Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.349

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.349.1

कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः ।
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा ॥ १२.३४९.१ ॥

那位在祭祀中首先接受供品的世尊天神、主宰、持祭者,常知吠陀与吠陀支分者,他是怎样的?

12.349.2

निवृत्तं चास्थितो धर्मं क्षेमी भागवतः प्रभुः ।
निवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः ॥ १२.३४९.२ ॥

那位安住于出离之法、施予安乐的薄伽梵之信徒主宰,正是那位世尊主宰制定了出离之法。

12.349.3

कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः ।
कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः ॥ १२.३४९.३ ॥

在入世之法中,诸神如何被确立为配享供分者?而心已转离者,又如何被确立于出离之法?

12.349.4

एतं नः संशयं सौते छिन्धि गुह्यं सनातनम् ।
त्वया नारायणकथाः श्रुता वै धर्मसंहिताः ॥ १२.३४९.४ ॥

苏提啊,请断除我们这一隐秘而永恒的疑惑;因为你曾聆听那纳罗衍那的故事与法典。

12.349.5

सौतिरुवाच ।
जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धीमतः।
तत्तेऽहं कथयिष्यामि पौराणं शौनकोत्तम ॥ १२.३४९.५ ॥

般遮耶所问于智者毗耶娑之弟子的那段古老传说,我将为你述说,诸首陀者中最上的人啊!

12.349.6

श्रुत्वा माहात्म्यमेतस्य देहिनां परमात्मनः ।
जनमेजयो महाप्राज्ञो वैशंपायनमब्रवीत् ॥ १२.३४९.६ ॥

聆听了这位有身众生至上我的伟大之后,大智的般遮耶对毗舍摩衍那说道。

12.349.7

इमे सब्रह्यका लोकाः ससुरासुरमानवाः ।
क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः ॥ १२.३४९.७ ॥

这些世界连同梵天,以及诸神、阿修罗与人类,处处可见沉迷于被宣说能带来兴盛的祭礼之中。

12.349.8

मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् ।
ये तु मुक्ता भवन्तीह पुण्यपापविवर्जिताः।
ते सहस्रार्चिषं देवं प्रविशन्तीह शुश्रुम् ॥ १२.३४९.८ ॥

婆罗门啊,您已宣说解脱与涅槃——至上的安乐。我们听说,那些在此摆脱功过而解脱的人,会进入千光之神。

12.349.9

अयं हि दुरनुष्ठेयो मोक्षधर्मः सनातनः ।
यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् ॥ १२.३४९.९ ॥

这永恒的解脱法难以奉行;诸神舍弃它之后,才成为享用祭品与供物的神。

12.349.10

किंच ब्रह्मा च रुद्रश्च बलभित्प्रभुः ।
सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च ॥ १२.३४९.१० ॥

此外,梵天与楼陀罗,击败波罗的主宰因陀罗,太阳,群星之主(月),风,火,以及水神伐楼那,也都如此。

12.349.11

आकाशं जगती चैव ये च शेषा दिवौकसः ।
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् ॥ १२.३४९.११ ॥

天空、大地以及其余天界居民,都不知晓由自我完全所造的毁灭。

12.349.12

ततस्तेनास्थिता मार्गं ध्रुवमक्षरमव्ययम् ।
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः।
दोषः कालपरीमाणो महानेष क्रियावताम् ॥ १२.३४९.१२ ॥

于是,那些依止他所立的、坚定、不灭、不变之道,并记念时间的尺度而投身于行动者——这时间的尺度对于行祭者而言,便是大过失。

12.349.13

एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् ।
छिन्धीतिहासकथनात्परं कौतूहलं हि मे ॥ १२.३४९.१३ ॥

婆罗门啊,请斩断这如刺般扎在我心中的疑惑;我的好奇心已超出历史传说的叙述。

12.349.14

कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज ।
किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः ॥ १२.३४९.१४ ॥

在祭祀中,诸神如何被称为分享祭品之份者?婆罗门啊,在祭祀中敬拜天界居民是为了什么?

12.349.15

ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम ।
ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै ॥ १२.३४९.१५ ॥

最优秀的再生者啊,那些在祭祀中领受分份的,在行大祭时究竟将谁的份额奉献出去?

12.349.16

अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर ।
नातप्ततपसा ह्येष नावेदविदुषा तथा।
नापुराणविदा चैव शक्यो व्याहर्तुमञ्जसा ॥ १२.३४९.१६ ॥

啊,人主啊,你所问的问题何等深奥!未曾修苦行者、不通吠陀的学者、不知往世书的人,都不能轻易回答。

12.349.17

हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः ।
कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः ॥ १२.३४९.१७ ॥

好吧,我将告诉你从前我向我的老师所问的问题——克里希那·二岛(Kṛṣṇa Dvaipāyana)、毗耶娑、吠陀毗耶娑,那位伟大的仙人。

12.349.18

सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः ।
अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः ॥ १२.३४९.१८ ॥

须曼图、遮弥尼,以及坚守誓愿的钵罗;我是第四位弟子,第五位则被记为修迦。

12.349.19

एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् ।
शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् ॥ १२.३४९.१९ ॥

对这聚集而来的五位弟子——他们具足克制,持守清净的行为,已战胜愤怒与诸根。

12.349.20

वेदानध्यापयामास महाभारतपञ्चमान् ।
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते ॥ १२.३४९.२० ॥

在美如画、为悉陀与遮罗所常至的山中之王須弥山上,他教授诸吠陀,以《摩诃婆罗多》为第五。

12.349.21

तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत् ।
एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः ॥ १२.३४९.२१ ॥

他们在诵习诸吠陀时,某次心生疑惑。你所问的,正是由他们所陈述。

12.349.22

ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत ॥ १२.३४९.२२ ॥

那时我也听闻了此事,而今日,婆罗多之子啊,它值得讲给你听。

12.349.23

शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः ।
पराशरसुतः श्रीमान्व्यासो वाक्यमथाब्रवीत् ॥ १२.३४९.२३ ॥

听了弟子们的话,驱散一切无明黑暗的、光荣的婆罗舍罗之子毗耶娑于是说道。

12.349.24

मया हि सुमहत्तप्तं तपः परमदारुणम् ।
भूतं भव्यं भविष्यं च जानीयामिति सत्तमाः ॥ १२.३४९.२४ ॥

我修行了极其艰苦的大苦行,为的是能知晓过去、现在与未来,诸位善人中的最优者啊。

12.349.25

तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च ।
नारायणप्रसादेन क्षीरोदस्यानुकूलतः ॥ १२.३४९.२५ ॥

我修持猛烈苦行、约束诸根,蒙那罗延之恩典,又得乳海之眷顾。

12.349.26

त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् ।
तच्छृणुध्वं यथान्यायं वक्ष्ये संशयमुत्तमम् ॥ १२.३४९.२६ ॥

此三时之智如所愿而生。请依法谛听,我将阐述这一至上的疑问。

12.349.27

यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा ।
परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः ॥ १२.३४९.२७ ॥

于劫初所发生之事,我以智慧之眼所见:精通数论与瑜伽者称之为至上我的那一位。

12.349.28

महापुरुषसंज्ञां स लभते स्वेन कर्मणा ।
तस्मात्प्रसूतमव्यक्तं प्रधानं तं विदुर्बुधाः ॥ १२.३४९.२८ ॥

他以自己的所作获得“大士”之名。因此智者称从他中生出的未显现者为原质(Pradhāna)。

12.349.29

अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् ।
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते ॥ १२.३४९.२९ ॥

为创造诸世界,由主宰者使显现者从未显现者中生起。在诸世界中,阿尼鲁达被称为“大我”。

12.349.30

योसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ।
योऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ॥ १२.३४९.३० ॥

彼已显现,并创造了祖父梵天,此被称为我慢(Ahaṅkāra),他充满一切光明。

12.349.31

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
अहंकारप्रसूतानि महाभूतानि पञ्चधा ॥ १२.३४९.३१ ॥

地、风、空、水,以及第五的光明——由我慢所生的五种大元素。

12.349.32

महाभूतानि सृष्ट्वैव तान्गुणान्निर्ममे पुनः ।
भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तश्च ताञ्शृणु ॥ १२.३४९.३२ ॥

他既造出大元素,又再次造作那些性质;从这些元素本身又生出有形之物——请听其详。

12.349.33

मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा।
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः ॥ १२.३४९.३३ ॥

摩利枳、盎基罗、阿特利、补罗斯底耶、补罗诃、迦图、大德的婆悉吒,以及自生主之子摩奴——这八者应知为原初之本性(prakṛti),诸世界皆立于其中。

12.349.34

वेदान्वेदाङ्गसंयुक्तान्यज्ञयज्ञाङ्गसंयुतान् ।
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः ॥ १२.३४९.३४ ॥

为成就诸世界,世界之祖梵天造作了配有吠陀支分的诸吠陀,以及配有祭祀支分的诸祭祀。

12.349.35

अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत् ॥ १२.३४९.३५ ॥

这整个世界,皆由这八种原初之本性所生。

12.349.36

रुद्रो रोषात्मको जातो दशान्यान्सोसृजस्त्वयम् ।
एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः ॥ १२.३४९.३६ ॥

以愤怒为本性的楼陀罗(Rudra)降生了;他自己又造出另外十位。这十一位楼陀罗被称为变化之形的存在。

12.349.37

ते रुद्राः प्रकृरतिश्चैव सर्वे चैव सुरर्षयः ।
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः ॥ १२.३४९.३७ ॥

诸楼陀罗、原质以及所有天仙,为成就世界而生,来到梵天面前。

12.349.38

वयं सृष्टा हि भगवंस्त्वया च प्रभविष्णुना ।
येन यस्मिन्नधीकारे वर्तितव्यं पितामह ॥ १२.३४९.३८ ॥

尊贵者啊,我们是由你这强大的创造者所造的。祖父啊,我们应当在何种职位上、以何种方式行事?

12.349.39

योसौ त्वयाऽभिनिर्दिष्टो ह्यधिकारोऽर्थचिन्तकः ।
परिपाल्यः कथं तेन साहंकारेण कर्तृणा ॥ १२.३४९.३९ ॥

你所指定的、掌管事务的那个职位,一个充满自负的执行者如何能够守护?

12.349.40

प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः ।
एवमुक्तो महादेवो देवांस्तानिदमब्रवीत् ॥ १२.३४९.४० ॥

请赐予那位掌管职位与事务之人以力量。被如此请求后,摩诃提婆对那些天神说了这番话。

12.349.41

ब्रह्मोवाच ।
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः।
ममाप्येषा समुत्पन्ना चिन्ता या भवतामिह ॥ १२.३४९.४१ ॥

梵天说:诸神啊,你们已经告知了我,愿你们吉祥。你们在此所生出的这份忧虑,也同样在我心中生起。

12.349.42

लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः ।
कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च वै ॥ १२.३४९.४२ ॥

整个世界秩序应当如何治理?怎样才能使你们及自身的力量不致衰竭?

12.349.43

इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् ।
महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् ॥ १२.३४९.४३ ॥

我们都从这里去投靠世界的见证者吧;那位不显现的大人物会告诉我们什么是有益的。

12.349.44

ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा ।
क्षीरादस्योत्तरं कूलं जग्मूर्लोकहितार्थिनः ॥ १२.३४९.४४ ॥

于是他们与梵天、仙人和诸神一起,为求世界的福祉,前往乳海的北岸。

12.349.45

ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् ।
स महानियमो नाम तपश्चर्या सुदारुणा ॥ १२.३४९.४५ ॥

他们修行梵天所教、吠陀所规定的苦行。那大誓戒名为大律,极为严酷。

12.349.46

ऊर्ध्वदृग्बाहवश्चैव एकाग्रमनसोऽभवन् ।
एकपादस्थिताः सर्वे काष्ठभूताः समाहिताः ॥ १२.३४९.४६ ॥

他们仰望,举起双臂,心志专一,全都单足而立,如木头般不动,专注安定。

12.349.47

दिव्यं वर्षसहस्रं ते तपस्तप्त्वा सुदारुणम् ।
शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् ॥ १२.३४९.४७ ॥

他们修行最严苛的苦行达千个天界年,然后听到一个以吠陀及其支分装饰的甜美声音。

12.349.48

वागुवाच ।
भोभोः सब्रह्यका देवा ऋषयश्च तपोधनाः।
स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम् ॥ १२.३४९.४८ ॥

声音说:啊,与梵天同在的诸神,以苦行为财富的仙人们!我以欢迎之礼敬待你们,将为你们宣说至上之言。

12.349.49

विज्ञातं वो मया कार्यं तच्च लोकहितं महत् ।
प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् ॥ १२.३४९.४९ ॥

我已知晓你们的使命,它对诸世界大有利益。应当勤勉地去做,它能滋养你们的生命气息。

12.349.50

सुतप्तं वस्तपो देवा ममाराधनकाम्यया ।
भोक्ष्यथास्य महासत्वास्तपसः फलमुत्तमम् ॥ १२.३४९.५० ॥

诸神啊,你们为了侍奉我的心愿,已很好地修行苦行;诸大德啊,你们将由此享受苦行的至高果报。

12.349.51

एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः ।
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः ॥ १२.३४९.५१ ॥

这位是梵天,诸世界的导师,一切世界的祖父。你们这些诸神中的最优者,也要专心致志地崇拜我。

12.349.52

सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः ।
तत्र श्रेयोऽभिधास्यामि यथाऽधीकारमीश्वराः ॥ १२.३४९.५२ ॥

你们都应当在我的祭祀中经常确定自己的份额。诸位主宰啊,我将依各自的资格宣说其中的善果。

12.349.53

श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः ।
ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः ॥ १२.३४९.५३ ॥

诸神听到神中之神的这些话,身毛竖起,于是诸天众、梵天和那些大仙,

12.349.54

वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् ।
तस्मिन्सत्रे सदा ब्रह्मा स्वयं भागमकल्पयत् ॥ १२.३४९.५४ ॥

他们依照吠陀所见的仪轨,举行了毗湿奴的祭祀;在那场祭会中,梵天自己总是确定自己的份额。

12.349.55

देवा देवर्षयश्चैव स्वंस्वं भागमकल्पयम् ।
ते कार्तयुगधर्माणो भागाः परमसत्कृताः ॥ १२.३४९.५५ ॥

诸神与神仙圣贤各自确定了自己的份额。那些具有克里塔时代法度的份额备受尊崇。

12.349.56

प्राहुरादित्यवर्णं तं पुरुषं तमसः परम् ।
बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् ॥ १२.३४९.५६ ॥

他们称他为具太阳之色、超越黑暗的补鲁沙:广大、遍在、神、主宰、赐予恩惠的大主。

12.349.57

ततोऽथ वरदौ देवस्तान्सर्वानमरान्स्थितान् ।
अशरीरो बभापेदं वाक्यं स्वस्थो महेश्वरः ॥ १२.३४९.५७ ॥

于是,赐予恩惠的神,无形而安定的大自在天,对站在那里的所有不死者说了这番话。

12.349.58

येन यः कल्पितो भागः स तथा मामुपागतः ।
प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम्।
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् ॥ १२.३४९.५८ ॥

无论谁所分配的份额,都如此送到了我这里。我很欢喜,现在赐予带有回归之相的果报。诸神啊,这便是由我的恩典所生的你们的标志。

12.349.59

यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः ।
युगेयुगे भविष्यध्वं प्रवृत्तिफलभागिनः ॥ १२.३४९.५९ ॥

你们若以完备的赐福与布施之祭祀受人供奉,便将世世代代分享行动之果。

12.349.60

यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः ।
कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥ १२.३४९.६० ॥

诸神啊,凡在一切世界中以祭祀供奉的人,都将依吠陀所定为你们分配份额。

12.349.61

यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ ।
स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ॥ १२.३४९.६१ ॥

我在此大祭中如此分配其份额的人,便配得献祭之分;我已在吠陀经规中如此制定。

12.349.62

यूयं लोकान्भावयध्वं यज्ञभागफलोचिताः ।
सर्वार्थचिन्तका लोके मयाऽधीकारनिर्मिताः ॥ १२.३४९.६२ ॥

你们配享献祭之分的果报,应当滋养诸世界;你们是世间一切目的的思虑者,乃我依权责所造。

12.349.63

याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः ।
ताभिराप्यायितबला लोकान्वै धारयिष्यथ ॥ १२.३४९.६३ ॥

凡所行之祭祀,以作为之果报而受尊敬,借之增益力量,你们必将维持诸世界。

12.349.64

यूयं हि भाविता यज्ञैः सर्वयज्ञेषु मानवैः ।
मां ततो भावयिष्यध्वमेषा वो भावना मम ॥ १२.३४९.६४ ॥

你们在一切祭祀中由人以祭祀所滋养;因此你们当滋养我——这便是你们的滋养,也是我的滋养。

12.349.65

इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह ।
एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ ॥ १२.३४९.६५ ॥

正为此故,吠陀、祭祀与草药一并被造;若将此等妥善施行,诸神便会在大地上欢喜。

12.349.66

निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् ।
मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिह।
चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः ॥ १२.३४९.६६ ॥

此造化是你们的,依行为之德而定,乃我所作;诸天神中的尊者啊,你们当在此思虑世间之福祉,直至劫末,各依其权责,诸主啊。

12.349.67

मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठ इति सप्तैते मनसा निर्मिता हि ते ॥ १२.३४९.६७ ॥

摩利ci、安吉罗斯、阿特利、补罗斯底耶、补罗诃、迦罗图和婆私吒——这七位由心意所造。

12.349.68

एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः ।
प्रवृत्तिधर्मिणश्चैव प्राजापत्ये च कल्पिताः ॥ १२.३४९.६८ ॥

这些是吠陀的最卓越知者,被任命为吠陀的师长;他们遵循行动之法,并被安立于生主(Prajāpati)一系。

12.349.69

अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः ।
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः ॥ १२.३४९.६९ ॥

此为行动者的永恒之道已经显明;被称为阿尼卢达的主宰,是创造世界者。

12.349.70

सनः सनत्सुजातश्च सनकः ससनन्दनः ।
सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥ १२.३४९.७० ॥

萨那、萨那德苏嘉陀、萨那迦与萨南陀那、萨那曲马罗、迦毗罗,以及第七位萨那陀那。

12.349.71

सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः ।
स्वयमागतविज्ञाना निवृत्तिं धर्ममास्थिताः ॥ १२.३४९.७१ ॥

这七位由心意而生的仙人被称为梵天之子;他们的智慧自然显现,并且他们奉行出离之法。

12.349.72

एते योगविदो मुख्याः साङ्ख्यशास्त्रविशारदाः ।
आचार्या धर्मशास्त्रेषु मोक्षधर्मप्रवर्तकाः ॥ १२.३४९.७२ ॥

这些是瑜伽的最卓越知者,精通数论之学;是法论典籍的师长,是解脱之法的弘扬者。

12.349.73

यतोऽहं प्रसृतः पूर्वमव्यक्तात्रिगुणो महान् ।
तस्मात्परतरो योसौ क्षेत्रज्ञ इति कल्पितः ॥ १२.३४९.७३ ॥

我先从未显现者中显现为由三德构成的大(觉);比它更高的,是被称为田知者(kṣetrajña)的那一位。

12.349.74

सोहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः ।
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि ॥ १२.३४९.७४ ॥

我正是行动者之道,由此而回返(再生)极难;众生如何被造,在每一种行为中皆然。

12.349.75

प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोश्नुतेऽवशः ।
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः ॥ १२.३४९.७५ ॥

无论在行动中还是在弃绝中,他都是无奈地承受其果报。此梵天是世界之师,宇宙之始的创造者,主宰。

12.349.76

एष माता पिता चैव युष्माकं च पितामहः ।
मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः ॥ १२.३४९.७६ ॥

此人即是你们的母亲、父亲,也是你们的祖父。由我教导之后,他将成为赐予一切众生恩惠者。

12.349.77

अस्य चैवात्मजो रुद्रो ललाटाद्यः समुत्थितः ।
ब्रह्मानुशिष्टो भविता सर्वभूतधरः प्रभुः ॥ १२.३४९.७७ ॥

他的儿子楼陀罗亦从额头等处生起,经梵天教导后,将成为承载一切众生的主宰。

12.349.78

गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि ।
प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् ॥ १२.३४९.७८ ॥

去吧,依规则思量你们各自的职分;愿一切仪轨在所有世界中毫不迟延地开始运行。

12.349.79

प्रदिश्यन्तां च कर्माणि प्राणिनां गतयस्तथा ।
परिनिष्ठितकालानि आयूंषीह सुरोत्तमाः ॥ १२.३४९.७९ ॥

众生的行为与去向也应同样分配,诸位神中的最上者啊,此处的寿命也应按其既定时限而定。

12.349.80

इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः ।
अहिंस्या यज्ञपशवो युगेऽस्मिन्न तदन्यथा ॥ १२.३४९.८० ॥

这被称为圆满时代的殊胜之时已经开启。在此时代,祭祀的牲畜不可伤害;在此时代,不会有相反之事。

12.349.81

चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः ।
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति ॥ १२.३४९.८१ ॥

诸神啊,此处的法将以四足圆满。随后将到来名为特雷塔的时代,其中将有三明(吠陀)。

12.349.82

प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे ।
यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति ॥ १२.३४९.८२ ॥

祭祀中被洒净的牲畜将遭杀戮之处,以及法的第四足不存在之处。

12.349.83

ततो वै द्वापरं नाम मिश्रः कालो भविष्यति ।
द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति ॥ १२.३४९.८३ ॥

随后将到来名为德瓦帕拉的混合时代,在那个时代,法将失去两足。

12.349.84

ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते ।
एकपादस्थितो धर्मो यत्र तत्र भविष्यति ॥ १२.३४९.८४ ॥

此后,当提希亚(迦利)到来,以迦利为先导的时代降临时,法将仅立于一足之上,无论在何处。

12.349.85

देवा देवर्षयश्चोचुस्तमेवंवादिनं गुरुम् ।
एकपादस्थिते धर्मे यत्र क्वचन गामिनि।
कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः ॥ १२.३४९.८५ ॥

诸天与神仙对如此说话的那位上师说:“世尊,当法只立于一足、无论去往何处之时,我们应当如何行事?请告诉我们。”

12.349.86

श्रीभगवानुवाच ।
गुरवो यत्र पूज्यन्ते साधुवृत्तसमन्विताः।
वस्तव्यं तत्र युष्माभिर्यत्र धर्मो न हीयते ॥ १२.३४९.८६ ॥

世尊说:在那些德行良好的长者受到尊敬的地方,你们应当居住,那里法不会衰退。

12.349.87

यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा ।
अहिंसा धर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः।
स वो देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत् ॥ १२.३४९.८७ ॥

吠陀、祭祀、苦行、真实、克己,以及与法相结合的不害,在哪里兴盛,诸天中的最尊者啊,你们应当侍奉那片土地,使非法不以足触及你们。

12.349.88

तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा ।
नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान् ॥ १२.३४९.८८ ॥

诸天与众仙人受到世尊的教导,向世尊礼拜之后,各自前往他们所愿的地方去了。

12.349.89

गतेषु त्रिदिवौकस्सु ब्रह्मैकः पर्यवस्थितः ।
दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् ॥ १२.३४९.८९ ॥

天界诸神离去之后,唯有梵天独自留了下来,他渴望见到以阿尼卢陀形相站立的世尊。

12.349.90

तं देवो दर्शयामास कृत्वा हयशिरो महत् ।
साङ्गानावर्तयन्वेदान्कमण्डलुत्रिदण्डधृक् ॥ १२.३४९.९० ॥

神为他显现,化作巨大的马首,以诸分支诵读吠陀,手持净水瓶与三杖。

12.349.91

ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम् ।
लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया ॥ १२.३४९.९१ ॥

于是,见到那位具有无量威力、马头的神,世界的创造者主宰梵天,出于对世界福祉的愿望,

12.349.92

मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः ।
स परिष्वज्य देवेन वचनं श्रावितस्तदा ॥ १२.३४९.९२ ॥

他向赐予恩惠者低首礼拜,合掌站在他面前。于是神拥抱了他,并对他说出了这些话。

12.349.93

भगवानुवाच ।
लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि।
धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः ।
त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा ॥ १२.३४९.९३ ॥

世尊说:你应依法思量世间事务的一切进程。你是一切众生的创立者,你是世界的主宰与导师。将重担托付于你之后,我将迅速获得安定。

12.349.94

यदा च सुरकार्यं ते अविषह्यं भविष्यति ।
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदैशिकः ॥ १२.३४९.९४ ॥

当诸神的使命对你而言变得难以承受时,我将前往显现,成为传授自我知识的导师。

12.349.95

एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत ।
तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः ॥ १२.३४९.९५ ॥

说完这些话,马头神便在那里消失了。受他教导之后,梵天也很快回到了自己的世界。

12.349.96

एवमेष महाभागः पद्मनाभः सनातनः ।
यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा ॥ १२.३४९.९६ ॥

如是,这位有大福德、脐生莲花的永恒者,被宣称为祭祀中首先受享供品的神,并且永远是祭祀的承担者。

12.349.97

निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम् ।
प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम् ॥ १२.३४९.९७ ॥

他安住于出离,是具不灭法者的归宿;造作世界的多样性后,他制定了入世之法。

12.349.98

स आदिः स मध्यः स चान्तः प्रजानां ।
स धाता स धेयं स कर्ता स कार्यम्।
युगान्ते प्रसुप्तः सुसंक्षिप्य लोकान् ।
युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज ॥ १२.३४९.९८ ॥

他是始,他是中,他是众生之终。他是创造者,是所观之境,是作者,也是所作。在劫末他沉睡而收摄诸世界;在劫初他醒来,便生起世间。

12.349.99

तस्मै नमध्वं देवाय निर्गुणाय महात्मने ।
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् ॥ १२.३४९.९९ ॥

你们当向那位无德、大我、不生、具一切形相、为一切天界居民之所依的天神顶礼。

12.349.100

महाभूताधिपतये रुद्राणां पतये तथा ।
आदित्यपतये चैव वसूनां पतये तथा ॥ १२.३४९.१०० ॥

向大元素之主、向楼陀罗之主、同样向阿底提耶之主和婆苏之主顶礼。

12.349.101

अश्विभ्यां पतये चैव मरुतां पतये तथा ।
वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च ॥ १२.३४९.१०१ ॥

向二阿输二童之主、向摩噜多之主顶礼,同样向吠陀与祭祀之主、也向吠陀支分之主顶礼。

12.349.102

समुद्रावसिने नित्यं हरये मुञ्जकेशिने ।
शान्ताय सर्वभूतानां मोक्षधर्मानुभाषिणे ॥ १२.३४९.१०२ ॥

向常居海中的哈里顶礼,他发如茅草般纠结,性情寂静,向一切众生宣说解脱之法。

12.349.103

तपसां तेजसां चैव पतये यशसामपि ।
वचसां पतये नित्यं सरितां पतये तथा ॥ १२.३४९.१०३ ॥

他是苦行、光耀与荣名之主;永远是言语之主;同样也是河流之主。

12.349.104

कपर्दिने वराहाय एकशृङ्गाय धीमते ।
विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा।
सूक्ष्माय ज्ञानदृश्याय अजरायाक्षयाय च ॥ १२.३४९.१०४ ॥

向结发者、野猪、独角者、智者、毗婆娑婆、马头者、常持四种形相者、微妙者、以智慧之眼所见者、不老者与不灭者致敬。

12.349.105

एष देवः संचरति सर्वत्र गतिरव्ययः ।
एष चैतत्परं ब्रह्म ज्ञेयो विज्ञानचक्षुषा ॥ १२.३४९.१०५ ॥

此神遍行于一切处,是不灭之归宿。此即至上梵,应以智慧之眼去认识。

12.349.106

एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा ।
कथितं तच्च वै सर्वं मया पृष्टेन तत्त्वतः ॥ १२.३४९.१०६ ॥

这一切我昔日以智慧之眼所见;当有人问我时,我便如实全部说出。

12.349.107

क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः ।
गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि ॥ १२.३४९.१०७ ॥

弟子们,请依我的话行:侍奉主宰者哈里;以吠陀之语歌颂他;依照规定礼敬他。

12.349.108

इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता ।
सर्वे शिष्या सुतश्चास्य शुकः परमधर्मवित् ॥ १२.३४९.१०८ ॥

智者毗耶娑对我们如此说:我们众弟子,以及他的儿子修迦,那位通晓最高法的人。

12.349.109

स चास्माकमुपाध्यायः सहास्माभिर्विशांपते ।
चतुर्वेदोद्गताभिस्तमृग्भिः समभितुष्टुवे ॥ १२.३४९.१०९ ॥

陛下,他是我们的师父,与我们同在;我们以源自四吠陀的颂歌充分赞颂了他。

12.349.110

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः ॥ १२.३४९.११० ॥

你所问的一切,我都已告诉你了。陛下,从前我的师父二岛仙人(Dvaipāyana)便是这样对我说的。

12.349.111

यश्चेदं शृणुयान्नित्यं यश्चैनं परिकीर्तयेत् ।
नमो भगवते कृत्वा समाहितमतिर्नरः ॥ १२.३४९.१११ ॥

若人常常聆听此篇,并且诵扬此篇,向世尊致敬,心意专一——

12.349.112

भवत्यरोगो मतिमान्बलरूपसमन्वितः ।
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ १२.३४९.११२ ॥

他将无病、智慧,并具备力量与美貌。病人能从疾病中解脱;被束缚者能从束缚中解脱。

12.349.113

कामकामी लभेत्कामं दीर्घं चायुरवाप्नुयात् ।
ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् ॥ १२.३४९.११३ ॥

有所求者得其所求,并获长寿。婆罗门成为通晓一切吠陀者;刹帝利成为胜利者。

12.349.114

वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात् ।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ॥ १२.३४९.११४ ॥

吠舍得大利,首陀罗得安乐。无子者得子,少女得其所愿之夫。

12.349.115

लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् ।
बन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् ॥ १२.३४९.११५ ॥

使胎滞之妇得以解脱,怀孕者生下儿子;不育之妇得到分娩,子孙兴旺。

12.349.116

क्षेमेण गच्छेदध्वानमिदं यः पठते पथि ।
यो यं कामं कामयते स तमाप्नोति च ध्रुवम् ॥ १२.३४९.११६ ॥

若有人在路上诵读此文,便能平安地走完道路。凡所愿求者,必定得到。

12.349.117

इदं महर्षेर्वचनं विनिश्चितं ।
महात्मनः पुरुषवरस्य कीर्तितम्।
समागमं चर्षिदिवौकसामिमं ।
निशम्य भक्ताः सुसुखं लभन्ते ॥ १२.३४९.११७ ॥

此大仙之言确定无疑,由大德之人、人中之最所宣说。信众闻此仙人与天神的相会,便得极大的喜乐。