Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.352

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.352.2

श्रीभगवानुवाच ।
सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसञ्ज्ञितैः ।
बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक् ।
बोधनात्तापनाच्चैव जगतो हर्षणं भवेत् ।
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन ॥ १२.३५२.२ ॥

世尊说:日与月以名为阿摩舒的我的光线如发,常常各自唤醒并照热升起的世界。因唤醒与照热,世界便生喜悦。啊,般度之子之欢,此乃火与月所作之事。

12.352.3

इडोपहूतयोगेन हरे भागं क्रतुष्वहम् ।
वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः ॥ १२.३५२.३ ॥

借伊达所召唤的结合,啊,哈利,我在祭祀中有一份。我的颜色也是黄褐色中最好的,因此我被称为哈利。

12.352.4

धाम सारो हि लोकानामृतं चैव विचारितम् ।
ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः ॥ १२.३५२.४ ॥

我是诸世界的住所与精华,也是经过深思的甘露。因此,婆罗门称我为「如法住」与「真实」。

12.352.5

नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् ।
गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः ॥ १२.३५२.५ ॥

往昔我确实找回了那失落而没入洞穴的大地,因此诸神以言辞赞颂我,称我为戈文达。

12.352.6

शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् ।
तेनाविष्टं हि यत्किञ्चिच्छिपिविष्टं हि तत्स्मृतम् ॥ १२.३५२.६ ॥

以「尸毗毗湿吒」之名;凡被那无毛者所遍入者,确实被称为尸毗毗湿吒。

12.352.7

यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् ।
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् ॥ १२.३५२.७ ॥

仙人耶斯迦专注不乱,在众多祭祀中歌咏我为「尸毗毗湿吒」;因此我承载一个秘密之名。

12.352.8

स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः ।
मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् ॥ १२.३५२.८ ॥

雅斯迦仙人以'尸毗毗湿陀'之名赞颂我,心胸宽厚的他因我的恩典,重新获得了已失传的《尼录多》。

12.352.9

न हि जातो न जायेऽहं न जनिष्ये कदाचन ।
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥ १२.३५२.९ ॥

我从未出生,现在也不出生,将来也永不出生。我是一切众生的田间知者,因此被称为不生者(阿阇)。

12.352.10

नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन ।
ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती ॥ १२.३५२.१० ॥

我从未说过卑劣或淫秽之言。梵天之女、真实的女神萨罗室伐底(即正理),属于我。

12.352.11

सच्चासच्चैव कौन्तेय मयावेशितमात्मनि ।
पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः ॥ १२.३५२.११ ॥

俱蒂之子啊,有与无都由我投入于自我之中。在普什卡的梵天居所,诸仙人确实这样认识我。

12.352.12

सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम् ।
जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनञ्जय ॥ १२.३५२.१२ ॥

我从未从本性中堕落;应知此本性由我所造。财富征服者啊,此处于生中,我古老的本性显现了。

12.352.13

निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय ।
सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः ॥ १२.३५२.१३ ॥

请视我为以无欲之业相应的萨特瓦塔。以萨特瓦塔之智所见,我即萨特瓦塔,也是萨特瓦塔之主。

12.352.14

कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् ।
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन ॥ १२.३५२.१४ ॥

阿周那啊,我化为巨大的铁犁耕耘大地。因为我的颜色是黑的,所以阿周那,我名为黑天。

12.352.15

मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना ।
वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥ १२.३५२.१५ ॥

由我使大地与水相合,天空与风相合,风与火相合——因此我具有毗湿奴(Vaikuṇṭha)之性。

12.352.16

निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते ।
तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ॥ १२.३५२.१६ ॥

涅槃,至高的安乐——据说这便是最高的法。因此我从未曾堕落;凭借此行,我即是不坏者阿修他(Acyuta)。

12.352.17

पृथिवीनभसी चोभे विश्रुते विश्वलौकिके ।
तयोः सन्धारणार्थं हि मामधोक्षजमञ्जसा ॥ १२.३५२.१७ ॥

大地与天空,二者在整个世界中皆著名——为了支持这二者,我便被轻易地称为阿多克沙贾(Adhokṣaja)。

12.352.18

निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः ।
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः ॥ १२.३५२.१८ ॥

精通吠陀、思考词义的人,依《尼录多》歌颂我;在古老的世系中,「阿多克沙贾」是既定的传统。

12.352.19

शब्द एकमतैरेष व्याहृतः परमर्षिभिः ।
नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम् ॥ १२.३५२.१९ ॥

此词为至上仙人一致所说——世间除主那罗延(Nārāyaṇa)之外,再无他者为阿多克沙贾。

12.352.20

घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् ।
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः ॥ १२.३५२.२० ॥

在世间,我火焰中的酥油维系众生的命息;通晓吠陀而心不动摇者称我为酥油焰。

12.352.21

त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः ।
पित्तं श्लेष्मा च वायुश्च एष सङ्घात उच्यते ॥ १२.३५२.२१ ॥

三种以业所生的根本元素,世所知名,即胆、痰与风;此聚合称为和合。

12.352.22

एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते ।
आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते ॥ १२.३५२.२२ ॥

众生由此得以维持,此三者衰减则众生亦衰;因此通晓阿育吠陀者称我为三界之体。

12.352.23

वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत ।
नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम् ॥ १२.३५२.२३ ॥

婆罗多之子啊,世间尊贵的法被称为牛;依词典所释,你应知我是最上之牛。

12.352.24

कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते ।
तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः ॥ १२.३५२.२४ ॥

猴、野猪、至上者与法,亦称为牛;因此生主迦叶称我为牛猴。

12.352.25

न चादिं न मध्यं तथा नैव चान्तं कदाचिद्विदन्ते सुराश्चासुराश्च ।
अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः प्रगीतोऽहमीशो विभुर्लोकसाक्षी ॥ १२.३५२.२५ ॥

诸天与阿修罗从未知晓我的始、中、终;因为我被颂为无始、无中、无终,是主宰、遍在者、世界的见证者。

12.352.26

शुचीनि श्रवणीयानि शृणोमीह धनञ्जय ।
न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः ॥ १२.३५२.२६ ॥

德南遮耶啊,我在这里只听闻清净而值得听的事;我不接受罪恶,因此我确实是“闻净者”(Śucī-śravā)。

12.352.27

एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः ।
इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् ॥ १२.३५२.२७ ॥

往昔我化作一角、形貌神圣的野猪,举起了这片大地;因此我即是一角者。

12.352.28

तथैवासं त्रिककुदो वाराहं रूपमास्थितः ।
त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् ॥ १२.३५२.२८ ॥

同样,我化作三峰野猪之形,因此得名三峰者;又因身躯之大小,我因此而闻名。

12.352.29

विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः ।
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् ॥ १२.३५२.२९ ॥

被修习迦毗罗之智者称为毗梨犀摩的,正是我这位生主;凭借我的觉知,我即是创造一切世界的主。

12.352.30

विद्यासहायवन्तं मामादित्यस्थं सनातनम् ।
कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चयाः ॥ १२.३५२.३० ॥

具智慧为伴、居于太阳之中、永恒的我,确信坚定的数论师称我为迦毗罗。

12.352.31

हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः ।
योगैः सम्पूज्यते नित्यं स एवाहं विभुः स्मृतः ॥ १२.३५२.३१ ॥

这位光辉的金胎,在吠陀中被赞颂,被瑜伽行者常常供养——那位遍在的主,人们记念的正是我。

12.352.32

एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते ।
सहस्रशाखं यत्साम ये वै वेदविदो जनाः ॥ १२.३५२.३२ ॥

人们称二十一支的《梨俱吠陀》即是我;而通晓吠陀者则称千支的《娑摩吠陀》(亦是我)。

12.352.33

षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत ।
यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥ १२.३५२.३३ ॥

在《夜柔吠陀》中,其支数为五十六、八与三十七,那里便是我;我被称为祭司(Adhvaryu)。

12.352.34

पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् ।
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा ॥ १२.३५२.३४ ॥

具五种仪轨、以祭祀扩展的《阿闼婆吠陀》,婆罗门与通晓阿闼婆者同样确定它属于我。

12.352.35

शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः ।
स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् ॥ १२.३५२.३५ ॥

无论有何种支系的区分,支系中有何种咏唱,以及声调与字音的读法,都应知道皆由我所作。

12.352.36

यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् ।
सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित् ॥ १२.३५२.३६ ॥

阿周那啊!那赐予恩惠、升起的马首,正是我;在后一部分,我是通晓次序与音节划分的人。

12.352.37

रामादेशितमार्गेण मत्प्रसादान्महात्मना ।
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् ॥ १२.३५२.३७ ॥

依罗摩所指示的道路,凭我的恩典,这位大德的般遮罗人获得了次序;它来自那永恒的存在。

12.352.38

नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम् ।
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः ॥ १२.३५२.३८ ॥

得到那罗延的恩赐,证得无上瑜伽,传承次第并传授教诲,此即迦罗婆(亦如是)。

12.352.39

कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् ।
जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः ॥ १२.३५२.३९ ॥

迦摩梨迦与威猛的国王梵授,一再回想由生与死所生的痛苦。

12.352.40

पुराहमात्मजः पार्थ प्रथितः कारणान्तरे ।
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः ॥ १२.३५२.४० ॥

阿周那啊,往昔因另一缘故,我以法之子而闻名;因此,俱卢之虎,我被称为法生。

12.352.41

नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् ।
धर्मयानं समारूढौ पर्वते गन्धमादने ॥ १२.३५२.४१ ॥

那罗与那罗延昔日乘法之车,在乾陀摩陀那山上修行不坏的苦行。

12.352.42

तत्कालसमयं चैव दक्षयज्ञो बभूव ह ।
न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत ॥ १२.३५२.४२ ॥

就在那时,发生了达刹的祀祭;婆罗多啊,达刹竟未给楼陀罗分配应得的份额。

12.352.43

ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् ।
ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः ॥ १२.३५२.४३ ॥

于是依达提之言,他夺取了达刹的祀祭;怒火中,他一再掷出燃烧的三叉戟。

12.352.44

तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् ।
आवयोः सहसागच्छद्बदर्याश्रममन्तिकात् ॥ १२.३५२.४४ ॥

那三叉戟将达刹的祭祀完全化为灰烬,忽然来到我们二人附近的菩提林修行处。

12.352.45

ततः स्वतेजसाविष्टाः केशा नारायणस्य ह ।
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् ॥ १२.३५२.४५ ॥

于是,充满自身光辉的那罗延的头发变成了蒐草的颜色;因此我名为蒐发者。

12.352.46

तच्च शूलं विनिर्धूतं हुङ्कारेण महात्मना ।
जगाम शङ्करकरं नारायणसमाहतम् ॥ १२.३५२.४६ ॥

那三叉戟被大德以一声“吽”震落,又被那罗延击中,回到了湿婆(Śaṅkara)手中。

12.352.47

अथ रुद्र उपाधावत्तावृषी तपसान्वितौ ।
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना ॥ १२.३५२.४७ ॥

于是楼陀罗冲向那二位具足苦行的仙人;随后将其举起,用手扼住了他的咽喉。

12.352.48

अथ रुद्रविघातार्थमिषीकां जगृहे नरः ।
मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् ॥ १२.३५२.४८ ॥

于是那罗(Nara)为击打楼陀罗而取一根芦苇茎,以咒语迅速使其结合;它便成了一柄大斧。

12.352.49

क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा ।
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ॥ १२.३५२.४९ ॥

当它突然被掷向楼陀罗时便被斩断;因此我被称为“斧断者”(Khaṇḍaparaśu),因为我被斧子所斩断。

12.352.50

अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा ।
जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ॥ १२.३५२.५० ॥

瓦尔什尼的后裔啊,祛除众生苦厄者啊,在那场搅动三界的战争中,究竟是谁获得了胜利?请告诉我。

12.352.51

श्रीभगवानुवाच ।
तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः ।
उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा ॥ १२.३५२.५१ ॥

世尊说:当那二位——以楼陀罗与那罗延为自性者——在战斗中纠缠时,那时一切世界都忽然惊动不安。

12.352.52

नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः ।
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ॥ १२.३५२.५२ ॥

祭祀中善加奉献的清净祭品,火神不再接受;心性清净的仙人们,吠陀也不再显现。

12.352.53

देवान्रजस्तमश्चैव समाविविशतुस्तदा ।
वसुधा सञ्चकम्पेऽथ नभश्च विपफाल ह ॥ १२.३५२.५३ ॥

那时,忿欲(罗阇)与昏暗(答摩)完全进入诸神之中;大地剧烈震动,天空也裂开了。

12.352.54

निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः ।
अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत ॥ १२.३५२.५४ ॥

诸光辉失去了光彩,梵天也从座位上坠落;大海干涸,喜马拉雅山崩裂。

12.352.55

तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन ।
ब्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः ॥ १२.३५२.५५ ॥

般度之子啊,当这样的征兆发生时,梵天被诸神的大众与大德的仙人们所围绕。

12.352.56

साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः ।
उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् ॥ १२.३५२.५६ ॥

四面神合掌向楼陀罗说道:"愿诸世界吉祥。"

12.352.57

यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् ।
कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः ॥ १२.३५२.५७ ॥

那不灭而未显现的主宰,世界的主持者与养育者,如不动之基而住,超越二元的行为者,人们称之为无作者者。

12.352.58

व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा ।
नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ ॥ १२.३५२.५८ ॥

此乃他进入显现之境的唯一吉祥之相:那罗与那罗延二位,承续法统之族,降生了。

12.352.59

तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ ।
अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे ॥ १२.३५२.५९ ॥

那二位具足大苦行,是诸神中最殊胜者,持大誓愿。我因他的恩典,因另一个缘由而生。

12.352.60

मया च सार्धं वरदं विबुधैश्च महर्षिभिः ।
प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् ॥ १२.३५२.६० ॥

与我、诸神及大仙一同,速使赐恩者欢喜,令诸世界不久即得安宁。

12.352.61

ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् ।
प्रसादयामास ततो देवं नारायणं प्रभुम् ॥ १२.३५२.६१ ॥

梵天如此说后,楼陀罗放下愤怒之火,随即使主神那罗延欢喜。

12.352.62

ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः ।
प्रीतिमानभवत्तत्र रुद्रेण सह सङ्गतः ॥ १२.३५२.६२ ॥

于是赐予恩惠的神,已战胜愤怒与诸根,在那里与楼陀罗相会而心生欢喜。

12.352.63

ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः ।
उवाच देवमीशानमीशः स जगतो हरिः ॥ १२.३५२.६३ ॥

受诸仙人、梵天与众神善加供养的世界之主哈利,对自在神说道。

12.352.64

यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु ।
नावयोरन्तरं किञ्चिन्मा ते भूद्बुद्धिरन्यथा ॥ १२.३५२.६४ ॥

知你者即知我,随你者即随我。你我之间毫无分别,愿你不要另有他念。

12.352.65

अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम् ।
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ॥ १२.३५२.६५ ॥

从今日起,此吉祥卍(室利晚萨)标记以你的三叉戟印记为记;由我手所印,你将名为室利咖瑟陀。

12.352.66

एवं लक्षणमुत्पाद्य परस्परकृतं तदा ।
सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी ॥ १२.३५२.६६ ॥

如此相互作成标记,又与楼陀罗结下无比的友谊,那两位仙人便相合为一。

12.352.67

एष ते कथितः पार्थ नारायणजयो मृधे ।
नामानि चैव गुह्यानि निरुक्तानि च भारत ॥ १२.३५२.६७ ॥

阿周那啊,那纳罗延在战斗中的胜利已经告诉你了;婆罗多啊,这些秘密名号也已经加以解释。

12.352.68

एवं बहुविधै रूपैश्चरामीह वसुन्धराम् ।
ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् ॥ १२.३५२.६८ ॥

我以种种形态在此行走于大地之上,甚至到达梵天界与永恒的戈洛迦,俱卢之子啊。

12.352.69

यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थिते ।
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ॥ १२.३५२.६९ ॥

俱卢之子啊,当战斗临近时走在你前面的那位,你应当知道他就是鲁陀罗,诸神之神,蓄着发髻者。

12.352.70

कालः स एव कथितः क्रोधजेति मया तव ।
निहतांस्तेन वै पूर्वं हतवानसि वै रिपून् ॥ १२.३५२.७० ॥

我曾对你说,那由愤怒而生的,正是时间;你先前正是借着它杀死了你的敌人。

12.352.141

अप्रमेयप्रभावं तं देवदेवमुमापतिम् ।
नमस्व देवं प्रयतो विश्वेशं हरमव्ययम् ॥ १२.३५२.१४१ ॥

你应当收敛身心,向那具有无量威力的诸神之神、乌玛之主、宇宙之主、哈罗、不灭之神致敬。