摩诃婆罗多 · 章 12.354
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.354.1
धन्योस्यनुगृहीतोसि यत्ते दृष्टः स्वयंप्रभुः ।
न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम् ॥ १२.३५४.१ ॥
你有福且蒙恩,因为自生的主亲自向你显现。连从莲花生出的梵天也未曾亲自这样见到他。
12.354.2
अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः ।
नारदैतद्धि नौ सत्यं वचनं समुदाहृतम् ॥ १२.३५४.२ ॥
那无形之源的世尊、至上人,是难以看见的。那罗陀啊,我们二人所说的这番话是真实的。
12.354.3
नास्य भक्तात्प्रियतरो लोके कश्चन विद्यते ।
ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम ॥ १२.३५४.३ ॥
世上没有比他的信徒更让他珍爱的人。因此他亲自显示了自己的真身,婆罗门中的最优者啊。
12.354.4
तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः ।
न तत्संप्राप्नुते कश्चिदृते ह्यावां द्वितोत्तम ॥ १२.३५४.४ ॥
即使修苦行的人也达不到至上我的那个境界,除了我们二人之外,婆罗门中的最优者啊。
12.354.5
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः ।
स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता ॥ १२.३५४.५ ॥
那如同千万个太阳的全部光辉,便是那个地方的光辉;它由他的光芒自行照耀。
12.354.6
तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः ।
क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते ॥ १२.३५४.६ ॥
因此,婆罗门啊,它从世界存在的主神那里升起。忍耐者中的最优者啊,正是由于忍耐,大地才得以维系。
12.354.7
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहिताद्रसः ।
आपो हि तेन युज्यन्ते द्रवत्वं प्राप्नुवन्ति च ॥ १२.३५४.७ ॥
从那位是一切众生之利益的神中,生出了味(rasa)。水因此相聚,并获得了流动之性。
12.354.8
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् ।
येन संयुज्यते सूर्यस्ततो लोके विराजते ॥ १२.३५४.८ ॥
正是从那位神中,生出了以形与德为本性的光明。太阳因此与之相连,故在世间放光。
12.354.9
तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् ।
येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ ॥ १२.३५४.९ ॥
从那位最尊贵的神中,生出了触觉。风因此与之相连,故吹拂于诸世界。
12.354.10
तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः ।
आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् ॥ १२.३५४.१० ॥
又从那位统领一切世界的主宰中,生出了声音。虚空因此与之相连,故无所遮蔽而常存。
12.354.11
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः ।
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः ॥ १२.३५४.११ ॥
又从那遍在于一切众生之中的神中,生出了心意。月亮因此与之相连,承载着光明之德。
12.354.12
सद्भूतोत्पादकं नाम तत्स्थानं वेदसंज्ञितम् ।
विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक् ॥ १२.३५४.१२ ॥
那处产生真实众生、名为吠陀的所在,是世尊与智慧相伴而居之处;他是享用祭祀供品与祖先供养的主。
12.354.13
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः ।
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ॥ १२.३५४.१३ ॥
世上那些无垢、超越功过的人,哦,二生者中的至尊,他们所行的道路确实是安稳之路。
12.354.14
सर्वलोके तमोहन्ता आदित्यो द्वारमुच्यते ।
ज्वालामाली महातेजा येनेदं धार्यते जगत् ॥ १२.३५४.१४ ॥
在整个世界,驱散黑暗的太阳被称为门户;那佩戴火焰花环、大放光明的,由他维系着这个世界。
12.354.15
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् ।
परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत ॥ १२.३५४.१५ ॥
他们全身被太阳烧尽,不为任何人在任何地方所见;化为微尘之后,他们进入那位神。
12.354.16
तस्मादपि च निर्मुक्ता अनिरुद्धतनौ स्थिताः ।
मनोभूतास्ततो भूत्वा प्रद्युम्नं प्रविशन्त्युत ॥ १२.३५४.१६ ॥
从那里也解脱之后,他们安住于阿尼如达的身中;然后化为意,进入普拉优姆那。
12.354.17
प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं ततः ।
विशन्ति विप्रप्रवराः साङ्ख्या भागवतैः सह ॥ १२.३५४.१७ ॥
他们从普拉优姆那中也得解脱,然后进入作为生命自我的桑卡尔沙那;诸位婆罗门中的至尊啊,数论修习者与薄伽梵信徒一同前往。
12.354.18
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा ।
प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञं निर्गुणात्मकम्।
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥ १२.३५४.१८ ॥
此后,远离三德的他们直接进入至上自我,哦,二生者中的至尊,进入那性质超越一切的田知者。须如实知道,遍在一切的居所婆苏提婆就是田知者。
12.354.19
समाहितमनस्काश्च नियताः संयतेन्द्रियाः ।
एकान्तभावोपगता वासुदेवं विशन्ति ते ॥ १२.३५४.१९ ॥
心志专一、自持节制、诸根调伏、达到专一之境者,皆入于婆苏提婆。
12.354.20
आवामपि च धर्मस्य गुहे जातौ द्विजोत्तम ।
रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ ॥ १२.३५४.२० ॥
婆罗门中最上者啊,我二人亦生于法之洞窟。依于宽广美妙之处,我们已发起苦行。
12.354.21
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः ।
भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यथो द्विज ॥ १२.३५४.२१ ॥
至于那位神的显现,为诸神所爱、住于三界者,愿他们平安吉祥,婆罗门啊。
12.354.22
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम ।
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यगनुत्तमम् ॥ १२.३५४.२२ ॥
婆罗门中最上者啊,我二人依自身仪轨,一如往昔,如法受持最上的一切苦行誓愿(sarva-kṛcchra)。
12.354.23
स्वार्थेन विधिना युक्तः सर्वकृच्छ्रव्रते स्थितः ।
आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन ॥ १२.३५४.२३ ॥
你为自身之故依仪轨而住,安立于一切苦行誓愿之中,苦行之富者啊,我二人亦曾于白岛见到你。
12.354.24
समागतो भगवता संकल्पं कृतवांस्तथा ।
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे ॥ १२.३५४.२४ ॥
与世尊相会,他亦如是立愿;三界之中,动与不动的一切,我二人皆知。
12.354.25
यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् ।
सर्वं स ते कथितवान्देवदेवो महामुने ॥ १२.३५४.२५ ॥
凡将发生的、已经发生的、正在发生的,善与恶,一切都由神中之神告诉了你,大哲人啊。
12.354.26
एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रे च वर्ततोः ।
नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः ॥ १२.३५४.२६ ॥
那先于苦行中的二位所说的这些话,那罗陀合掌而立,遂全心皈依那罗延那。
12.354.27
जजाप विधिवन्मन्त्रान्नारायणगतान्बहून् ।
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे ॥ १२.३५४.२७ ॥
在那罗与那罗延的净修林中,他依法诵念许多与那罗延相关的咒语,整整一千个神圣之年。
12.354.28
अवसत्स महातेजा नारदो भगवानृषिः ।
तावेवाभ्यर्चयन्देवौ नरनारायणौ च तौ ॥ १२.३५४.२८ ॥
大光明的圣者、尊贵的那罗陀住在那里,恭敬供养那两位神,那罗与那罗延。