Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.347

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.347.1

एवं स्तुतः स भगवान् गुह्यैस्तथ्यैश्च नामभिः ।
भगवान्विश्वसृक्सिंहः सर्वमूर्तिमयः प्रभुः।
दर्शयामास मुनये रूपं तत्परमं हरिः ॥ १२.३४७.१ ॥

如此被赞颂后,那位尊贵的主,以秘密而真实的名号,宇宙创造者、如狮子般的、体现一切形相的主哈利,向仙人显现了他至高的形象。

12.347.2

किंचिच्चन्द्राद्विशुद्धात्मा किंचिच्चन्द्राद्विशेषवान् ।
कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभुः ॥ १२.३४७.२ ॥

主有时本性比月亮更纯净,有时比月亮更殊胜,有时呈火焰之色,有时呈行星之相。

12.347.3

शुकपत्रनिभः किंचित्किंचित्स्फटिकसन्निभः ।
नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित् ॥ १२.३४७.३ ॥

他有时如鹦鹉羽毛,有时如水晶,如同一堆蓝色眼黛,有时又如金光闪耀。

12.347.4

प्रबालाङ्कुरवर्णश्च श्वेतवर्णस्तथा क्वचित् ।
क्वचित्सुवर्णवर्णाभो वैदूर्यसदृशः क्वचित् ॥ १२.३४७.४ ॥

他有时如珊瑚嫩芽之色,有时呈白色,有时金色光辉闪耀,有时如青金石。

12.347.5

नीलवैर्दूर्यसदृश इन्द्रनीलनिभः क्वचित् ।
मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित् ॥ १२.३४७.५ ॥

他有时如蓝色琉璃,有时如因陀罗蓝宝石,有时有孔雀颈项的光泽,有时如珍珠项链。

12.347.6

एतान्बहुधान्वर्णान्रूपैर्बिभ्रत्सनातनः ।
सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात् ॥ १२.३४७.६ ॥

他以这些多彩之形相示现,即永恒者、千眼、吉祥、百首、千足者。

12.347.7

सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित् ।
ओंकारमुद्गिरन्वक्रात्सावित्रीं च तदन्वयाम् ॥ १२.३४७.७ ॥

他有千腹千臂,有时被称为“未显者”,他从口中吟诵出音节唵以及随后的萨维德丽。

12.347.8

शेषेभ्यश्चैव वक्रेभ्यश्चतुर्वेदान्गिरन्बहून् ।
आरण्यकं जगौ देवो हरिर्नारायणो वशी ॥ १२.३४७.८ ॥

从其余的口中,他也吟诵了四吠陀的许多诗句;自控的神哈里·那罗延唱诵了《森林书》。

12.347.9

वेदिं कमण्डलुं दर्भान्मणिरूपांस्तथा कुशान् ।
अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम्।
धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा ॥ १२.३४७.९ ॥

祭坛、水瓶、吉祥草、如宝石般的古莎草、羚羊皮、木杖和熊熊燃烧的祭火——主宰诸神的献祭之主当时以双手执持了这些。

12.347.10

तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः ।
वाग्यतः प्रणतो भूत्वा ववन्दे परमेश्वरम् ॥ १२.३४७.१० ॥

心境平和的婆罗门中最优秀的那罗陀,见他欢喜,便克制言语,俯身礼敬至高主。

12.347.11

तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः ॥ १२.३४७.११ ॥

对那低头俯首的他,诸神之始、不灭者说道。

12.347.12

एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ।
इमं देशमनुप्राप्ता मम दर्शनलालसाः ॥ १२.३४७.१२ ॥

大仙人一多、二多和三多,怀着想见我的渴望,来到了这个地方。

12.347.13

न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन ।
ऋते ह्यैकान्तिकश्रेष्ठात्त्वं चैवैकान्तिकोत्तम ॥ १२.३४७.१३ ॥

他们未曾见我,也无人能见我,除了你这位专一虔信者中最殊胜的人,专一虔信者中最殊胜者啊。

12.347.14

ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज ।
तास्त्वं भजस्व सततं साधयस्व यथागतम् ॥ १२.३४७.१४ ॥

婆罗门啊,我这些殊胜的化身已生于法的宫中。你要常常侍奉他们,并如你来时那样成就你的使命。

12.347.15

वृणीष्व च वरं प्रिय मत्तस्त्वं यदिहेच्छसि ।
प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः ॥ १२.३४७.१५ ॥

亲爱的,你在此向我求取你所愿的任何恩赐吧。今日我对你甚为欢喜;此处的我是无尽的、以宇宙为形相者。

12.347.16

अद्य मे तपसो देव यमस्य नियमस्य च ।
सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया ॥ १२.३४७.१६ ॥

天神啊,今日我的苦行、节制与律法之果立即获得了,因为我得见了世尊。

12.347.17

वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः ।
भगवन्विश्वदृक् सिंहः सर्वमूर्तिर्महान्प्रभुः ॥ १२.३४७.१७ ॥

得见你,便是我最大的恩赐,永恒者啊。世尊,你是洞见一切的狮子,一切形相的伟大主宰。

12.347.18

एवं संदर्शयित्वा तु नारदं परमेष्ठिजम् ।
उवाच वचनं भूयो गच्छ नारद माचिरम् ॥ १२.३४७.१८ ॥

如此显现之后,他又对由至尊主所生的那罗陀说:那罗陀啊,不要耽搁,去吧。

12.347.19

इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः ।
एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति ॥ १२.३४७.१९ ॥

这些人克制感官、少食,是我的虔信者,光明如月,将专一地思念我;不会有任何障碍落在他们身上。

12.347.20

सिद्धा ह्येते महाभागाः पुरा ह्येकान्तिनोऽभवन् ।
तमोरजोभिर्निर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम् ॥ १२.३४७.२० ॥

这些人是成就者,极有福分;往昔他们也是专一的信徒。脱离了黑暗与激情,他们无疑将进入我之中。

12.347.21

न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च ।
न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः ॥ १२.३४७.२१ ॥

那不可被眼所见、不可被触所触、不可被香所嗅、远离味道的,就是他。

12.347.22

सत्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै ।
यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥ १२.३४७.२२ ॥

善、激情与黑暗不附着于他。那遍在的见证者,被称为世界的自我。

12.347.23

भूतग्रामशरीरेषु नश्यत्सु न विनश्यति ।
अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा ॥ १२.३४७.२३ ॥

众生的身体毁灭时,他并不毁灭。他无生、永恒、常住、无德、无分。

12.347.24

द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः ।
पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते ॥ १२.३४७.२४ ॥

超越二十四谛而闻名的第二十五者,即补鲁沙,是无为的,据说唯有以智慧才能见到。

12.347.25

यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः ।
स वासुदेवो विज्ञेयः परमात्मा सनातनः ॥ १२.३४७.२५ ॥

诸位最上的再生者啊,凡进入其中而在此真正获得解脱者,应当知道那就是婆苏提婆,永恒的至高自我。

12.347.26

पश्य देवस्य माहात्म्यं महिमानं च नारद ।
शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन ॥ १२.३४७.२६ ॥

纳罗陀啊,看那神的伟大与威严,他从不被善行或恶行所染污。

12.347.27

सत्वं रजस्तमश्चेति गुणानेतान्प्रचक्षते ।
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च ॥ १२.३४७.२७ ॥

悦性、忧性、暗性,这些称为德性。它们存在于一切身体之中,并且在其中流转。

12.347.28

एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते ।
निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणातिगः ॥ १२.३४७.२८ ॥

知场者享受这些德性,但他不被它们所役使。他无德性,是德性的享受者,德性的创造者,超越德性者。

12.347.29

जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥ १२.३४७.२९ ॥

天仙啊,大地是世界的根基;它消融于水中。水消融于光明(火)中,光明消融于风中。

12.347.30

खे वायुः प्रलयं याति मनस्याकाशमेव च ।
मनो हि परमं भूतं तदव्यक्ते प्रलीयते ॥ १२.३४७.३० ॥

风归于虚空,虚空归于意。意确是最上的元素,它消融于未显现者之中。

12.347.31

अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये संप्रलीयते ।
नास्ति तस्मात्परतरः पुरुषाद्वै सनातनात् ॥ १२.३४७.३१ ॥

婆罗门啊,未显者融入无为的补鲁沙。没有比那永恒的补鲁沙更高者。

12.347.32

नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
ऋते तमेकं पुरुषं वासुदेवं सनातनम्।
सर्वभूतात्मभूतो हि वासुदेवो महाबलः ॥ १२.३४७.३२ ॥

世间无论不动或能动的众生,都非永恒,唯有那一位永恒的补鲁沙——婆苏提婆。强大的婆苏提婆是一切众生的自我。

12.347.33

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
ते समेता महात्मानः शरीरमिति संज्ञितम् ॥ १२.३४७.३३ ॥

地、风、空、水,以及第五者火——这些伟大的元素聚合时,便称为身体。

12.347.34

तदाविशति यो ब्रह्मन्न दृश्यो लघुविक्रमः ।
उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः ॥ १२.३४७.३४ ॥

婆罗门啊,那时,那不可见、力量迅疾者便进入其中。主宰自行显现,使身体运动。

12.347.35

न विना धातुसंघातं शरीरं भवति क्वचित् ।
न च जीवं विना ब्रह्मन्वायवश्चेष्टयन्त्युत ॥ १२.३४७.३५ ॥

婆罗门啊,没有诸大元素的聚合,身体便不会成就;没有命我,诸风也不能使之运作。

12.347.36

स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः ।
तस्मात्सनत्कुमारत्वं योऽलभत्स्वेन कर्मणा ॥ १२.३४७.३६ ॥

那命我被算作余者——主宰桑迦尔沙那。因此,凭自身业力而得到萨纳特库玛拉之境者。

12.347.37

यस्मिंश्च सर्वभूतानि प्रद्युम्नः परिपठ्यते ।
तस्मात्प्रसूतो यः कर्ता कारणं कार्यमेव च ॥ १२.३४७.३७ ॥

一切众生所在、被称为普罗笃姆纳者,从他而生者即是作者、因与果。

12.347.38

तस्मत्सर्वं संभवति जगत्स्थावरजङ्गमम् ।
सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु ॥ १२.३४७.३८ ॥

从他而生出整个世界,包括不动与动者。他是阿尼鲁达,他是主宰,也是一切行为中显现的形相。

12.347.39

यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः ।
ज्ञेयः स एव राजेन्द्र जीवः संकर्षणः प्रभुः ॥ १२.३४७.३९ ॥

世尊婆苏提婆是知场者,其性超越诸德。唯有他应被认识,王中之王啊;他就是命我(jīva)与主宰桑羯沙那。

12.347.40

संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते ।
प्रद्युम्नाद्योऽनिरूद्धस्तु सोहंकारः स ईश्वरः ॥ १२.३४७.४० ॥

从桑羯沙那生出普罗笃姆纳,被称为意所生者;从普罗笃姆纳生出阿尼鲁达,他即是我慢与主宰。

12.347.41

मत्तः सर्वं संभवति जगत्स्थावरजङ्गमम् ।
अक्षरं च क्षरं चैव सच्चासच्चैव नारद ॥ १२.३४७.४१ ॥

从我而生出整个世界,包括不动与动者;不灭与可灭,有与无,也都从我而生,那罗陀啊。

12.347.42

मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम ।
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः ॥ १२.३४७.४२ ॥

进入我之中的我的信徒,在此即得解脱;而我即是应被认识的补鲁沙——无为,第二十五谛。

12.347.43

निर्गुणो निष्कलश्चैव निर्द्वन्द्वो निष्परिग्रहः ।
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ॥ १२.३४७.४३ ॥

他无德性,无部分,超越二元对立,无所执取。虽然看似有形,你不应当如此理解他。

12.347.44

इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः ।
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ॥ १२.३४७.४४ ॥

若我愿意,片刻之间便可消亡;我是世界的主宰与导师。那纳罗陀啊,你所见到的我,乃是我所造的幻象。

12.347.45

सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि ।
मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम् ॥ १२.३४७.४५ ॥

你不应当这样认识他,将他看作具备一切众生之德。我已为你完整地讲述了这四种形体。

12.347.46

अहं हि जीवसंज्ञो वै मयि जीवः समाहितः ।
मैवं ते बुद्धिरत्राभूर्द्दृषो जीवो मयेति वै ॥ १२.३४७.४६ ॥

我实际上被称为生命我,生命我安住于我之中。愿你不要生出这样的想法;生命我是由我所见的。

12.347.47

अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः ।
भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम् ॥ १२.३४७.४७ ॥

我遍在一切,婆罗门啊,我是一切众生之内在我。众生之身灭亡时,我却不灭。

12.347.48

सिद्धा हि ते महाभागा नरा ह्येकान्तिनोऽभवन् ।
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने ॥ १२.३४७.४८ ॥

那些大福之人成就圆满,成为专一的信徒。脱离了黑暗与激情,哦,仙人,他们将进入我之中。

12.347.49

अहं कर्ता च कार्यं च कारणं चापि नराद ।
न दृश्यश्चक्षुषा देवः स्पृश्यो न स्पर्शनेन च।
आघ्रेयो नैव गन्धेन रसेन च विसर्जितः ॥ १२.३४७.४९ ॥

我是作者、作用,也是原因,人中之最。那位神不可用眼看见,不可用触觉触摸,不可用嗅觉闻到,也不可用味觉品尝。

12.347.50

सत्वं रजस्तमश्चैव न गुणास्ते भवन्ति हि ।
स हि सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥ १२.३४७.५० ॥

善性、激情与黑暗都不是他的德性。他是遍在的见证者,被称为世界之自我。

12.347.51

हिरण्यगर्भो लोकादिश्चतुर्वक्रोऽनिरुक्तगः ।
ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः ॥ १२.३४७.५१ ॥

金胎(Hiraṇyagarbha),世界之始,四面,超越言说,永恒之神梵天,他思虑我的诸多目的。

12.347.52

ललाटाच्चैव मे रुद्रो देवः क्रोधाद्विनिःसृतः ।
पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान् ॥ १२.३४७.५२ ॥

看那从我额头因愤怒而生的神湿婆(Rudra),看站在我右侧的十一位楼陀罗。

12.347.53

द्वादशैव तथाऽऽदित्यान्वामपार्श्वे समास्थितान् ।
अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान् ॥ १२.३४७.५३ ॥

看站在我左侧的十二位阿底提耶(Āditya),又看在我面前的八位婆薮(Vasu),诸神中的最上者。

12.347.54

नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः ।
सर्वान्प्रजापतीन्पश्य पश्य सप्तऋर्षीस्तथा ॥ १२.३४७.५४ ॥

看后方的两位医神,即Nāsatya与Dasra;看所有的生主,也看七位仙人。

12.347.55

वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः ।
तपांसि नियमांश्चैव यमानपि पृथग्विधान् ॥ १२.३४७.५५ ॥

看那吠陀与数百种祭祀;看那甘露与草药;看那苦行与戒律,以及种种不同的禁制。

12.347.56

तथाऽष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत् ।
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनी ॥ १२.३४७.५६ ॥

同样,看那具八种德性的威权,聚于一处而显现为形;看吉祥天、吉祥女神、名声、大地,以及那驼峰般的女神。

12.347.57

वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् ।
ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् ॥ १२.३४७.५७ ॥

看那吠陀之母、住于我中的天女萨罗室伐蒂;看那群星中最为殊胜、行于天空的北极星,纳罗陀啊。

12.347.58

अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा ।
मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम ॥ १२.३४७.५८ ॥

看那云、海、湖泊与江河;看那显现为形的四类祖灵,善人中最殊胜者啊。

12.347.59

त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान् ।
देवकार्यादपि मुने पितृकार्यं विशिष्यते ॥ १२.३४७.५९ ॥

也看这三种住于我中、无形无相的德性;贤者啊,祖先之事甚至胜过诸神之事。

12.347.60

देवानां च पितृणां च पिता ह्येकोऽहमादितः ।
अहं हयशिरा भूत्वा समुद्रे पश्चिमोत्तरे ॥ १२.३४७.६० ॥

从起初起,唯我一人是诸神与祖灵之父。我化为马首,居于西北之海。

12.347.61

पिबामि सुहुतं हव्यं कव्यं च श्रद्धयाऽन्वितम् ।
मया सृष्टः पुरा ब्रह्मा मां यज्ञमयजत्स्वयम् ॥ १२.३४७.६१ ॥

我饮用以信心奉献的善供之祭与祭祖之供。往昔由我所生的梵天亲自为我行祭。

12.347.62

ततस्तस्मै वरान्प्रीतो दत्तवानस्म्यनुत्तमान् ।
मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च ॥ १२.३४७.६२ ॥

于是我欢喜地赐予他至上的恩惠:在劫初成为我的儿子,并掌管诸世界。

12.347.63

अहंकारकृतं चैव नामपर्यायवाचकम् ।
त्वया कृतां च मर्यादां नातिक्रंस्यति कश्चन ॥ १२.३४७.६३ ॥

由我慢所造、指称名号的词语。你所立的规矩,无人敢逾越。

12.347.64

त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि ।
सुरासुरगणानां च ऋषीणां च तपोधन ॥ १२.३४७.६४ ॥

而你,梵天啊,将成为求恩惠者的赐予者,为诸天、阿修罗之众及仙人所施。啊,苦行之富者!

12.347.65

पितृणां च महाभाग सततं संशितव्रत ।
विविधानां च भूतानां त्वमुपास्यो भविष्यसि ॥ १२.३४७.६५ ॥

也为祖先所敬,啊大福者,恒守誓戒者!你将成为诸般众生所供奉的对象。

12.347.66

प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा ।
अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा ॥ १२.३४७.६६ ॥

我也常在诸天之事中显现,梵天啊,将受你的教导与差遣,如同儿子一般。

12.347.67

एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे ।
एवं रुद्राय मनवे इन्द्रायामिततेजसे।
अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम् ॥ १२.३४७.६७ ॥

我将这些及其他美好的恩赐赐予了无量光辉的梵天;同样也赐予了楼陀罗、摩奴,以及无量光辉的因陀罗。赐予恩典后,我心欢喜,遂一心专注于出离世间。

12.347.68

निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता ।
तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः ॥ १२.३४७.६८ ॥

涅槃是一切法的终结,出离被认为是至上的;因此,已达到出离者应当全身安住于寂静而行事。

12.347.69

विद्यासहायवन्तं मामादित्यस्थं सनातनम् ।
कपिलं प्राहुराचार्याः साङ्ख्यनिश्चितनिश्चयाः ॥ १२.३४७.६९ ॥

精通数论定论的师长称我为迦毗罗:我以智慧为伴,住于太阳之中,是永恒的。

12.347.70

हिरण्यगर्भो भगवानेष च्छन्दसि संस्तुतः ।
सोहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः ॥ १२.३४७.७० ॥

这位世尊金胎(Hiraṇyagarbha)也在吠陀诗律中被赞颂。婆罗门啊,那同一个我,以瑜伽为道,在瑜伽典籍中被称述。

12.347.71

एषोऽहं व्यक्तिमाश्रित्य तिष्ठामि दिवि शाश्वतः ।
ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः ॥ १२.३४७.७१ ॥

我借显现之形,永恒地居于天界。然后,在千个纪元的尽头,我将再一次毁灭世界。

12.347.72

कृत्वाऽऽत्मस्थानि भूतानि स्थावराणि चराणि च ।
एकाकी विद्यया सार्धं विहरिष्ये जगत्पुनः ॥ १२.३४७.७२ ॥

使一切不动与可动的众生皆安住于我之内,我独自与智慧同行,将再一次游行于世界之中。

12.347.73

ततो भूयो जगत्सर्वं करिष्यामीह विद्यया ।
अस्मिन्मूर्तिश्चतुर्थी या साऽसृजच्छेषमव्ययम् ॥ १२.३४७.७३ ॥

于是我将以智慧在此再次创造整个世界。其中第四个形相创造了那不灭的余者。

12.347.74

स हि संकर्षणः प्रोक्तः प्रद्युम्नः सोप्यजीजनत् ।
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः ॥ १२.३४७.७४ ॥

他被称为娑摩羯沙那;他也生出了普罗笛优摩那。由普罗笛优摩那而有我阿尼鲁陀;我的创造一次又一次地发生。

12.347.75

अनिरुद्धात्तथा ब्रह्मा तन्नाभिकमलोद्भवः ।
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च ॥ १२.३४७.७५ ॥

同样,从阿尼鲁陀生出梵天,他从其脐中的莲花而生。从梵天,一切众生生起,有动的,也有不动的。

12.347.76

एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः ।
यथा सूर्यस्य गगनादुदयास्तमने इह।
नष्टे पुनर्वलात्काल आनयत्यमितद्युते ॥ १२.३४७.७६ ॥

当知此创造在劫初一再发生,正如太阳在此从天空升起与落下。它毁灭之后,时间以力量将其带回,啊,无量光辉者。