摩诃婆罗多 · 章 12.356
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.356.1
श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् ।
अत्यन्तं भक्तिमान्देवे एकान्तित्वमुपेयिवान् ॥ १२.३५६.१ ॥
那罗陀听到那罗与那罗延所说的这番话,对神极为虔敬,达到了专一的奉爱。
12.356.2
उषित्वा वर्षसाहस्रं नरनारायणाश्रमे ।
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम्।
जगाम हिमवत्कुक्षावाश्रमं स्वं सुरार्चितम् ॥ १२.३५६.२ ॥
在那罗与那罗延的净修林中居住了一千年,听闻了世尊的故事并见到了不朽的哈利之后,他前往自己在喜马拉雅山怀中、受诸神礼敬的净修林。
12.356.3
तावपि ख्यातयशसौ नरनारायणावृषी ।
तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप सत्तमम् ॥ १२.३५६.३ ॥
那两位名声显赫的仙人那罗与那罗延,也在那座可爱的净修林中修行最殊胜的苦行。
12.356.4
त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः ।
पावितात्माऽद्य संवृत्तः श्रुत्वेमामादितः कथाम् ॥ १२.३५६.४ ॥
你也是勇武无比、担负般度族血脉的人,今日听完这个故事的全部,心灵已得净化。
12.356.5
नैव तस्यापरो लोको नायं पार्थिवसत्तम ।
कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ॥ १२.३५६.५ ॥
啊,王中之最,对那些以行为、心意或言语憎恨不朽毗湿奴的人,既无此世界,也无其他世界。
12.356.6
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।
यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम् ॥ १२.३५६.६ ॥
憎恨诸神中最殊胜的神那罗延哈利的人,其祖先将在地狱中沉沦无尽的岁月。
12.356.7
कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् ।
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति श्रुतिः ॥ १२.३५६.७ ॥
人中之虎啊,世上任何人的自我怎么会可憎?自我应当被认识为毗湿奴,这是吠陀启示所说。
12.356.8
य एष गुरुरस्माकमृषिर्गन्धवतीसुतः ।
तेनैतत्कथितं तात माहात्म्यं परमात्मनः।
तस्माच्छ्रुतं मया चेदं कथितं च तवानघ ॥ १२.३५६.८ ॥
我们的老师,甘达瓦蒂之子那位仙人,亲爱的,曾讲述至高自我的伟大。因此我听闻了此事,无垢者啊,也已讲述给你。
12.356.9
नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः ।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥ १२.३५६.९ ॥
国王啊,此法由那罗陀连同其秘义与要义,直接从世界之主那罗延处获得。
12.356.10
एवमेष महान्धर्मः स ते पूर्वं नृपोत्तम ।
कथितो हरिगीतासु समासविधिकल्पितः ॥ १२.३५६.१० ॥
如是,王中之最,此大法先前已为你宣说,以简要之法编排于哈里之歌中。
12.356.11
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्।
धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम् ॥ १२.३५६.११ ॥
应知毗耶娑(黑氏仙,克里希那·二岛)即是主那罗延。除了莲花眼者,谁能作《摩诃婆罗多》?除了那位主,谁能宣说种种法?
12.356.12
वर्ततां ते महायज्ञो यथासंकल्पितस्त्वया ।
संकल्पिताश्वमेधस्त्वं श्रुतधर्मा च तत्त्वतः ॥ १२.३५६.१२ ॥
愿你的大祭如你所决定的那样进行。你已决定举行马祭,并且真正听闻了法。
12.356.13
एतत्तु महदाख्यानं श्रुत्वा पारीक्षितो नृपः ।
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् ॥ १२.३५६.१३ ॥
国王(波利刹多之子)听完这部伟大的故事后,开始进行所有仪式,以完成祭祀。
12.356.14
नारायणीयमाख्यानमेतत्ते कथितं मया ।
पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु ॥ १२.३५६.१४ ॥
这部那罗延尼耶故事是我应居住在那弥舍林的首诺迦等人之请讲给你们的。
12.356.15
नारदेन पुरा यद्वै गुरवे तु निवेदितम् ।
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः ॥ १२.३५६.१५ ॥
这是往昔那罗陀向师尊所宣说的,当时众仙人、般度诸子、黑天与毗湿摩都在聆听。
12.356.16
स हि परमर्षिर्जनभुवनपतिः ।
पृथुधरणिधरः श्रुतिविनयपरः।
शमनियमनिधिर्यमनियमपरो द्विजवर ।
सहितस्तव च भवतु गतिर्हरिरमरहितः ॥ १२.३५६.१६ ॥
他是至高的仙人,众人与三界之主,承载广袤大地,专心于吠陀学问与自律,是寂静与克制的宝库。啊,再生者中最优秀的,愿为诸天谋利的哈里与你同在,成为你的归宿。
12.356.17
भयदो मखभागहरोस्तु शरणं स ते ॥ १२.३५६.१७ ॥
他既施予恐惧,又受取祭祀之分,愿他成为你的皈依。
12.356.18
त्रिगुणो विगुणश्चतुरात्मधरः ।
पूर्तेष्टयोश्च फलभागहरः।
विदधातु नित्यमजितोऽतिचलो ।
गतिरात्मवतां सुकृतिनामृषीणाम् ॥ १२.३५६.१८ ॥
三德之身亦超越三德,承载四重自我,领受功德与祭祀之果报之分;愿这不可胜、至不动者永远安排,并成为自制而有德的仙人之归宿。
12.356.19
तं लोकसाक्षिणमजं पुरुषं पुराणं ।
रविवर्णमीश्वरं गतिं बहुशः।
प्रणमध्वमेकमतयो यतः ।
सलिलोद्भवोपि तमृषिं प्रणतः ॥ १२.३५६.१९ ॥
你们应一心多次敬礼那作为世界见证者、无生的古老补鲁莎、太阳色的主宰、归趣;即便生于水中者也向那位仙人顶礼。
12.356.20
स हि लोकयोनिरसृतस्य पदं ।
सूक्ष्मं परायणमचलं हि पदम्।
तत्साङ्ख्ययोगिभिरुदाहृतं तं ।
बुद्ध्या यतात्मभिरिदं सनातनम् ॥ १२.३५६.२० ॥
他确实是诸世界的源头,不死者的居所,微妙、至高的归依,不动的境界。数论与瑜伽的知者宣说了他;心已调伏的人以智慧认识这永恒者。