摩诃婆罗多 · 章 12.351
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.351.1
अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ ।
एष मे संशयो जातस्तं छिन्धि मधुसूदन ॥ १२.३५१.१ ॥
阿周那说:火神与苏摩最初如何从同一本源中被引发?我心中生起这一疑惑;哦,摩图苏陀那,请斩断它。
12.351.2
श्रीभगवानुवाच ।
हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन ।
आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम ॥ १२.३५१.२ ॥
尊贵的主说:好吧,般度之子,我将为你讲述那源于自身光辉的古老传说;哦,普利塔之子,请专心聆听我的话。
12.351.3
सम्प्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते ।
अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे
ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके ।
तम इत्येवाभिभूतेऽसञ्ज्ञकेऽद्वितीये प्रतिष्ठिते
नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते ।
एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसम्भवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात्
अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः ।
शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः ॥ १२.३५१.३ ॥
在完全毁灭之时,四千个时代已经过去,在一切动静众生未显现的毁灭终结时,世界没有光明、大地与风,黑暗一片,唯有一个水之海洋,唯被黑暗所覆,无名无二,安住其中:既无夜也无昼,既无有也无无,既非显现也非未显现。在这种状态中,从依托那罗延之德的不灭、不老、超越诸根、不可执取、不生、真实、不害、吉祥、具有种种不同作用的存在,从不灭、不老不死、无形、遍一切、作一切的永恒黑暗中,原人哈里——不灭者——显现了。
12.351.4
निदर्शनमपि ह्यत्र भवति ।
नासीदहो न रात्रिरासीत्
न सदासीन्नासदासीत् ।
तम एव पुरस्तादभवद्विश्वरूपम्
सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते ॥ १२.३५१.४ ॥
这里也有一个例证。啊!那时既无存在,也无黑夜,无有,也无无;起初,唯有黑暗显现为宇宙之形。她是宇宙之母——这便是其义的说明。
12.351.5
तस्येदानीं तमःसम्भवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज ।
ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत्
यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः ।
योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम्
कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा ।
ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम्
दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि ।
भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं
धार्यत इति ॥ १२.३५१.५ ॥
当从黑暗中生出的那位补鲁沙出现了莲花生的梵天之后,那补鲁沙想要创造众生,便从他的双眼中造出了火与苏摩。此后,众生之创造开始,依照众生次第的规律,梵与刹帝利出现了。苏摩即是梵,梵者即婆罗门;火即是刹帝利,但梵比刹帝利更为强大。为何如此?这是世间显而易见的品质。比婆罗门更高的众生,从前从未出现。因为人们把祭品投入熊熊燃烧的火中,所以我这样说。众生的创造由梵天完成,安立众生之后,三界得以维持。
12.351.6
मन्त्रवादोऽपि हि भवति ।
त्वमग्ने यज्ञानां होता विश्वेषाम्
हितो देवेभिर्मानुषे जने इति ।
निदर्शनं चात्र भवति
विश्वेषामग्ने यज्ञानां होतेति ।
हितो देवैर्मानुषैर्जगत इति
अग्निर्हि यज्ञानां होता कर्ता ।
स चाग्निर्ब्रह्म ॥ १२.३५१.६ ॥
这也是咒语之语。"阿耆尼啊,你是一切祭祀的祭司,由诸神安置于人间。"此处也有例证:"阿耆尼啊,一切祭祀的祭司,""由诸神与人类为世界而安置。"阿耆尼自身就是祭祀的祭司与执行者,而这阿耆尼即是梵。
12.351.7
न ह्यृते मन्त्राद्धवनमस्ति ।
न विना पुरुषं तपः सम्भवति
हविर्मन्त्राणां सम्पूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः ।
ये च मानुषा होत्राधिकारास्ते च
ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः ।
तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति
यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति ॥ १२.३५१.७ ॥
没有咒语就没有供献,没有人也就不会有苦行。供品与咒语的尊崇存在于诸神与人类之中;因此你被任命为祭司,"你是祭司。"担任祭司职务的人也是如此。祭祀只为婆罗门规定,而非为刹帝利与吠舍这两种再生者。因此婆罗门化为火,承载祭祀;祭祀使诸神满足,诸神则维持大地。
12.351.8
शतपथे हि ब्राह्मणं भवति ।
अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति
एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति ।
अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति
अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति ॥ १२.३५१.८ ॥
《百道梵书》中有一段婆罗门文本:智者将施舍之供奉投入婆罗门的口中,便是投入燃烧的火中。同样,化为火的博学婆罗门滋养阿耆尼。阿耆尼即毗湿奴,他进入一切众生,维系他们的生气。此处还有萨那特古马罗所唱的诗节。
12.351.9
विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम् ।
ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः ॥ १२.३५१.९ ॥
起初,梵创造了宇宙,万物之源,纯净无垢。借着梵的吟声,不死者居住在天界,以梵为其根源。
12.351.10
ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च ।
धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा ॥ १२.३५१.१० ॥
婆罗门的智慧、言语、祭仪、信仰与苦行支撑着大地与天界,犹如清凉之水宛若甘露。
12.351.11
नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः ।
ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये ॥ १२.३५१.११ ॥
没有比真实更高的法,没有与母亲相等的师长。没有比婆罗门更高的,他们在死后与今生都赐予福祉。
12.351.12
नैषामुक्षा वर्धते नोत वाहा न गर्गरो मथ्यते सम्प्रदाने ।
अपध्वस्ता दस्युभूता भवन्ति येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः ॥ १२.३५१.१२ ॥
在那些婆罗门失去生计的国度里,牛不繁衍,车辆也无;布施之时,搅杵不转;他们堕落而成为盗贼。
12.351.13
वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः ।
वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः
इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा ।
स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च ॥ १२.३५१.१३ ॥
依据吠陀、往世书与历史传说的权威,从那罗延之口出生的婆罗门,是一切众生的自性,一切事物的创造者,一切存在的养育者。与那赐予恩惠之神的言语同时,婆罗门首先出现;从婆罗门中,其余的种姓随之出现。这样,往昔我化为梵时,亲自生出了在天神与阿修罗中卓越的婆罗门、天神与阿修罗中的大仙以及特殊的众生,并使他们安立、受到约束。
12.351.14
अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः ।
कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप
अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः ।
क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता ॥ १२.३५१.१४ ॥
因为玷污阿诃厘耶,因果台摩的诅咒,因陀罗长出了黄褐色胡须。因为憍尸迦,因陀罗失去睾丸,得到了公羊的睾丸。当摧城者因陀罗举起金刚杵阻止双马童分享圣酒时,遮比罗使他的手臂僵直。达刹因祭祀被毁而愤怒,以苦行使自己重新完整,并在楼陀罗的额上造出另一只眼睛的形状。
12.351.15
त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः ।
ततः प्रादुर्भूता भुजगाः
तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः ।
पूर्वे च मन्वन्तरे स्वायम्भुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा ॥ १२.३५१.१५ ॥
为了诛灭三城之魔,楼陀罗受持灌顶誓愿时,乌until(乌什那娑)割下他头上的发辫并加以使用;于是蛇便出现了。被这些蛇所困扰,楼陀罗的喉咙变成了蓝色。或者说,在往昔的摩奴期即自生摩奴时代,他之成为蓝喉,仅仅是因为握住并束缚了那罗衍那的手。
12.351.16
अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः ।
अथ बृहस्पतिरपां चुक्रोध
यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसङ्कीर्णाः कलुषीभवतेति ।
तदाप्रभृत्यापो यादोभिः सङ्कीर्णाः संवृत्ताः ॥ १२.३५१.१६ ॥
虽然诸水触碰了正在行甘露搅拌前置仪式的安哥罗娑(Āṅgirasa)婆罗诃波蒂(Bṛhaspati),却并未真正得到恩惠。于是婆罗诃波蒂对诸水发怒说:「因为你们触碰我时变得污浊,且未得恩惠,从今日起,你们将充满鱼、鳄鱼、摩蹉、龟及其他生物而变得污浊。」自那时起,诸水便充满了水生生物。
12.351.17
विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम् ।
स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः ॥ १२.३५१.१७ ॥
毗湿伐卢波(Viśvarūpa)是特瓦什特里(Tvaṣṭṛ)之子,是诸天的家庭祭司,也是阿修罗的外甥。他公开地把供分给诸天,暗中却把供分给阿修罗。
12.351.18
अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त ।
हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम्
ततो देवा वर्धन्ते वयं क्षीयामः ।
तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति ॥ १२.३५१.१८ ॥
于是阿修罗们以希兰耶迦σ希布为首,向他们的妹妹、毗首罗波之母求恩。姊姊,你的儿子毗首罗波,特瓦修塔之子,三头,是诸神的祭司;他公开地给诸神分配份额,却暗地里给我们。因此诸神增长,我们衰减。所以你应当制止他,使他也给我们份额。
12.351.19
अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच ।
पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि
नार्हस्येवं कर्तुमिति ।
स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा सम्पूज्य हिरण्यकशिपुमगात् ॥ १२.३५१.१९ ॥
这时,毗首罗波来到难陀园,母亲对他说:孩子,你为何要壮大敌方?你正在毁灭你母舅一方。你不应当这样做。毗首罗波认为母亲的话不可违背,便恭敬地应承,前往希兰耶迦σ希布那里。
12.351.20
हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान् ।
यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति
तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम् ॥ १२.३५१.२० ॥
希兰耶迦希布从希兰耶伽跋和跋私吒处受了诅咒。因为你选了另一人为祭司,你的祭祀将不得完成,你将死于一个前所未知的生灵之手——这便是那诅咒。因那诅咒的施予,希兰耶迦希布遭遇了死亡。
12.351.21
विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत् ।
तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज
ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् ।
सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति ॥ १२.३५१.२१ ॥
增益母系一方的毗首罗波,正专心修习苦行。为破坏他的誓愿,因陀罗遣来许多光彩照人的天女。见到她们,他的心便动摇了,不久他便迷恋上了那些天女。天女知道他已迷恋,便说:「我们将如来时那样离去。」
12.351.22
क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति ।
तास्तमब्रुवन्
वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति ॥ १२.३५१.२२ ॥
「你们要去哪里?暂且留下;与我在一起,你们将得吉祥。」于是她们对他说:「我们是天女,即阿普萨拉斯;很久以前,我们就选择了赐予恩惠、有大能的因陀罗为我们的主。」
12.351.23
अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति ।
ततो मन्त्राञ्जजाप
तैर्मन्त्रैः प्रावर्धत त्रिशिराः ।
एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान्
अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे ॥ १२.३५१.२३ ॥
于是毗首罗波对他们说:“今日之内,因陀罗与诸天将不复存在。”随后他诵持咒语。借着这些咒语,三头者增长。他以一口在一切世界中饮用由行祭仪的再生者在祭祀中善供的苏摩,以一口饮水,以一口饮用因陀罗及诸天。因陀罗见他因饮苏摩而全身滋润、日益增长,便陷入忧虑。
12.351.24
देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च ।
विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते
वयमभागाः संवृत्ताः ।
असुरपक्षो वर्धते वयं क्षीयामः
तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति ॥ १२.३५१.२४ ॥
诸天与因陀罗一同前往梵天处,说:“毗首罗波在一切祭祀中饮用善供的苏摩;我们已失去份额。阿修罗一方日益增长,而我们日渐衰微。因此,请您为我们安排此后的善果。”
12.351.25
तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः ।
स याच्यतां वरं यथा कलेवरं जह्यात्
तस्यास्थिभिर्वज्रं क्रियतामिति ॥ १२.३५१.२५ ॥
梵天对他们说:“婆利古后裔仙人达提佐正在苦修。可向他请求一个恩惠,使他舍弃身体,并以他的骨头制成金刚杵。”
12.351.26
देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे ।
सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति
तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् ।
यद्वक्ष्यथ तत्करिष्यामीति
ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति ।
अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं
समाधाय शरीरपरित्यागं चकार ॥ १२.३५१.२६ ॥
众神来到大仙人达提琪正在修苦行之处。因陀罗与众神走近他说:"尊者,您的苦行可顺利、无障碍吗?"达提琪对他们说:"欢迎诸位。需要做什么?你们说什么,我就做什么。"他们对他说:"尊者为了世界的福祉,应当舍弃身体。"于是达提琪以同样不动摇的心,苦乐等视,作为大瑜伽士,使自我安住于定中,舍弃了身体。
12.351.28
तस्य परमात्मन्यवसृते तान्यस्थीनि धाता सङ्गृह्य वज्रमकरोत् ।
तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसम्भूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान
शिरसां चास्य छेदनमकरोत् ।
तस्मादनन्तरं विश्वरूपगात्रमथनसम्भवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान
तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सु सम्भवां शीतलां मानससरोगतां नलिनीं प्रपेदे ।
तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश ॥ १२.३५१.२८ ॥
当他融入至高自我之后,造物主达多将那些骨头聚集起来,制成了金刚杵。以这件坚不可摧、不可战胜的金刚杵——它由婆罗门仙人的骨头所生,并有毗湿奴进入其中——因陀罗杀死了毗湿缚卢帕,并斩下他的头颅。此后,因陀罗杀死了敌人弗栗多,此魔由毗湿缚卢帕肢体的搅动而生,由特瓦湿多所造。当杀害婆罗门的罪孽一分为二时,因陀罗因恐惧而舍弃了诸神的王位,进入了生于水中、清凉的摩那萨湖的莲茎之中。在那里,他凭借神通的力量变得如微尘般细小,进入了莲茎的纤维之中。
12.351.29
अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव ।
देवान्रजस्तमश्चाविवेश
मन्त्रा न प्रावर्तन्त महर्षीणाम् ।
रक्षांसि प्रादुरभवन्
ब्रह्म चोत्सादनं जगाम ।
अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः ॥ १२.३५१.२९ ॥
梵婆罗门杀戮之恐惧消失后,三界之主、舍providing之夫因陀罗成为世界无主者。诸神之中生起罗阇与多磨。大仙人的咒语失去效力。罗刹出现,梵(圣智)走向毁灭。无因陀罗,诸世界变得无力,易受攻击。
12.351.30
अथ देवा ऋषयश्चायुषः पुत्रं नहुषं नाम देवराजत्वेऽभिषिषिचुः ।
नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव
अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः ॥ १२.३५१.३० ॥
于是诸神与仙人立阿由斯之子那呼沙为诸天之王。那呼沙额上有五百道炽烈之光,能夺去一切光辉,他统治并守护三重天。此时诸世界恢复本性,安然无恙。
12.351.31
अथोवाच नहुषः ।
सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति
स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् ।
सुभगेऽहमिन्द्रो देवानां भजस्व मामिति
तं शची प्रत्युवाच ।
प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च
नार्हसि परपत्नीधर्षणं कर्तुमिति ॥ १२.३५१.३१ ॥
那呼沙说:“除了舍till,因陀罗所享用的一切都在我面前。”说完他走近舍till,对她说:“幸运的女子,我是诸神的因陀罗,请接受我。”舍till回答他:“你天性热爱法,又生于月亮之族;侵犯他人之妻不适合你。”
12.351.32
तामथोवाच नहुषः ।
ऐन्द्रं पदमध्यास्यते मया
अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति ।
सा तमुवाच
अस्ति मम किञ्चिद्व्रतमपर्यवसितम् ।
तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति
स शच्यैवमभिहितो नहुषो जगाम ॥ १२.३५१.३२ ॥
于是那呼沙对她说:“我将登上因陀罗的位置;我是夺取因陀罗王权宝物的人。这里没有任何非法;你曾被因陀罗享用。”她对他说:“我还有一个誓愿未完成。等到誓愿的阿伐布利沐浴之时,再过几天,我会去找你。”舍till这样说了,那呼沙便离去了。
12.351.33
अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत् ।
स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच
अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय ।
सा तवेन्द्रं दर्शयिष्यतीति ॥ १२.३५१.३३ ॥
于是舍遮因悲痛忧伤,渴望见到丈夫,又为那诃沙的恐惧所缠,前往布利哈斯帕蒂。布利哈斯帕蒂见她走来,便入定,知道她专心于夫君之事,于是说:“你持此誓与苦行,去召唤赐予恩惠的女神乌帕述鲁提。她会让你见到因陀罗。”
12.351.34
साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत् ।
सोपश्रुतिः शचीसमीपमगात्
उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता ।
किं ते प्रियं करवाणीति
तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति ।
सैनां मानसं सरोऽनयत्
तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत् ॥ १२.३५१.३४ ॥
于是她受持大戒,以咒语召唤赐予恩惠的女神乌帕述鲁提。乌帕述鲁提来到舍遮身边,说:“你召唤了我,我在此。你想要我为你做什么好事?”舍遮低头致礼,说:“尊贵的女神,你被认为是真实的;请你让我见到我的丈夫。”于是她将舍遮带到摩那娑湖,在那里让她看见藏在莲茎中的因陀罗。
12.351.35
तामिन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव ।
अहो मम महद्दुःखमिदमद्योपगतम्
नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति ।
तामिन्द्र उवाच कथं वर्तयसीति
सा तमुवाच ।
नहुषो मामाह्वयति
कालश्चास्य मया कृत इति ॥ १२.३५१.३५ ॥
因陀罗见她消瘦憔悴,心生忧虑。唉!今日这巨大的痛苦降临到我身上了。她前来寻找我,为悲痛所苦。 因陀罗说:你如何度日? 她说:那诃沙召唤我,我已为他定下了期限。
12.351.36
गच्छ ।
नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व
इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया ।
त्वमन्येनोपयातुमर्हसीति
सैवमुक्ता हृष्टा जगाम ।
इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः ॥ १२.३५१.३६ ॥
去吧。替我告诉那诃沙:请乘坐前所未有、由仙人牵引的车来。我已乘上因陀罗心中所爱的大车,所以你不要与别人同来。 她听了这话,欢喜地走了。因陀罗也再次进入了莲茎的节结之中。
12.351.37
अथेन्द्राणीमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति ।
तं शच्यब्रवीच्छक्रेण यथोक्तम्
स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत् ॥ १२.३५१.३७ ॥
那时,见因陀罗妃到来,那诃沙说:那个期限已满。于是舍遮照因陀罗所说的告诉了他。他乘坐由大仙牵引的车,来到舍遮身边。
12.351.38
अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्विक्रियमाणांस्तान्नहुषेणापश्यत् ।
पद्भ्यां च तेनास्पृश्यत
ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् ।
सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति
स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत् ॥ १२.३५१.३८ ॥
于是生于瓶中的弥多罗-伐楼那之子阿伽斯提耶看见那多沙使诸大仙受辱,并令他们以脚触碰自己。他对那诃沙说:"行非法之罪人,堕于大地吧。只要大地与山岳存在,你便将化为蛇。"大仙话音刚落,他便从那辆车上坠落。
12.351.39
अथानिन्द्रं पुनस्त्रैलोक्यमभवत् ।
ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः
ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति ।
ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु
ततः स्वं स्थानं प्राप्स्यतीति ॥ १२.३५१.३९ ॥
此时因无因陀罗,三界重新安定。诸天神与仙人便为因陀罗而皈依尊贵的毗湿奴,说道:"尊者啊,你应当救护因陀罗,他被杀害婆罗门的罪所压倒。"赐恩者便对他们说:"让因陀罗举行毗湿奴的马祭吧;那时他便能重获自己的位置。"
12.351.41
ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति ।
सा पुनस्तत्सरः समभ्यगच्छत्
इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम ।
बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत्
ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास ।
ततः स देवराड्देवैरृषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव
ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् ।
एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा
स्वस्थानं प्रापितः ॥ १२.३५१.४१ ॥
于是,众天神与仙人找不到因陀罗,便对舍遮说:“去吧,吉祥的夫人,把因陀罗带回来。”她又去了那湖边。因陀罗从湖中起身,前往布里哈斯帕蒂。布里哈斯帕蒂为帝释天取来名为马祭的大祭典。他放出名为黑斑神马的圣马,以之为坐骑,将风神之主因陀罗送回其本位。于是,天王受诸天与仙人赞颂,安住于天界,变得无垢。他将杀婆罗门之罪分给四处:妇女、火、树木与牛。如此,因陀罗借婆罗门神力之辉而得增益,杀敌之后,被送回其本位。
12.351.42
आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशंस्त्रीन्क्रमान्क्रमता विष्णुनाभ्यासादितः ।
स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः
संवृत्तः ॥ १२.३५१.४२ ॥
往昔,大仙人薄伽陀闍(Bharadvāja)到达天河并触摸其水,走近以三步行走的毗湿奴;他被持水之手击中胸膛,胸前留下了印记。
12.351.43
भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपनीतः ॥ १२.३५१.४३ ॥
大仙人婆里古(Bhṛgu)诅咒火神阿耆尼,使其成为吞噬一切之物。
12.351.44
अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिष्यन्तीति ।
तत्र बुधो व्रतचर्यासमाप्तावागच्छत्
अदितिं चावोचद्भिक्षां देहीति ।
तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात्
अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसञ्ज्ञितस्याण्डं मारितमदित्याः ।
स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः ॥ १२.३५१.४४ ॥
阿底提烹煮诸神的食物,以为诸神食之便可杀灭阿修罗。誓愿完成时,补陀(Budha)来对阿底提说:“请施我食。”因为此食应先由诸神食用、不可给他人,阿底提未施食。补陀因被拒而愤怒,化为婆罗门,在毗婆薮之第二次生中,使阿底提毁坏了名为“卵”(Aṇḍa)的那枚卵。此卵后来成为摩尔达那(Mārtaṇḍa)、毗婆薮,并成为祭祖仪式之主。
12.351.45
दक्षस्य वै दुहितरः षष्टिरासन् ।
ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे
तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत् ।
ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुः
भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति ।
सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति ॥ १२.३५१.४५ ॥
达刹有六十个女儿。他把其中十三个嫁给迦叶波,十个嫁给法,十个嫁给摩奴,二十七个嫁给月神。在那些以星宿为名的平等女儿中,月神对罗ohini特别偏爱。其余的妻子心怀嫉妒,去见父亲说:"尊贵的大人,在我们这些力量相等的人中,月神更偏爱罗hini。"他说:"痨病将抓住他。"
12.351.46
दक्षशापात्सोमं राजानं यक्ष्माविवेश ।
स यक्ष्मणाविष्टो दक्षमगमत्
दक्षश्चैनमब्रवीन्न समं वर्तस इति ।
तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा
पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् ।
तत्र गत्वात्मानमभिषेचयस्वेति
अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् ।
गत्वा चात्मनः स्नपनमकरोत्
स्नात्वा चात्मानं पाप्मनो मोक्षयामास ।
तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव
तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः ।
पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति
मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत् ॥ १२.३५१.४६ ॥
因达刹之咒,消耗之病(yakṣmā)侵入了月神苏摩王。他被消耗之病所折磨,前往达刹处,达刹对他说:“你行事不公。”众仙人对苏摩说:“你因消耗之病而日渐消损。在西方、近海之处,有金河(Hiraṇyasarasvatī)的圣渡口。你去那里沐浴净身吧。”于是苏摩前往那圣渡口。他到了那里,沐浴之后便脱离了罪恶;他在那渡口放出光辉之时起,那渡口便以“普拉巴萨”之名闻名于世。因为那个诅咒,至今苏摩仍在新月之间亏损;唯有在满月之日,他才以被云线遮蔽的身形显现。他的颜色变得如云一般,他身上的兔形标记也变得清晰了。
12.351.47
स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्भागे तपस्तेपे ।
तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत्
स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत् ।
तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः
पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो ।
भविष्यथेति ॥ १२.३५१.४७ ॥
大仙人斯图拉希罗(Sthūlaśirā)在弥卢山(Meru)东北方向修苦行。他修行之时,一阵携带一切芳香的清净之风吹来,拂过他的身体。他的身体因苦行而发热消瘦,被风吹拂后,心中得到了满足。因为风的吹拂所带来的满足,树木没有立即展现花朵的光彩;于是他诅咒它们:“你们不会在所有时候都开花。”
12.351.48
नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत् ।
तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः
तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः ।
स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः
उक्तश्चापेयो भविष्यसि ।
एतच्च ते तोयं वडवामुखसञ्ज्ञितेन पीयमानं मधुरं भविष्यति
तदेतदद्यापि वडवामुखसञ्ज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते ॥ १२.३५१.४८ ॥
那罗延为了世界的利益,昔时化为名为婆跋婆木的大仙。他在弥卢山修苦行时,召唤大海,大海却不来。他愤怒之下,以自身体温使海水停滞,并使其带上如汗流般的咸味。他宣布此水不可饮用,但经名为婆跋婆木者饮用后,此水将变甜。至今海水仍由名为婆跋婆木的追随者饮用。
12.351.49
हिमवतो गिरेर्दुहितरमुमां रुद्रश्चकमे ।
भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति
तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति ।
तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति
अद्यप्रभृत्येतदवस्थितमृषिवचनम् ॥ १२.३५१.४९ ॥
楼陀罗爱慕雪山之女乌玛。大仙婆栗狗也来到雪山处,说:“把少女乌玛给我。”雪山答道:“所求的夫婿是楼陀罗。”于是婆栗狗说:“因为你拒绝了我选娶少女的心愿,你将不会成为宝物的容器。”从今日起,这位仙人的话便已确定。
12.351.65
तदेवंविधं माहात्म्यं ब्राह्मणानाम् ।
क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे
तदेतद्ब्रह्माग्नीषोमीयम् ।
तेन जगद्धार्यते ॥ १२.३५१.६५ ॥
婆罗门的威德正是如此。刹帝利也将永恒不灭的大地视为妻子,亲近并享有她。此乃梵、火与月神之所属;世界由此而得以维持。