Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.348

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.348.1

नारदः परिप्रपच्छ भगवन्तं जनार्दनम् ।
एकार्णवे महाघोरे नष्टे स्थावरजङ्गमे। ॥ १२.३४८.१ ॥

在广大可怖的唯一海洋中,静与动的众生皆已灭尽,那罗陀问世尊克里希纳(Janārdana)。

12.348.2

शृणु नारद तत्वेन प्रादुर्भावान्महामुने ।
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः।
रामो रामश्च रामश्च कुद्धः कल्कीति ते दश ॥ १२.३४८.२ ॥

那罗陀,大仙,请如实听:鱼、龟、野猪、人狮、然后是矮人;罗摩、罗摩、罗摩;以及愤怒的迦尔吉——这便是十者。

12.348.3

पूर्वं मीनो भविष्यामि स्थापयिष्याम्यहं प्रजाः ।
लोकान्वै धारयिष्यामि मज्जमानान्महार्णवे ॥ १२.३४८.३ ॥

我先化为鱼,安立众生,扶持那些沉没于大海中的世界。

12.348.4

द्वितीयः कूर्मरूपो मे हेमकूटनिभः स्मृतः ।
मन्दरं धारयिष्यामि अमृतार्थं द्विजोत्तम ॥ १२.३४८.४ ॥

我的第二种化身是龟,被记为如金峰一般;第一的再生者啊,为了甘露,我将托起曼陀罗山。

12.348.5

मप्रां महार्णवे घोरे भाराक्रान्तां भुवं पुनः ।
ततो बलादहं विद्वन्सर्वभूतहिताय वै ॥ १२.३४८.५ ॥

再次,大地在可怖的大海中被重负所压——那时,博学者啊,我将以力量,正为一切众生之利,将她扶起。

12.348.6

सत्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् ।
आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः।
हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम् ॥ १२.३४८.६ ॥

大地,全身为众生所覆,已失其所,被大海环绕——我将以野猪之形将她带回原位,并杀死恃力骄傲的达提亚·希兰雅克莎。

12.348.7

नारसिंहं वषुः कृत्वा हिरण्यकशिषुं पुनः ।
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ॥ १२.३४८.७ ॥

我将化作人狮之身,为诸神之事,再次诛杀毁坏祭祀的提提之子希兰雅迦希普。

12.348.8

विरोचनस्य बलवान्बलिः पुत्रो महासुरः ।
अवध्यः सर्वलोकानां सदेवासुररक्षसाम्।
भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति ॥ १२.३४८.८ ॥

毗卢遮那的有力之子、大阿修罗钵利,将对一切世界——包括天神、阿修罗与罗刹——都不可被杀害,他甚至会将帝释天逐出其自身的王国。

12.348.9

त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ ।
अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपान् ॥ १२.३४८.९ ॥

当三界被他夺去,而舍支之夫(因陀罗)背离时,我将由迦叶波所生,于阿底提之中作为第十二子降生。

12.348.10

वटुर्गत्वा यज्ञसदः स्तूयमानो द्विजोत्तमैः ।
यज्ञस्तुतिं करिष्यामि श्रुत्वा प्रीतो भवेद्वलिः ॥ १२.३४८.१० ॥

我将以年轻婆罗门学徒的身份前往祭祀大厅,受到诸位最胜再生者的赞颂,我将颂扬祭祀;钵利听后将心生欢喜。

12.348.11

किमिच्छसि वटो ब्रूहीत्युक्तो याचे महद्वरम् ।
दीयतां त्रिपदीमात्रमिति याचे महाऽऽसुरम् ॥ १२.३४८.११ ॥

当被问道:“小童啊,你想要什么?说吧。”我请求了一个重大的恩赐:“只请给我三步之地。”我向大阿修罗如此请求。

12.348.12

स दद्यान्मयि संप्रीतः प्रतिषिद्धश्च मन्त्रिभिः ।
यावज्जलं हस्तगतं त्रिभिर्विक्रमणैर्युतम् ॥ १२.३४८.१२ ॥

他对我极为欢喜,纵使大臣阻止,也会将之赐予——手中之水连同三步所能覆盖的土地。

12.348.13

ततो राज्यं प्रदास्यामि शक्रायामिततेजसे ।
देवताः स्थापयिष्यामि स्वस्वस्थानेषु नारद ॥ १२.३४८.१३ ॥

于是我将把王权交给具有无量光辉的因陀罗,并且,那罗陀啊,我要让诸神各自回到自己的位置。

12.348.14

बलिं चैव करिष्यामि पातालतलवासिनम् ।
दानवं च बलिश्रेष्ठमबध्यं सर्वदैवतैः ॥ १२.३४८.१४ ॥

住在地底深处的波利,那作为檀那婆和波利中最优秀者、连一切天神也不能杀死的他,我将使之如此。

12.348.15

त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः ।
क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् ॥ १२.३४८.१५ ॥

在特莱塔时代,我将降生为持承婆利古族的罗摩,并将毁灭那拥有强盛兵力与坐骑的刹帝利种姓。

12.348.16

संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च ।
रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः ॥ १२.३४८.१६ ॥

当特莱塔与德瓦帕拉交替之际,我将成为十车王之子罗摩,成为世界之主。

12.348.17

त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा ।
प्राप्स्येते वानरत्वं हि प्रजापतिसुतावृषी ॥ १२.३४८.१७ ॥

由三者之击,一侧将生畸形;由二者之击,另一侧亦然。那两位仙人,即生主之子,必将获得猿猴之身。

12.348.18

तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः ।
महाबला महावीर्याः शक्रतुल्यपराक्रमाः। ॥ १२.३४८.१८ ॥

在他们的世系中出生者,将为林中居民,极其强大,勇武无比,武勇与因陀罗相等。

12.348.19

ते सहाया भविष्यन्ति सुरकार्ये मम द्विज ।
ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम्।
हनिष्ये रावणं रौद्रं सगणं लोककण्टकम् ॥ १२.३४८.१९ ॥

婆罗门啊,他们将在诸神的事业中成为我的助手。那时我将杀死罗波那,这可怕的罗刹之主,普拉斯蒂亚家族的污点,凶猛的他与其随从,世界的荆棘。

12.348.20

विभीषणाय दास्यामि राज्यं तस्य यथाक्रमम् ।
अयोध्यावासिनः सर्वान्नेष्येऽहं लोकमव्ययम् ॥ १२.३४८.२० ॥

我将依次把王国赐给维毗沙那。我将把阿约提亚的所有居民引入不朽的世界。

12.348.21

द्वापरस्य कलेश्चैव संधौ पार्यवसानिके ।
प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति ॥ १२.३४८.२१ ॥

在双边时代与迦利时代交接的末尾,我将为了羯梭而在秣菟罗显现。

12.348.22

तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान् ।
कुशस्थलीं करिष्यासि निवासं द्वारकां पुरीम् ॥ १२.३४८.२२ ॥

在那里,我将杀死众多作为诸神荆棘的檀那婆,把库沙斯塔利,即名为德瓦拉卡的城市,作为我的居所。

12.348.23

वसानस्तत्र वै पुर्यामदितेर्विप्रियंकरम् ।
हनिष्ये नरकं भौमं मुरं पीठं च दानवम् ॥ १२.३४८.२३ ॥

住在那座城中时,我将杀死伤害阿底提的地之子那罗迦,以及穆罗和檀那婆毗陀。

12.348.24

प्राग्ज्योतिषं पुरं रम्यं नानाधनसमन्वितम् ।
कुशस्थलीं नष्यिष्यामि हत्वा वै दानवोत्तमान् ॥ १२.३४८.२४ ॥

杀死最优秀的檀那婆之后,我将毁灭富饶美丽的普拉格约提沙城,以及库沙斯塔利。

12.348.25

कृकलास भूतं च नृगं मोचयिष्ये च वै पुनः ॥ १२.३४८.२५ ॥

我还要再次解救已化为蜥蜴的国王那伽。

12.348.26

तत्र पौत्रनिमित्तेन गत्वा वै शोणितं पुरम् ।
वाणस्य च पुरं गत्वा करिष्ये कदनं महत् ॥ १२.३४८.२६ ॥

为了我的孙子,我将前往首都水那城,并前往婆那之城,造成巨大的杀戮。

12.348.27

शंकरं रमहासेनं बाणप्रियहिते रतम् ।
पराजेष्याम्यथोद्युक्तौ देवौ लोकनमस्कृतौ ॥ १२.३४८.२७ ॥

我将战胜湿婆与摩诃婆那二神,他们致力于婆那所爱之人的福祉,已经准备就绪,并受到世界的敬礼。

12.348.28

ततः सुतं बलेर्जित्वा बाणं बाहुसहस्त्रिणम् ।
विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः ॥ १२.३४८.२८ ॥

然后,我将战胜千臂的婆那——伯利之子,并将消灭娑婆城的所有居民。

12.348.29

यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः ।
भविष्यति वधस्तस्य मत्त एव द्विजोत्तम ॥ १२.३४८.२९ ॥

名声远扬的迦罗耶婆那,被伽尔伽的光辉所笼罩——哦,再生者中的最优者,他的死亡将仅由我手完成。

12.348.30

कंसं केशिं तथाक्रूरमरिष्टं च महासुरम् ।
चाणूरं च महावीर्यं मुष्टिकं च महाबलम् ॥ १२.३४८.३० ॥

甘萨、凯希因、阿克鲁罗,大阿修罗阿里湿吒,大勇猛的遮努罗,以及大力的穆湿提迦。

12.348.31

प्रलम्बं धेनुकं चैव अरिष्टं वृषरूपिणम् ।
कालीयं च वशे कृत्वा यमुनाया महाह्रदे ॥ १२.३४८.३१ ॥

制伏了普拉兰巴、德努卡、化作公牛形象的阿利什陀,以及迦利耶,在亚穆纳河的大深潭中。

12.348.32

गोकुलेषु ततः पश्चाद्भवार्थे तु महागिरिम् ।
सप्तरात्रं धरिष्यामि वर्षमाणे तु वासवे ॥ १२.३४८.३२ ॥

此后,在牧人的村落里,为了福祉,当因陀罗降雨时,我将托举大山七个夜晚。

12.348.33

अपक्रान्ते ततो वर्षे गिरिमूर्ध्निं व्यवस्थितः ।
इन्द्रेण सह संवादं करिष्यामि तदा द्विज।
लघ्वाच्छिद्य धनं सर्वं वासुदेवं च पौण्ड्रकम् ॥ १२.३४८.३३ ॥

那时,雨停之后,我稳立山巅,婆罗门啊,将与因陀罗对话;轻易夺去他的全部财富,连同婆苏提婆与补达罗迦。

12.348.34

जरासन्धश्च बलवान्सर्वराजविरोधनः ।
भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे ॥ १२.३४८.३४ ॥

强大的迦罗山陀,作为所有国王的对头,将在吉黎跋若成为膨胀的阿修罗,大地之主。

12.348.35

मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति ।
शिशुपालं वधिष्यामि यज्ञे धर्मसुतस्य वै ॥ १२.३४८.३५ ॥

因我心意的触动,他将死去;在法子的祭祀中,我必将杀死希舒帕拉。

12.348.36

दुर्योधनापराधेन युधिष्ठिरगुणेन च ।
समागतेषु बलिषु पृथिव्यां सर्वराजसु ॥ १२.३४८.३६ ॥

由于难敌的过失与坚战的德行,当大地上所有国王中的强者齐聚之时。

12.348.37

वासविः सुसहायो वै मम त्वेको भविष्यति ।
युधिष्ठिरं स्थापयिष्ये स्वराज्ये भ्रातृभिः सह ॥ १२.३४८.३७ ॥

瓦萨瓦之子(阿周那)将是我唯一的好盟友。我将与其兄弟一同使坚战在他自己的王国中复位。

12.348.38

एवं लोका वदिष्यन्ति नरनारायणावृषी ।
उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ ॥ १२.३४८.३८ ॥

世人将这样说:那那与那罗延两位仙人、两位主宰,为世间之事而奋起,焚烧了刹帝利阶层。

12.348.39

शस्त्रैर्निपतिताः सर्वे नृपा यास्यन्ति वै दिवम् ॥ १२.३४८.३९ ॥

所有死于兵器之下的诸王,必定升往天界。

12.348.40

कृत्वा भारावतरणं वसुधाया यथेप्सितम् ।
सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम ॥ १२.३४८.४० ॥

既已依所愿为大地卸去重担,并为诸位萨埵多首领及德瓦拉卡,哦,善人中最善者!

12.348.41

करिष्ये प्रलयं घोरमात्मज्ञानाभिसंश्रयः ।
द्वारकामात्मसात्कृत्वा समुद्रं गमयाम्यहम् ॥ १२.३४८.४१ ॥

我将依止自我之智,造成可怖的劫灭。我将收摄德瓦拉卡于自身,并使之归于大海。

12.348.42

ततः कलियुगस्यादौ द्विजराजतरुं श्रितः ।
भीषया मागधेनैव धर्मराजगृहे वसन् ॥ १२.३४८.४२ ॥

此后,在迦利时代之初,因恐惧而依止于再生者之王的树下,竟被一位摩揭陀猎人射中,而居于法王之宫中——

12.348.43

काषायवस्रसंवीतो मुण्डितः शुक्लदन्तवान् ।
शुद्धोदनसुतो बुद्धो मोहयिष्यामि मानवान् ॥ १२.३४८.४३ ॥

身披袈裟,头顶剃光,齿白如玉,我作为净饭王之子成为佛陀,将迷惑世人。

12.348.44

शूद्राः सुद्धेषु भुज्यन्ते मयि बुद्धत्वमागते ।
भविष्यन्ति नराः सर्वे बुद्धाः काषायसंवृताः ॥ १२.३४८.४४ ॥

当我成就佛性时,首陀罗将与清净者同席而食;世人皆成身披袈裟的佛陀。

12.348.45

अनध्याया भविष्यन्ति विप्रा यागविवर्जिताः ।
अग्निहोत्राणि सीदन्ति गुरुपूजा च नश्यति ॥ १२.३४८.४५ ॥

婆罗门舍弃祭祀,废弃诵习;火祭衰落,尊敬师长之礼也将消亡。

12.348.46

न शृण्वन्ति पितुः पुत्रा न स्नुषा नैव भ्रातरः ।
न पौत्रा न कलत्रा वा वर्तन्तेऽप्यधमोत्तमाः ॥ १२.३४८.४६ ॥

儿子不听父亲,儿媳不听,兄弟不听;孙辈与妻子亦不听——无论下贱或高贵,皆如此行事。

12.348.47

एवंभूतं जगत्सर्वं श्रुतिस्मृतिविवर्जितम् ।
भविष्यति कलौ पूर्णे ह्यशुद्धो धर्मसंकरः ॥ १२.३४८.४७ ॥

迦利时代圆满之时,整个世界将变成这样——没有天启与传承;不净的法之混乱必将兴起。

12.348.48

तेषां सकाशाद्धर्मज्ञा देवब्रह्मविदो नराः ।
भविष्यन्ति ह्यशुद्धाश्च न्यायच्छलविभाषिणः ॥ १२.३४८.४८ ॥

由此将出现通晓法义、知晓诸神与梵者;然而他们不净,以诡辩之巧言说话。

12.348.49

ये नष्टधर्मश्रोतारस्ते समाः पापनिश्चये ।
तस्मादेता न संभाष्या न स्पृश्या च हितार्थिभिः।
उपवासत्रयं कुर्यात्तत्संसर्गविशुद्धये ॥ १२.३४८.४९ ॥

失去法的听众在罪恶的决定上是相同的。因此求善者不应与他们交谈,也不应触碰他们。为了净化与他们的接触,应当禁食三日。

12.348.50

ततः कलियुगस्यान्ते ब्राह्मणो हरिपिङ्गलः ।
कल्किर्विष्णुयशः पुत्रो याज्ञवल्क्यः पुरोहितः ॥ १२.३४८.५० ॥

then 在迦利时代末,像哈里一样黄褐色的婆罗门迦耳吉,毗湿奴耶纳斯之子,将成为名叫耶若那伐尔基亚的祭司。

12.348.51

तस्मिन्नाशे वनग्रामे तिष्ठेत्सोन्नासिमो हयः ।
सहया ब्राह्मणाः सर्वे तैरहं सहितः पुनः।
म्लेच्छानुत्सादयिष्यामि पाषण्डांश्चैव सर्वशः ॥ १२.३४८.५१ ॥

在那场毁灭中,一匹高扬鼻孔的马将立于林村,所有婆罗门与马在一起。我将与他们一同再次彻底消灭蛮夷与异端。

12.348.52

पाषण्डश्च कलौ तत्र माययैव विनश्यते ।
पाषण्डकांश्चैव हत्वा तत्रान्तं प्रलये ह्यहम् ॥ १२.३४८.५२ ॥

在迦利时代,异端在那里仅由幻术而灭亡。杀死异端者之后,在劫末,我亲自在那里终结他们。

12.348.53

ततः पश्चाद्भविष्यामि यज्ञेषु निरतः सदा ।
राज्यं प्रशासति पुनः कुन्तीपुत्र युधिष्ठिरे ॥ १२.३४८.५३ ॥

之后,我将始终致力于祭祀,那时贡蒂之子坚战再次统治王国。

12.348.54

कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम् ।
कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान् ॥ १२.३४८.५४ ॥

我持四种形体,完成无量的功业之后,将前往我自己的、受梵天尊敬的世界。

12.348.55

हंसः कूर्मश्च मत्स्यश्च प्रादुर्भावा द्विजोत्तम ।
वराहो नरसिंहश्च वामनो राम एव च।
रामो दाशरथिश्चैव सात्वतः कल्किरेव च ॥ १२.३४८.५५ ॥

天鹅、龟与鱼,二生者中最优秀者啊;野猪与人狮,侏儒,罗摩,以及十车王之子罗摩,萨维多,还有迦尔吉——这些是我的化身。

12.348.56

यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता पुनः ।
सर्वदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे ॥ १२.३४८.५६ ॥

吠陀的天启失落之时,我将其重新找回;此前在克里多时代,我使其成为赋予一切人的、具有天启(闻)的存在。

12.348.57

अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित् ।
अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः ॥ १२.३४८.५७ ॥

若你在往世书中某处听说过,我那众多的殊胜化身已经过去了。

12.348.58

लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः ।
न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम् ॥ १२.३४८.५८ ॥

完成了世界的使命之后,他们又回归了自己的本性;即便是梵天,也未曾得到这样的见到我的机会。

12.348.59

यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना ।
एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया।
पुराणं च भविष्यं च सरहस्यं च सत्तम ॥ १२.३४८.५९ ॥

你今日在此以专一之心所获得的,婆罗门啊,我已将这一切向你这位虔诚者宣说了:往世之书与未来,连同其中的秘义,善人中最优者啊。

12.348.60

एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः ।
एतावदुक्त्वा वचनं तत्रैवान्तर्दधे पुनः ॥ १२.३४८.६० ॥

如此说完这些话,那位承载宇宙之形的薄伽梵、不朽之神,便又在那里隐没了。

12.348.61

नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम् ।
नरनारायणौ द्रष्टुं बदर्याश्रममाद्रवत् ॥ १२.३४८.६१ ॥

光辉伟大的那罗陀也得到了所求的恩典,便急忙前往跋陀罗净修林,去见那罗与那罗衍那。

12.348.62

इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् ॥ १२.३४८.६२ ॥

这部大奥义书与四吠陀相连,由数论与瑜伽构成,被他宣称为《五夜》。

12.348.63

नारायंणमुखोदीतं नारदोऽश्रावयत्पुनः ।
ब्रह्मणः सदने तात यथादृष्टं यथाश्रुतम् ॥ १२.३४८.६३ ॥

从那罗衍那口中出现的教义,那罗陀又再次宣讲给人听,孩子,正如他在梵天居所中所见所闻。

12.348.64

एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः ।
किं वै ब्रह्मा न जानीते यतः शुश्राव नारदात् ॥ १२.३४८.६४ ॥

那位智者的这份伟大实在令人惊奇。既然从那罗陀那里听过,梵天为何不知道呢?

12.348.65

पितामहोऽपि भगवांस्तस्माद्देवादनन्तरः ।
कथं स न विजानीयात्प्रभावममितौजसः ॥ १२.३४८.६५ ॥

祖父尊者梵天也位居那位神明之后;那拥有无量威力者的神通,他怎会不知?

12.348.66

महाकल्पसहस्राणि महाकल्पशतानि च ।
समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह ॥ १२.३४८.६६ ॥

王中之王啊,成千上万、数以百计的大劫已经过去,创造与毁灭也已过去。

12.348.67

सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः ।
जानाति देवप्रवरं भूयश्चातोधिकं नृप।
परमात्मानमीशानमात्मनः प्रभवं तथा ॥ १२.३४८.६७ ॥

在创造之初,被人想起的是创造众生的主神梵天。大王啊,诸神中最尊贵者知晓此事,且知晓更多:至上自我、主宰者伊舍那,以及他自身的起源。

12.348.68

ये त्वन्ये ब्रह्मसदने सिद्धसङ्घाः समागताः ।
तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम् ॥ १२.३४८.६८ ॥

对其他聚集在梵天居所的成就者群体,他又宣讲了那部与吠陀相等的古史。

12.348.69

अष्टाविंशत्सहस्राणि ऋषीणां भावितात्मनाम् ।
आत्मानुगामिनां ब्रह्मा श्रावयामास तत्वतः।
एवं पुरा प्राप्तमिदं भानुना मुनिभाषितम् ॥ १२.३४८.६९ ॥

梵天依真实之理向二万八千位心灵清净、遵循自我的仙人宣讲此法。如此,往昔这由仙人所说的教法传到了太阳那里。

12.348.70

वर्षषष्टिसहस्राणि षष्टिवर्षशतानि च ।
सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः।
तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम् ॥ १२.३४८.७० ॥

关于炽热的太阳历经六万年又六百年所创造的主要诸世界,太阳向所有心灵清净者讲述了。

12.348.71

सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः ।
मेरौ समागता देवाः श्राविताश्चेदनुत्तमम् ॥ १२.३४८.७१ ॥

亲爱的,若那些追随太阳的大德仙人,向聚集在须弥山上的诸神宣讲了至上之法……

12.348.72

देवानां तु सकाशाद्वै ततः श्रुत्वाऽसितो द्विजः ।
श्रावयामास राजेन्द्र पितॄन्वै मुनिसत्तमः ॥ १२.३४८.७२ ॥

仙人阿悉多从诸神处听闻此事后,这位最优秀的再生者,诸王之王啊,又将其讲给祖先们听。

12.348.73

मम चापि पिता तात कथयामास शंतनुः ।
ततो मयापि श्रुत्वा च कीर्तितं तव भारत ॥ १२.३४८.७३ ॥

我的父亲Śaṃtanu也曾对我讲过此事,亲爱的孩子。随后,我也听闻此事,并将其讲给你听,婆罗多啊。

12.348.74

सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम् ।
सर्वे ते परमात्मानं पूजयन्ते समन्ततः ॥ १२.३४८.७४ ॥

无论是诸神还是仙人,凡听闻此古老传说者,皆四面八方地崇拜至高的自我。

12.348.75

इदमाख्यानमार्षेयं पारम्पर्यागतं नृप ।
नावासुदेवभक्ताय त्वया देयं कथंचन ॥ १२.३४८.७५ ॥

此古老传说由师承流传而来,国王啊,你绝不可以任何方式将它传给不信奉婆薮提婆的人。

12.348.76

आख्यानमुत्तमं चेदं श्रावयेद्यः सदा नृप ।
तदैव मनुजो भक्तः शुचिर्भूत्वा समाहितः।
प्राप्नुयादचिराद्राजन्विष्णुलोकं च शाश्वतम् ॥ १२.३४८.७६ ॥

国王啊,常令人宣讲此至上传说者,若成为虔信、清净、专注之人,国王啊,便会很快到达永恒的毗湿奴世界。

12.348.77

मत्तोन्यानि च ते राजन्नुपाख्यानशतानि वै ।
यानि श्रुतानि सर्वाणि तेषां सारोयमुद्धृतः ॥ १२.३४८.७७ ॥

国王啊,我还有数百个其他的插曲要讲给你,那些我都听过;它们的精华已在此提炼出来。

12.348.78

सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम् ।
एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम् ॥ १२.३४८.७८ ॥

大王,正如诸天与阿修罗搅动乳海而得甘露,往昔婆罗门也在此取出了这故事的甘露。

12.348.79

यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः ।
एकान्तभावोपगत एकान्ते सुसमाहितः ॥ १२.३४८.७९ ॥

常诵此篇、闻此篇之人,应达到专一之心境,在独处时心神善于专注。

12.348.80

प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः ।
स सहस्रार्चिपं देवं प्रविशेन्नात्र संशयः ॥ १२.३४८.८० ॥

人到达大白岛,光明如月,便进入那千光之神;此事无疑。

12.348.81

मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् ।
जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत् ॥ १२.३४८.८१ ॥

受苦之人闻此故事从头至尾,便可脱离疾病;求知者得其所愿,虔信者得虔信者之归宿。

12.348.82

त्वयापि सततं राजत्रभ्यर्च्यः पुरुषोत्तमः ।
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ १२.३४८.८२ ॥

大王,你也应当常常礼敬那位至上之人;因为他是母亲、父亲,也是整个世界的导师。

12.348.83

ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः ।
युधिष्ठिर महाबाहो महाबुद्धिर्जनार्दनः ॥ १२.३४८.८३ ॥

愿婆罗门所爱的永恒世尊对你欢喜。尤陀弟昔吉罗啊,大臂者,愿大智的遮那陀那(对你欢喜)。

12.348.84

श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय ।
भ्रातरश्चास्य ते सर्वे नारायणपराभवन् ॥ १२.३४८.८४ ॥

嗟乎,遮那美阁耶,法王与其诸弟闻此殊胜故事后,皆归依那罗延。

12.348.85

जितं भगवता तेन पुरुषेणेति भारत ।
नित्यं जप्यपरा भूत्वा सारस्वतमुदीरयन् ॥ १२.३४८.८५ ॥

婆罗多之子啊,他们常念:「彼世尊补卢沙已获胜」,专修持诵,高声吟诵萨罗私婆多颂。

12.348.86

यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः ।
जगौ परमकं जप्यं नारायणमुदीरयन् ॥ १२.३४८.८६ ॥

我们最尊的师尊黑仙人(克里希那·二重子)诵唱至上的持诵,念诵那罗延。

12.348.87

गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम् ।
पूजयित्वा च देवेशं पुनरायात्स्वगाश्रमम् ॥ १२.३४८.८७ ॥

他常由虚空前往甘露之居的乳海,礼拜诸神之主之后,又返回自己的净修林。

12.348.88

एतत्ते सर्वमाख्यातं नारदोक्तं मयेरितम् ।
पारम्पर्यागतं ह्येतत्पित्रा मे कथितं पुरा ॥ १२.३४८.८८ ॥

此中所说,皆是那罗陀所言,由我传述于汝。此乃世代相传,往昔我父曾向我述说。

12.348.89

एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम् ।
जनमेजयेन तच्छ्रुत्वा कृतं सम्यग्यथाविधि ॥ १२.३४८.८९ ॥

此乃毗耶娑之徒筏舍阇巴延所诵,已尽告于汝。遮那美阁耶闻之后,依法如理而行。

12.348.90

यूयं हि तप्ततपसः सर्वे च चरितव्रताः ।
शौनकस्य महासत्रं प्राप्ताः सर्वे द्विजोत्तमाः। ॥ १२.३४८.९० ॥

你们都修过严苛的苦行,恪守了誓愿,诸位再生者中的最优秀者啊,你们已全部到达了首纳卡的大祭祀会。

12.348.91

यजध्वं सुहुतैर्यज्ञैः शाश्वतं परमेश्वरम् ।
पारम्पर्यागतं ह्येतत्पित्रा मे कथितं पुरा ॥ १२.३४८.९१ ॥

以行得妥当的供物祭祀,崇拜永恒的至高主。此说是代代相传的,从前我的父亲曾对我讲过。