Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.355

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.355.1

कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः ।
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् ॥ १२.३५५.१ ॥

过了一段时间,由最高主(梵天)所生的那罗陀依法举行了诸神之祭,随后又举行了祖先之祭。

12.355.2

ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः ।
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते ॥ १२.३५५.२ ॥

于是法之子、长兄之主对他说:“二生者中最尊贵的人啊,在诸神之祭和祖先之祭中,供奉的是谁?”

12.355.3

त्वया मतिमतां श्रेष्ठ तन्मे शंस यथातथम् ।
किमेतत्क्रियते कर्म फलं वाऽस्य किमिष्यते ॥ १२.३५५.३ ॥

“智者中最优秀的人啊,请如实告诉我:这项仪式为何而行?人们希望从中获得什么果报?”

12.355.4

त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि ।
दैवतं च परो ज्ञेयः परमात्मा सनातनः ॥ १२.३५५.४ ॥

那罗陀说:“先前正是您自己说过:应当行诸神之祭,而应当被认识为至高的神,乃是永恒的最高我。”

12.355.5

ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम् ।
तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः ॥ १२.३५५.५ ॥

“因此,我专心于他,始终供奉不朽的吠求恒(毗湿奴);正是从他那里,世界之祖梵天在往昔诞生。”

12.355.6

मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत् ।
अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः ॥ १२.३५५.६ ॥

“梵天欢喜之下,也生出了我的父亲;而我由他的意念所生,是他最先创造的儿子。”

12.355.7

यजामि वै पितॄन्साधो नारायणविधौ कृते ।
एवं स एव भगवान्पिता माता पितामहः ॥ १२.३५५.७ ॥

善人啊,依照那罗延的仪轨而行时,我祭祀祖先。如此,他自己就是世尊、父、母、祖父。

12.355.8

इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः ।
श्रुतिश्चाप्यपरा देवाः पुत्रान्हि पितरोऽयजन् ॥ १२.३५५.८ ॥

在祖先祭祀中,我始终祭祀世界之主。诸神啊,还有另一种天启之教:确实是子嗣祭祀了祖先。

12.355.9

वेदश्रुतिः प्रनष्टा च पुनरध्यापिता सुतैः ।
ततस्ते मन्त्रदाः पुत्राः पितॄणामिति वैदिकम् ॥ १२.३५५.९ ॥

吠陀天启曾经失传,后由诸子重新传授。于是那些授予咒语的儿子属于祖先——这是吠陀的规定。

12.355.10

नूनं सुरैस्तद्विदितं युवयोर्भावितात्मनोः ।
पुत्राश्च पितरश्चैव परस्परमपूजयन् ॥ १२.३५५.१० ॥

诸天必定知道你们二位心灵纯净者的这些事:子嗣与祖先彼此尊敬。

12.355.11

त्रीन्पिण्डान्न्यस्य वै पित्र्यान्पूर्वं दत्त्वा कुशानिति ।
कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा ॥ १२.३५५.११ ॥

先为祖先置三个米团、献上吉祥草——那么,那些祖先在古时如何获得了“团”(piṇḍa)之名?

12.355.12

इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् ।
गोविन्द उज्जहाराशु वाराहं रूपमास्थितः ॥ १२.३५५.१२ ॥

往昔此被大海环绕而失落的大地,Govinda 化为野猪之形,迅速将其托起。

12.355.13

स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः ।
जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः ॥ १२.३५५.१३ ॥

最优之人将大地安放于其本位,身体沾满水与泥,准备为诸世界之事而行动。

12.355.14

प्राप्ते चाह्निककाले तु मध्यदेशगते रवौ ।
दंष्ट्राविलग्नांस्त्रीन्पिण्डान्विधूय सहसा प्रभुः ॥ १२.३५५.१४ ॥

日常祭礼之时到来,太阳行至中天,主忽然抖落了粘在獠牙上的三个团子。

12.355.15

स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद ।
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि ॥ १२.३५५.१५ ॥

纳羅陀啊,他铺开吉祥草,将它们置于地上;并以自身为对象,依规定举行了祖先祭祀。

12.355.16

संकल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः ।
आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस्तिलैरपि ॥ १२.३५५.१६ ॥

主以自己的方式决定三个团子,用由自身体温所生、含油的芝麻来制作。

12.355.17

प्रोक्ष्यापसव्यं देवेशः प्राङ्भुखः कृतवान्स्वयम् ।
मर्यादास्थापनार्थं च ततो वचनमुक्तवान् ॥ १२.३५५.१७ ॥

神主以逆向洒水,自己面向东方完成仪式;随后,为确立应有的规矩,他说出了这些话。

12.355.18

अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम् ।
तस्य चिन्तयतः सद्यः पितृकार्यविधीन्परान् ॥ १२.३५५.१८ ॥

我,世界的创造者,决心创造祖先;当他沉思时,祖先之事的至上规则立即显现。

12.355.19

दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् ।
आश्रिता धरणीं पीड्य तस्मात्पितर एव ते ॥ १२.३५५.१९ ॥

这些被我的獠牙抖落、压住大地而在南方落定的,正是你们的祖先(pitara)。

12.355.20

त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे ।
भवन्तु पितरो लोके मया सृष्टाः सनातनाः ॥ १२.३५५.२० ॥

这三者虽无形体,却承载饼团(piṇḍa)之形。愿这些由我所造的永恒祖先存在于世间。

12.355.21

पिता पितामहश्चैव तथैव प्रपितामहः ।
अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः।
नास्ति मत्तोऽधिकः कश्चित्को वान्योर्च्यो मया स्वयं ॥ १२.३५५.२१ ॥

父、祖父,以及同样的曾祖父——应知我自己安住于这三个饼团之中,就在此处。没有比我更尊贵的;又有谁值得我亲自礼拜呢?

12.355.22

अहमेव पिता लोके अहमेव पितामहः ।
पितामहपिता चैव अहमेवात्र कारणम् ॥ १२.३५५.२२ ॥

在世间,我自己便是父亲;我自己便是祖父;祖父的父亲也正是我自己;在此,我自己便是根本的原因。

12.355.23

इत्येतदुक्त्वा वचनं देवदेवो वृषाकपिः ।
वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान्।
आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः ॥ १२.३५५.२३ ॥

说完这番话,诸神之神瓦尔沙卡皮(Vṛṣākapi),婆罗门啊,在瓦拉哈山上详尽地施予饼团,并使自己被礼拜,便在那里隐去了身形。

12.355.24

एतदर्थं सुभमते पितरः पिण्डसंज्ञिताः ।
लभन्ते सततं पूजां वृषाकपिवचो यथा ॥ १२.३५५.२४ ॥

正因此故,善心之人啊,名为饼团(piṇḍa)的祖先们,依照瓦尔沙卡皮的话,常得礼拜供养。

12.355.25

ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिर्थीस्तथा ।
गाश्चैव द्विजमुख्यांश्च पितरं मातरं तथा ॥ १२.३५५.२५ ॥

凡敬奉祖先、诸神、师长与客人,以及奶牛、上等再生者、父亲与母亲者。

12.355.26

कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते ।
अन्तर्गतः स भगवान्सर्वसत्वशरीरगः ॥ १२.३५५.२६ ॥

以行为、心念与言语唯独供奉毗湿奴者——那位居于内在、遍在于一切众生之身的世尊。

12.355.27

समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः ।
महान्महात्मा सर्वात्मा नारायण इति श्रुतिः ॥ १२.३५५.२७ ॥

于一切众生平等、于苦乐平等的主宰,伟大、崇高、一切之我——他即是那罗延,吠陀启示如是说。