿之言。

12.345.39

द्विजोत्तम महाभाग पश्यतां वचनान्मम ।
सम्राड्राजा वसुर्नाम धर्मात्मा संशितव्रतः ॥ १२.३४५.३९ ॥

诸再生者中的最优者、大福之人,请听我言:名为婆苏的君主,法性之人,誓愿坚定。

12.345.40

ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् ।
मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम् ॥ १२.३४५.४० ॥

因婆罗门的愤怒,他已进入大地的深处。然而那些婆罗门之首已受尊敬;诸再生者中的最优者,你去吧。

12.345.41

भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया ।
अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् ॥ १२.३४५.४१ ॥

迦楼罗,依我之命,使那隐藏于大地裂缝中、在下方行走的最优君主,在此成为飞行于天空的人;不要迟延。

12.345.42

गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् ।
विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः ॥ १२.३४५.४२ ॥

于是速如风的迦楼罗张开双翼,进入大地的裂缝,婆苏正在那里静坐、守住言语。

12.345.43

तत एनं समुत्क्षिप्य सहसा विनतासुतः ।
उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत ॥ १२.३४५.४३ ॥

于是毗娜塔之子突然将他举起,迅速飞上天空,在那里放开了他。

12.345.44

अस्मिन्मुहुर्ते संजज्ञे राजोपरिचरः पुनः ।
सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः ॥ १२.३४५.४४ ॥

就在此刻,国王优帕里恰拉再度出现,这位最好的国王带着身体前往梵界。

12.345.45

एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया ।
प्राप्ता गतिरधस्तात्तु द्विजशापान्महात्मना ॥ १२.३४५.४५ ॥

同样,俱蒂之子啊,那位伟大的人也因言语之过,依诸神之命,受婆罗门的诅咒,而得到了下等的归宿。

12.345.46

केवलं पुरुषस्तेन सेवितो हरिरीश्वरः ।
ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च ॥ १२.३४५.४६ ॥

他唯独侍奉原人、主宰者哈里;随后迅速摆脱了诅咒,得以到达梵界。

12.345.47

एतत्ते सर्वमाख्यातं संभूता मानवा यथा ।
नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः।
तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ १२.३४५.४७ ॥

这一切已经告诉你了:人类是如何产生的,以及仙人那罗陀是如何前往白岛的。现在我将把这一切都告诉你;国王啊,请专心聆听。