Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.353

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.353.1

सौते सुमहदाख्यानं भवता परिकीर्तितम् ।
यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ॥ १२.३५३.१ ॥

苏多啊,你所讲述的这部宏大故事,所有仙人听后都极为惊叹。

12.353.2

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् ।
न तथा फलदं सौते नारायणकथा यथा ॥ १२.३५३.२ ॥

苏多啊,遍访一切修行处、沐浴一切圣渡口,其功德都不如听闻那罗延的故事。

12.353.3

पाविताङ्गाः स्म संवृत्ताः श्रुत्वेमामादितः कथाम् ।
नारायणाश्रयां पुण्यां सर्वपापप्रमोचनीम् ॥ १२.३५३.३ ॥

从头听闻此故事,我们的身体已得净化;此故事依止那罗延,神圣,能解脱一切罪业。

12.353.4

दुर्दर्शो भगवान्देवः सर्वलोकनमस्कृतः ।
सब्रह्मकैः सुरैः कृत्स्नैरन्यैश्चैव महर्षिभिः ॥ १२.३५३.४ ॥

世尊天神,难以得见,为一切世界所礼敬,与梵天、诸天及其他大仙一同(礼敬)。

12.353.5

दृष्टवान्नारदो यत्तु देवं नारायणं हरिम् ।
नूनमेनद्ध्यनुमतं तस्य देवस्य सूतज ॥ १२.३५३.५ ॥

那罗陀所见的神那罗延哈利——这必定是得到那位天神的许可,苏多之子啊。

12.353.6

यदृष्टवाञ्जगन्नाथमनिरुद्दतनौ स्थितम् ।
यत्प्राद्रवत्पुनर्भूयो नारदो देवसत्तमौ।
नरनारायणौ द्रष्टुं कारणं तद्ब्रवीहि मे ॥ १२.३५३.६ ॥

那罗陀见到立于阿尼鲁达体中的世界之主,随后又再次奔去要见两位最胜的天神,那罗与那罗延——请告诉我其中的缘由。

12.353.7

तस्मिन्यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै ।
कर्मान्तरेषु विधिवद्वर्तमानेषु शौनक ॥ १२.३५३.७ ॥

舍诺迦啊,当般遮提之子国王的那场祭祀正在进行,诸仪式按规则在各个间隙中举行之时,

12.353.8

कृष्णद्वैपायनं व्यासमृषिं वेदनिधिं प्रभुम् ।
परिपप्रच्छ राजेन्द्रः पितामहपितामहम् ॥ १२.३५३.८ ॥

诸王之王询问了黑仙·毗耶娑——那位圣仙、吠陀宝藏、主宰,祖父的祖父。

12.353.9

श्वेतद्वीपान्निवृत्तेन नारदेन सुरर्षिणा ।
ध्यायता भगवद्वाक्यं चेष्टितं किमतः परम् ॥ १२.३५३.९ ॥

天仙那罗陀从白岛返回,沉思着世尊的教言——此后他做了什么?

12.353.10

बदर्याश्रममागम्य समागम्य च तावृषी ।
कियन्तं कालमवसत्कां कथां पृष्टवांश्च सः ॥ १२.३५३.१० ॥

到达巴达利隐修处并会见那两位圣仙后,他停留了多久,又询问了什么故事?

12.353.11

इदं शतसहस्राद्धि भारताख्यानविस्तरात् ।
आमन्थ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ॥ १२.३५३.११ ॥

从这部十万颂的广大婆罗多叙事中,以智慧为搅棒搅出的这片无上知识之海。

12.353.12

नवनीतं यथा दध्नो मलयाच्चन्दनं यथा ।
अरण्यकं च वेदेभ्य ओषधीभ्योऽमृतं यथा।
समुद्धृतमिदं ब्रह्मन्कथामृतमिदं तथा ॥ १२.३५३.१२ ॥

如从酪中取出酥油,从摩罗耶山取出旃檀,从吠陀取出森林书,从草药取出甘露,婆罗门啊,这故事的甘露也如此被取出了。

12.353.13

तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् ।
स ईशो भगवान्देवः सर्वभूतात्मभावनः ॥ १२.३५३.१३ ॥

苦行的宝藏啊,您所说的确实基于那罗延的故事。他是主宰,尊贵的神,令一切众生之我得以生起。

12.353.14

अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम ।
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः ॥ १२.३५३.१४ ॥

啊,那罗延的光辉难以目睹,婆罗门中最优秀者啊。在劫末,梵天等一切诸神都进入其中。

12.353.15

ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम् ।
न ततोऽस्ति परं मन्ये पावतं दिवि चेह च ॥ १२.३५३.१५ ॥

诸仙与乾闼婆,以及一切动与不动之物——我认为没有比这更高的,它在天上和此处都能净化。

12.353.16

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् ।
न तथा फलदं चापि नारायणकथा यथा ॥ १२.३५३.१६ ॥

遍访一切隐修处,沐浴一切圣渡口,其果报也不如那罗延的故事那般丰厚。

12.353.17

सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् ।
हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् ॥ १२.३५३.१७ ॥

我们在此已彻底清净,从头听闻此故事——关于宇宙之主哈里的故事,它能灭除一切罪业。

12.353.18

न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः ।
वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् ॥ १२.३५३.१८ ॥

他在那里所做的并不奇怪——我的高贵的达难阇耶在婆苏提婆相助下,获得了无上的胜利。

12.353.19

न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु ।
त्रैलोक्यनाथो विष्णुः स यथाऽसीत्साह्यकृत्सखा ॥ १२.३५३.१९ ॥

我认为在三界之中,对他而言没有什么是不可得的;他是三界之主毗湿奴,是乐于相助的朋友。

12.353.20

धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वजाः ।
हिताय श्रेयसे चैव येषामासीज्जनार्दनः ॥ १२.३५३.२० ॥

婆罗门啊,我的那些祖先都是有福之人,因为janārdana曾为他们带来福利与吉祥。

12.353.21

तपसाऽप्यथ दुर्दर्शो भगवाँल्लोकपूजितः ।
यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम् ॥ १२.३५३.२१ ॥

即使以苦行也难以见到的世尊,受世间供奉,以室利吠遮(Śrīvatsa)印记为饰,他们亲眼见到了他。

12.353.22

तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः ।
दृष्टवान्यो हरिं देवं नारायणमजं विभुम् ॥ १२.३५३.२२ ॥

比他们更有福的是从梵天(Parameṣṭhin)所生的那罗陀,他见到了不生的、遍在的神哈利·那罗延。

12.353.23

न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् ।
श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः ॥ १२.३५३.२३ ॥

我不认为不朽的仙人那罗陀是微弱光辉之人;他抵达白岛,亲自见到了哈利。

12.353.24

देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् ।
यद्दृष्टवांस्तदा देवमनिरूद्धतनौ स्थितम् ॥ १२.३५३.२४ ॥

那次伴随神恩的见神,十分清晰;那时他看见神站立在阿尼卢达(Aniruddha)的身形之中。

12.353.25

बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः ।
नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने ॥ १२.३५३.२५ ॥

那罗陀再次前往跋达利的修道院。为了见那罗与那罗延,其原因为何,哦,仙人?

12.353.26

श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः ।
बदरीमाश्रमं प्राप्य समागम्य च तावृषी।
कियन्तं कालमवसत्प्रश्नान्कान्पृष्टवांश्च ह ॥ १२.३५३.२६ ॥

那罗陀从白岛返回,抵达跋达利修道院,与两位仙人相会,在那里停留了一段时间,并问了哪些问题。

12.353.27

श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि ।
किमब्रूतां महात्मानौ नरनारायणावृषी।
तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि ॥ १२.३५३.२७ ॥

那位大德从白岛返回后,大德仙人那罗与那罗延说了什么?请你把一切如实告诉我。

12.353.28

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा ।
शशास शिष्यमासीनं वैशंपायनमन्तिके।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥ १२.३५३.२८ ॥

黑衣仙人(毗耶娑)听到他的话后,便吩咐坐在近旁的弟子毗卢摩衍那:把你从我这里听到的一切都告诉他。

12.353.29

गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा ।
आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥ १२.३५३.२९ ॥

这位婆罗门中的俊杰领会了老师的吩咐,便开始讲述全部古老的历史。

12.353.30

नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ १२.३५३.३० ॥

敬礼那位具足无量光辉的世尊毗耶娑,蒙其恩典,我将讲述此那罗延之故事。

12.353.31

प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम् ।
निवृत्तो नारदो राजस्तरसा मेरुमागमत्।
हृदयेनोद्वहन्भारं यदुक्तं परमात्मना ॥ १२.३५३.३१ ॥

那罗陀抵达白色大洲并见到不朽的诃梨之后,国王啊,他迅速返回,来到须弥山,心中承载着至上我所说的那份责任。

12.353.32

पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् ।
यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः ॥ १२.३५३.३२ ॥

国王啊,此后他心中生起了巨大的恐惧与不安,因为他走过如此遥远的路程后,又平安地回到了这里。

12.353.33

मेरोः प्रचक्राम ततः पर्वतं गन्धमादनम् ।
निपपात च खात्तूर्णं विशालां बदरीमनु ॥ १२.३५३.३३ ॥

随后他从须弥山出发,前往香醉山;他从天空迅速降落,朝向毗舍罗菩提树所在之地。

12.353.34

ततः स ददृशे देवौ पुराणावृषिसत्तमौ ।
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ॥ १२.३५३.३४ ॥

于是他看见两位古老的神,是仙人中最杰出者,正在修行大苦行,安住于自我,持守大誓。

12.353.35

तेजसाऽभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् ।
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥ १२.३५३.३५ ॥

二人的光辉超过照耀一切世界的太阳;有吉祥天之印记,值得崇敬,头戴结成环形的发髻。

12.353.36

जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ ।
व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ ॥ १२.३५३.३६ ॥

二人的手足有蹼;双足有轮形吉相;胸膛宽阔,双臂修长,并有四种睾丸之相。

12.353.37

षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ ।
स्वास्यौ पृथुललाटौ च सुभ्रूसुहनुनासिकौ।
आतपत्रेण सदृशे शिरसी देवयोस्तयोः ॥ १२.३५३.३७ ॥

两位神有六十颗牙齿和八颗獠牙,声音如云团一般,面容俊美,额头宽阔,眉毛、下巴和鼻子都很秀美;两位神的头颅如同华盖。

12.353.38

एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ ।
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः ॥ १२.३५३.३८ ॥

纳罗陀见到这两位具足如此相好、被称为大人的神,心中欢喜,而他们也回敬了他的礼遇。

12.353.39

स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तथा ।
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ ॥ १२.३५३.३९ ॥

他们以欢迎之语与他交谈,并问候他的安好。纳罗陀凝视着这两位人中最尊贵者,心中陷入沉思。

12.353.40

सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः ।
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ ॥ १२.३५३.४० ॥

那些在集会中出席、为一切众生所礼敬的人,我曾在白岛见过这样的人;这两位最上的仙人也是这一类。

12.353.41

इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणाम् ।
स चोपविविशे तत्र पीठे कुशमये शुभे ॥ १२.३५३.४१ ॥

他心中如此思量,并向二神右绕致敬,然后在那里坐在吉祥的吉祥草座上。

12.353.42

ततस्तौ तपसां वासौ यशसां तेजसामपि ।
ऋषी शमदमोपेतौ कृत्वा पौर्वाह्णिकं विधिम् ॥ १२.३५३.४२ ॥

于是这两位仙人,是苦行、名声与光辉的居所,具备寂静与克制,完成了午前的仪轨——

12.353.43

यश्चान्नारदमव्यग्रौ पाद्यार्ध्याभ्यामथार्चतः ।
पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृपौ ॥ १२.३५३.४३ ॥

二位国王心无旁骛地以洗足水和阿尔ghya供养那罗陀,完成待客与日常仪轨后,坐在座位上。

12.353.44

तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत ।
भ्राज्याहुतिमहाञ्वालैर्यज्ञवाटो यथाऽग्निभिः ॥ १२.३५३.४४ ॥

当他们坐在那里时,那地方光辉四射,犹如祭场被祭火的明亮大火焰照耀。

12.353.45

अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् ।
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् ॥ १२.३५३.४५ ॥

于是那里的那罗延对坐得舒适、休息过、受到款待而安适的那罗陀说了这些话。

12.353.46

अपीदानीं स भगवान्परमात्मा सनातनः ।
श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा ॥ १२.३५३.४६ ॥

即使现在,你在白洲所见的那位圣尊、永恒的至上自我,也是我们二者的至高本性。

12.353.47

दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः ।
सर्वे लोका हि तत्रस्थास्तथा देवाः सहर्षिभिः ॥ १२.३५३.४७ ॥

我见到了那位光辉的补鲁沙,身具宇宙形相,不朽;那里住着一切世界,还有天神与仙人。

12.353.48

अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ ॥ १२.३५३.४८ ॥

至今我仍见到他,也见到你们二位永恒者。

12.353.49

यैर्लक्षणैरुपेतः स हरिरव्यरक्तरूपधृत् ।
तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् ॥ १२.३५३.४९ ॥

你们二人具有与持无形之相的哈里相同的标志,确实示现着具有这些标志的显现之相。

12.353.50

दृष्टौ युवां मया तत्र तस्य देवस्य पार्श्वतः ।
इहैव चागतोऽस्म्यद्य विसृष्टः परमात्मना ॥ १२.३५३.५० ॥

我在那位神的身旁见到了你们二人;受至上我所遣,我今日便来到了此处。

12.353.51

को हि नाम भवेत्तस्य तेजसा यशसा श्रिया ।
सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् ॥ १२.३५३.५१ ॥

论光辉、名声与吉祥,三界之中谁能与他相等,除了你们这两位法之子?

12.353.52

तेन मे कथितः कृत्स्नो धर्मः क्षेत्रज्ञसंज्ञितः ।
प्रादुर्भावाश्च कथिता भविष्या इह ये यथा ॥ १२.३५३.५२ ॥

他向我宣说了名为“知场者”的全部法,并且宣说了此处未来将要发生的显现,如其所当发生的那样。

12.353.53

तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः ।
प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् ॥ १२.३५३.५३ ॥

那里的白色之人,离于五根,皆已觉醒,并且皆是至上人的奉献者。

12.353.54

तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः ।
प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः ॥ १२.३५३.५४ ॥

他们常常礼拜那位神,而他与他们同乐;因为薄伽梵至上我,是奉献者所爱,也是再生者所爱。

12.353.55

रमते सोऽर्च्यमानो हि सदा भागवतप्रियः ।
विश्वभुक्सर्वगो देवो माधवो भक्तवत्सलः ॥ १२.३५३.५५ ॥

他受到供养时总是欢喜;他是薄伽梵信徒所爱,是享用世界者、遍在之神摩陀婆,对信徒慈爱。

12.353.56

स कर्ता कारणं चैव कार्यं चातिबलद्युतिः ।
हेतुश्चाज्ञाविधानं च तत्त्वं चैव महायशाः ॥ १२.३५३.५६ ॥

他是作者、因和果,具有极大的力量与光辉;他是理由、命令的安排,也是真理本身,啊大名者。

12.353.57

तपसा योज्य सोत्मानं श्वेतद्वीपात्परं हि यत् ।
तेज इत्यभिविख्यातं स्वयं भासावभासितम् ॥ १२.३५३.५७ ॥

以苦行使自己相应,从白岛而来的至高光辉名为“光明”(Tejas),它以自身之光照耀。

12.353.58

शान्तिः सा त्रिषु लोकेषु विहिता भावितात्मना ।
एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः ॥ १२.३५३.५८ ॥

此平静在三界中由自我净化者所制定;以此吉祥的智慧,安住于坚定的誓愿。

12.353.59

न तत्र सूर्यस्तपति न सोमोऽभिविराजते ।
न वायुर्वाति देवेशे तपश्चरति दुश्चरम् ॥ १२.३५३.५९ ॥

彼处太阳不炽热,月亮不照耀;在诸神之主修行难行苦行之处,风也不吹。

12.353.60

वेदीमष्टनलोत्सेधां भूमावास्थाय विश्वकृत् ।
एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्भुखः ॥ १२.३५३.६० ॥

世界创造者立于地上高八那罗的祭坛之上,单足而立,双臂高举,面朝北方。

12.353.61

साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम् ।
यद्ब्रह्म ऋषयश्चैव स्वयं पशुपतिश्च यत् ॥ १२.३५३.६१ ॥

诸仙反复诵习吠陀及其支分,行极难行之苦行——那即是梵,连主宰众生的湿婆亦自行之。

12.353.62

शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः ।
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्पयश्च ते ॥ १२.३५३.६२ ॥

其余者——诸天中的殊胜者、大力阿修罗、檀那婆与罗刹,龙、金翅鸟、乾闼婆、成就者与王仙,也都如此。

12.353.63

हव्यं कव्यं च सततं विधियुक्तं प्रयुञ्जते ।
कृत्स्नं तु तस्य देवस्य चरणावुपतिष्ठतः ॥ १२.३५३.६३ ॥

他们依仪轨恒常供奉天食与祖食;然而完全地,他们依止于那位神的双足。

12.353.64

याः क्रियाः संप्रयुक्ताश्च एकान्तगतबुद्धिभिः ।
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयं ॥ १२.३५३.६४ ॥

凡一心专注一志者所行之仪式,那神都亲自低首领受。

12.353.65

न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः ।
विद्यते त्रिषु लोकेषु ततोऽस्यैकान्तिकं गतः ॥ १२.३५३.६५ ॥

对于觉悟的大心者,三界之中无人比他更为可爱;因此他们已成为他的一心奉献者。

12.353.66

इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना ।
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः ॥ १२.३५३.६६ ॥

今日我受至上自我所遣而来至此;如是,世尊天神哈里亲自向我宣说。

12.353.67

आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥ १२.३५३.६७ ॥

我专心于此,将与你们二人永远同在。