Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 12.358

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

12.358.1

अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः ।
विधिप्रयुक्तां पूजां च गृह्णाति शिरसा स्वयम् ॥ १२.३५८.१ ॥

ああ!尊きハリは、一心の信者すべてを喜ばせ、規定どおりに捧げられた供養を、自ら頭を垂れて受け取られる。

12.358.2

ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः ।
तेषां च या हि निर्दिष्टा पारम्पर्यागता गतिः ॥ १२.३५८.२ ॥

世にあって業の薪を焼き尽くし、功徳と罪悪を離れた者たちに、伝承によって示された定まった行き先について。

12.358.3

चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् ।
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ॥ १२.३५८.३ ॥

第四の行き先では彼らは最高人格に至るが、一心の人々は至高の境地へ行く。

12.358.4

नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः ।
अगत्वा गतयतिस्रो यद्गच्छत्यव्ययं हरिम् ॥ १२.३५८.४ ॥

まことに、この一心の帰依の法は最上であり、ナーラーヤナに愛されている。三つの行き先を経ずに、不滅のハリに至るのだから。

12.358.5

सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः ।
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ॥ १२.३५८.५ ॥

ウパニシャッドとともにヴェーダを正しく保持し、規定どおりに読誦するバラモンたち、そして遊行者の法に従う人々。

12.358.6

तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् ।
केनैष धर्मः कथितो देवेन ऋषिणाऽपि वा ॥ १२.३५८.६ ॥

彼らより優れた行き先が一心の人々にあることを私は知っている。この法は、いかなる神または聖仙によって説かれたのか。

12.358.7

एकान्तिनां च का चर्या कदा चोत्पादिता विभो ।
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥ १२.३५८.७ ॥

一心の求道者(エーカーンティン)の行いとは何か、また、それはいつ始まったのか。偉大な方よ、私の疑いを解いてください。私は大いに知りたいのです。

12.358.8

समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे ।
अर्जुने विमनस्के च गीता भगवता स्वयम् ॥ १२.३५८.८ ॥

クルとパーンドゥの軍勢が戦いのために整列したとき、沈む心のアルジュナに、尊き主御自身がギーターを語られた。

12.358.9

आगतिश्च गतिश्चैव पूर्वं ते कथिता मया ।
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥ १२.३५८.९ ॥

来ることと去ることは、私が前にあなたに話した。この法は深遠であり、自己を制していない者には理解しがたい。

12.358.10

संमितः सामवेदेन पुरैवादियुगे कृतः ।
धार्यते स्वयमीशेन राजन्नारायणेन ह ॥ १२.३५८.१० ॥

この法は、遠い昔、最初の時代に、サーマ・ヴェーダによって定められ形作られた。王よ、それは主ナーラーヤナ御自身が支えておられる。

12.358.11

एतदर्थं महाराज पृष्टः पार्थेन नारदः ।
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ॥ १२.३५८.११ ॥

大王よ、まさにこのために、プリター(アルジュナ)は仙人たちの中で大いなる幸福者ナーラダに問いかけた。クリシュナとビーシュマが聞いている中で。

12.358.12

गुरुणा च मयाऽप्येव कथितो नृपसत्तम ।
यथा तत्कथितं तत्र नारदेन तथा शृणु ॥ १२.३५८.१२ ॥

王の中の最良の方よ、私の師も私もこれを語った。そこでナーラダが語ったとおりに聞きなさい。

12.358.13

यदाऽऽसीन्मानजं जन्म नारायणमुखोद्गतम् ।
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् ॥ १२.३५८.१३ ॥

大地の守護者よ、ナーラーヤナの口から生じたブラフマーの意生の誕生があったとき、そのときナーラーヤナ自身が(それを行った)。

12.358.14

तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत ।
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे ॥ १२.३५८.१४ ॥

バラタの子孫よ、その法によって(ナーラーヤナは)神々の祭儀と祖霊の祭儀を行った。泡を飲む聖仙たちもまたその法を受け入れた。

12.358.15

वैखानसाः फेनपेभ्यो धर्मं तं प्रतिपदिरे ।
वैखानसेभ्यः सोपस्तु ततः सोऽन्तर्दधे पुनः ॥ १२.३५८.१५ ॥

ヴァイカーナサの聖仙たちは泡を飲む聖仙からその法を受け取った。それから彼はヴァイカーナサたちのもとに近づき、そしてまた姿を消した。

12.358.16

यदाऽऽसीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप ।
यदा पितामहेनैव सोमाद्धर्मः परिश्रुतः ॥ १२.३५८.१६ ॥

王よ、ブラフマーの第二の誕生であるチャークシュシャが起こったとき、祖父(ブラフマー)自らがソーマから法を聞いた。

12.358.17

नारायणात्मको राजन्रुद्राय प्रददौ च तम् ।
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप ॥ १२.३५८.१७ ॥

王よ、ナーラーヤナの本性をもつ者(ブラフマー)はそれをルドラに与えた。それからヨーガに住するルドラは、王よ、昔のクリタ時代にそれを受け取った。

12.358.18

वालखिल्यानृषीन्सर्वान्धर्ममेनमपाठयत् ।
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया ॥ १२.३५८.१८ ॥

彼はすべてのヴァーラキリヤの聖仙にこの法を教えた。それからその神の幻力によって、彼は再び姿を消した。

12.358.19

तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् ।
तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप ॥ १२.३५८.१९ ॥

ブラフマーの第三の誕生、言葉から生じた偉大なもの。王よ、そこでこの法はナーラーヤナから自ずと生じたのである。

12.358.20

सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् ।
तपसा वै सुतप्तेन दमेन नियमेन च ॥ १२.३५८.२० ॥

スパルナという名の聖者は、至高の人から、厳しい苦行と自制と戒律によってそれを得た。

12.358.21

त्रिः परिक्रान्तवानेतत्सुपर्णो धर्मसुत्तमम् ।
यस्मात्तस्माद्व्रतं ह्येतत्रिसौपर्णमिहोच्येत ॥ १२.३५८.२१ ॥

スパルナはこの至上の法を三度めぐった。ゆえにこの誓戒はここで「トリサウパルナ」と呼ばれる。

12.358.22

ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् ।
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ॥ १२.३५८.२२ ॥

リグ・ヴェーダの朗誦によって唱えられるこの誓戒は、実に困難である。スパルナからも、この永遠の法は得られたのである。

12.358.23

वायुना द्विपदश्रिष्ठे प्रथितो जगदायुषा ।
वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ॥ १२.३५८.२३ ॥

二足の者のうち最も優れたヴァーユによって、世界の寿命とともにこれは広まった。ヴァーユのもとから、残り物を食する聖者たちがそれを得た。

12.358.24

तेभ्यो महोदधिश्चैव प्राप्तवान्धर्ममुत्तमम् ।
अन्तर्दधे ततो भूयो नारायणसमाहृतः ॥ १२.३५८.२४ ॥

彼らからは大海もまた至上の法を得た。その後、それはナーラーヤナによって収められ、再び姿を消した。

12.358.25

यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः ।
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥ १२.३५८.२५ ॥

人中の虎よ、偉大な魂ブラフマーから聞くことによって生じた創造が再び起こったとき、そこで語られるのを聞け。

12.358.26

जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम् ।
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुम् ॥ १२.३५८.२६ ॥

世界を創造しようと心に決めた神ハリ・ナーラーヤナは、世界創造を行う主なるプルシャを自ら思い巡らした。

12.358.27

अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः स्मृतः ।
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः ॥ १२.३५८.२७ ॥

そして彼が思索しているとき、その耳から、生きものを創造するブラフマーという名のプルシャが現れた。世界の主は彼に語った。

12.358.28

सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा ।
श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत ॥ १२.३५८.२८ ॥

息子よ、すべての生きものを口から、そして同じく足から創造せよ。善き誓願を持つ者よ、私はお前に幸福と力と輝きを授けよう。

12.358.29

धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ।
तेन सृष्टं कृतयुगं स्थापयस्व यथाविधि ॥ १२.३५८.२९ ॥

私から、サートヴァタという名で知られる法を受け取れ。それによって創られたクリタ・ユガを、規定どおりに確立せよ。

12.358.30

ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे ।
धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम् ॥ १२.३५८.३० ॥

そこでブラフマーは知恵あるハリ・メーダス神に礼拝し、秘義と概説を伴う最上の法を受け取った。

12.358.31

आरण्यकेन सहितं नारायणमुखोद्गतम् ।
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे ॥ १२.३५८.३१ ॥

そして、アーラニヤカとともにナーラーヤナの口から出たダルマを、無限の威光のブラフマーに説いた後、

12.358.32

तं कार्तयुगधर्माणं निराशीः कर्मसंज्ञितम् ।
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ॥ १२.३५८.३२ ॥

クリタ時代のダルマを本性とし、結果を求めず、行為と呼ばれるそれは、闇を越えて、アヴィヤクタの住む彼岸へと赴いた。

12.358.33

ततोऽथ वरदो देवो ब्रह्मा लोकपितामहः ।
असृजत्स ततो लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥ १२.३५८.३३ ॥

そして、恩恵を与える神であり、世界の祖父であるブラフマーは、不動のものと動くものを含む全世界を創造した。

12.358.34

ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् ।
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ॥ १२.३५८.३४ ॥

その時、初めに吉祥なるクリタの時代が始まった。そして、サートヴァタのダルマが諸世界に行き渡り、確立された。

12.358.35

तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् ।
पूजयामास देवेशं हरिं नारायणं प्रभुम् ॥ १२.३५८.३५ ॥

その根源のダルマによって、諸世界を生み出したブラフマーは、神々の主、ハリ、ナーラーヤナ、主を礼拝した。

12.358.36

धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः ।
अध्यापयामास तदा लोकानां हितकाम्यया ॥ १२.३५८.३६ ॥

ダルマを確立するため、また諸世界の福利を願って、彼はそのときスヴァーロチシャ・マヌに学ばせた。

12.358.37

ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप ।
अध्यापयत्पुराऽव्यग्रः सर्वलोकपतिर्विभुः ॥ १२.३५८.३७ ॥

そのとき、スヴァーロチシャは自ら、動じることなく、全世界の主にして遍在する者として、息子シャンカパダに、王よ、昔これを教えた。

12.358.38

ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् ।
दिशापालं सुधर्माणमध्यापयत भारत।
सोऽन्तर्दधे ततो भूयः प्राप्ते त्रेतायुगे पुनः ॥ १२.३५८.३८ ॥

その後シャンカパダもまた、自らの嫡子である方位神スダルマンに教えた、バーラタよ。彼は姿を消し、再びトレーター時代が訪れたとき、再び現れた。

12.358.39

नासत्ये जन्मनि पुरा ब्रह्मणः पार्थिवोत्तम ।
धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः ॥ १२.३५८.३९ ॥

最良の王よ、昔ブラフマーの誕生の時、ナーサティヤの時代に、神ハリ・ナーラーヤナ、主ご自身が、この同じダルマを[明かした]。

12.358.40

तज्जगादारविन्दाक्षो ब्रह्मणः पश्यतस्तदा ।
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप ॥ १२.३५८.४० ॥

蓮華眼の神がそれを説き、ブラフマーがそれを見守っていた。そのとき尊き サナトクマーラが、王よ、それを誦習して学んだ。

12.358.41

सनत्कुमारादपि च वीरणो वै प्रजापतिः ।
कृतादौ कुरुशार्दूल धर्ममेतदधीतवान् ॥ १२.३५८.४१ ॥

またサナトクマーラからも、生類の主ヴィーラナが、クリタ時代の初めにこのダルマを学んだ。クルの虎よ。

12.358.42

वीरणश्चाप्यधीत्यैनं रैभ्याय मुनये ददौ ।
रैभ्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥ १२.३५८.४२ ॥

ヴィーラナもまたそれを学んで、賢者ライブヤに与えた。そしてライブヤは、清浄で誓いを守り、賢明な息子に与えた。

12.358.43

कुक्षिपालाय च ददौ विशालाय च धर्मिणे ।
ततोऽप्यन्तर्दधे भूयो नारायणमुखोद्गतः ॥ १२.३५८.४३ ॥

彼はククシパーラと正しきヴィシャーラにそれを与えた。その後、ナーラーヤナの口から生まれた者は再び姿を消した。

12.358.44

अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये ।
एष धर्मः समुद्भूतो नारायणमुखात्पुनः ॥ १२.३५८.४४ ॥

卵生の生において、再び、ハリから生まれたブラフマーのために、このダルマはナーラーヤナの口から再び生じた。

12.358.45

गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि ।
अध्यापिताश्च मुनयो नाम्ना बर्हिपदो नृप ॥ १२.३५८.४५ ॥

王よ、ブラフマーはそれを受け取り、規定どおりに用いた。王よ、バルヒパダという名で知られる聖仙たちがそれを教えられた。

12.358.46

बर्हिषद्भ्यश्च संप्राप्तः सामवेदान्तगं द्विजम् ।
ज्येष्ठं नामाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥ १२.३५८.४६ ॥

バルヒシャドからは、ジェーシュタという名で名高く、サーマ・ヴェーダの終わりに至った再生族が現れた。ハリはジェーシュタ・サーマの誓いを守る者であった。

12.358.47

ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम् ।
अन्तर्दधे ततो राजन्नेष दर्मः प्रभो हरेः ॥ १२.३५८.४७ ॥

ジェーシュタからは王アヴィカンパナにも伝わった。その後、王よ、それは消えた。主よ、これがハリのダルマである。

12.358.48

यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप ।
तत्रैष धर्मः कथितः स्वयं नारायणेन ह ॥ १२.३५८.४८ ॥

王よ、これは蓮華生まれのブラフマーの第七の生である。その中で、このダルマはナーラーヤナ自身によって説かれた。

12.358.49

पितामहाय शुद्धाय युगादौ लोकधारिणे ।
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ ॥ १२.३५८.४९ ॥

劫の初めに、清浄で世界を支える祖父へ、そして祖父は昔ダクシャにこの法を与えた。

12.358.50

ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम ।
आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ॥ १२.३५८.५० ॥

その後、王の中の最上なるダクシャは、年長の外孫である、サヴィトリの長子アーディティヤにそれを与えた。その後ヴィヴァスヴァットがそれを受け取った。

12.358.51

त्रेतायुगादौ च ततो विवस्वान्ममवे ददौ ।
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥ १२.३५८.५१ ॥

トレーター・ユガの初めに、ヴィヴァスヴァットはマヌに与え、マヌは世界の幸福のために息子イクシュヴァークにそれを与えた。

12.358.52

इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः ।
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप ॥ १२.३५८.५२ ॥

イクシュヴァークに説かれたこの法は、諸世界に広がり留まっている。王よ、壊滅の終わりに、それは再びナーラーヤナへ帰るであろう。

12.358.53

यतीनां चापि यो धर्मः स ते पूर्वं नृपोत्तम ।
कथितो हरिगीतासु समासविधिकल्पितः ॥ १२.३५८.५३ ॥

王の中の最上なる者よ、苦行者の法もまた、以前にハリ・ギーターの中で簡潔な方法として、あなたに説かれた。

12.358.54

नारदेन सुसंप्राप्तः सरहस्यः ससंग्रहः ।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥ १२.३५८.५४ ॥

ナーラダはこの法を、その秘義と要約とともに完全に受け取った。王よ、この法は世界の主、ナーラーヤナから直接に来たのである。

12.358.55

एवमेव महान्धर्मे आद्यो राजन्सनातनः ।
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥ १२.३५८.५५ ॥

同様に、王よ、この偉大で根源的な、永遠のダルマは理解しがたく、実践しがたい。サートヴァタたちは常にそれを保持する。

12.358.56

धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा ।
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ॥ १२.३५८.५६ ॥

このダルマの知と正しく行われた行為、そして不殺のダルマに結ばれることによって、主なるハリは喜ばれる。

12.358.57

एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः ।
त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते ॥ १२.३५८.५७ ॥

ある所では一つのヴィユーハの区分、あるいは二ヴィユーハと呼ばれる。三ヴィユーハも数えられ、四ヴィユーハも見られる。

12.358.58

हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा ।
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ॥ १२.३५८.५८ ॥

ハリこそ場を知る者、「我がもの」を離れ、部分なき者である。同様に、あらゆる存在のうちにある生命我もまた彼であり、五大の性質を超えている。

12.358.59

मनश्च प्रथितं राजन्पञ्चन्द्रियसमीरणम् ।
एष लोकनिधिः श्रीमानेषु लोकविसर्गकृत् ॥ १२.३५८.५९ ॥

王よ、名高い意は五感の風である。この栄光ある者は諸世界の宝庫であり、それらの中にあって世界の放出を行う者である。

12.358.60

अकर्ता चैव कर्ता च कार्यं कारणमेव च ।
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः ॥ १२.३५८.६० ॥

彼は不作者であり、また作者でもある。結果であり、また原因でもある。王よ、彼の望むままに、不滅のプルシャは戯れる。

12.358.61

एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम ।
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः ॥ १२.३५८.६१ ॥

王の中で最も優れた者よ、師の恩寵により、私はあなたにこの専一なるダルマを説いた。自己を制していない者には理解しがたい。

12.358.62

एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप ।
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दनः ॥ १२.३५८.६२ ॥

王よ、専一なる人々は実に稀である。もし世界が専一なる者たちで満ちていたならば、クルの歓喜よ。

12.358.63

अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः ।
भवेत्कृतयुगप्राप्तिराशीः कर्मविवर्जिता ॥ १२.३५८.६३ ॥

非暴力で、自己を知り、一切衆生の利益を喜ぶ者たちによって、クリタ・ユガが到来するであろう。その祝福は行為を離れたものである。

12.358.64

एवं स भगवान्व्यासो गुरुर्मम विशांपते ।
कथयामास धर्मज्ञो धर्मराजे द्विजोत्तमः ॥ १२.३५८.६४ ॥

このように、ダルマを知る二度生まれし者の中で最も優れた尊きヴィヤーサ、わが師は、人々の主よ、ダルマ王にこれを説いたのであった。

12.358.65

ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः ।
तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः ॥ १२.३५८.६५ ॥

王よ、聖仙たちの前で、クリシュナとビーシュマが聞いている時、大苦行者ナーラダが先にこれを彼に説いていたのである。

12.358.66

देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् ।
यत्र चैकान्तिनो यान्ति नारायणपरायणाः।
तदेव परमं स्थानं मुक्तानां केवलं भवेत् ॥ १२.३५८.६६ ॥

白く月光のような不滅の至高なるブラフマンの神、一心専念し、ナーラーヤナに帰依する者たちが赴く所へ。それのみが解脱者の至上の住処である。

12.358.67

एवं बहुविधं धर्मं प्रविबुद्धैर्निषेवितम् ।
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ॥ १२.३५८.६७ ॥

目覚めた人々が守るこのような多様なダルマを、様々な誓願に立つ婆羅門たちや他の人々はなぜ行わないのでしょうか。

12.358.68

तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः ।
सात्विकी राजसी चैव तामसी चैव भारत ॥ १२.३५८.६८ ॥

王よ、身体の束縛の中に三つの性質が生じる。サットヴァ、ラジャス、タマスである。バラタの子孫よ。

12.358.69

देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह ।
सात्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः ॥ १२.३५८.६९ ॥

身体の束縛の中の最上の人よ、クル族を担う者よ。サットヴァの人中の虎は、必ずや解脱に定められている。

12.358.70

अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम् ।
नारायणां परं मोक्षे ततो वै सात्विकः स्मृतः ॥ १२.३५८.७० ॥

ここでも彼は、ブラフマンの最も優れた知者であり、解脱において最高なナーラーヤナである人を知る。それゆえ彼はサットヴァと伝えられる。

12.358.71

मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम् ।
एकान्तभक्तः सततं नारायणपरायणः ॥ १२.३५८.७१ ॥

最上の人を思念することで、彼は望むものを得る。常に一途な信者であり、ナーラーヤナに専心する者である。

12.358.72

मनीषिणो हि ये केचिद्यतयो मोक्षधर्मिणः ।
तेषां विच्छिन्नतृष्णानां योगक्षेमवहो हरिः ॥ १२.३५८.७२ ॥

解脱のダルマに専心し、渇愛を断った賢者や苦行者たちにとって、ハリこそが獲得と守護を担う者である。

12.358.73

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥ १२.३५८.७३ ॥

生まれてくる人をマドゥスーダナが見つめるなら、その人は純質者と知るべきであり、彼は解脱へと定められている。

12.358.74

साङ्ख्ययोगेन तुल्यो हि धर्म एकान्तिसेवितः ।
नारायणात्मके मोक्षे ततो यान्ति परां गतिं ॥ १२.३५८.७४ ॥

サーンキヤとヨーガに等しいそのダルマは、一途な信者たちが実践する。ナーラーヤナそのものである解脱において、彼らは最高の境地に至る。

12.358.75

नारायणेन दृष्टस्तचु प्रतिबुद्धो भवेत्पुमान् ।
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते ॥ १२.३५८.७५ ॥

ナーラーヤナに見られた人は目覚める。このように、王よ、自己の意志によって目覚めた者は再び生まれない。

12.358.76

राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते ।
तदात्मकं हि पुरुषं जायमानं विशांपते।
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् ॥ १२.३५८.७६ ॥

ラジャスとタマスは混ざった二つの本性と言われる。人主よ、その本性を持ち活動の特徴を備えて生まれた人を、ハリ自身は見ない。

12.358.77

पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः ।
रजसा तपसा चैव मानसं समभिप्लुतम् ॥ १२.३५८.७७ ॥

世界の祖父ブラフマーは、生まれてくる彼を見つめる。ラジャスと苦行によって心が満たされた者を。

12.358.78

कामं देवाश्च ऋषयः सत्वस्था नृपसत्तम ।
हीनाः सत्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥ १२.३५८.७८ ॥

まことに、王の中の最上者よ、神々と聖仙たちはサットヴァに住する。しかし微細なサットヴァに欠けるため、彼らは変化者と呼ばれる。

12.358.79

कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् ।
वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम् ॥ १२.३५८.७९ ॥

変容者(vaikārika)はどのようにしてプルシャ・ウッタマ(至高の人)に至るのか。見たとおりすべてを、その道筋を順序立てて語ってください。

12.358.80

सुसूक्ष्मं तत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः ।
पुरुषः पुरुषं गच्छेन्निष्क्रियं पञ्चविंशकम् ॥ १२.३५८.८० ॥

極めて微細で、諸原理と結ばれ、三つの音節と合一し、不活動の第二十五原理を伴って、人は人へと赴くべし。

12.358.81

एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च ।
परस्पराङ्गान्येतानि पाञ्चरात्रं च कथ्यते ॥ १२.३५८.८१ ॥

このように、サーンキヤとヨーガ、そしてアーラニヤカを伴うヴェーダは一つであり、これらは互いを支える支分である。パーンチャラートラもまたそう言われる。

12.358.82

एष एकान्तिनां धर्मो नारायणपरात्मकः ॥ १२.३५८.८२ ॥

これは一途な者(エーカーンティン)の法であり、その自己はナーラーヤナに全く捧げられている。

12.358.83

यथा समुद्रात्प्रसृता जलौघा ।
स्तमेव राजन्पुनराविशन्ति।
इमे तथा ज्ञानमहाजलौघा ।
नारायणं वै पुनराविशन्ति ॥ १२.३५८.८३ ॥

海から広がった水の流れが再びそこへ入るように、王よ、この知識の大洪水もまたナーラーヤナへ再び入るのだ。

12.358.84

एष ते कथितो धर्मः सात्वतो यदुबान्धव ।
कुरुष्वैनं यथान्यायं यदि शक्तोसि भारत ॥ १२.३५८.८४ ॥

ヤドゥの親族よ、このサートヴァタの法はあなたに説かれた。バーラタよ、もし可能ならば、正しく実践せよ。

12.358.85

एवं हि स महाभागो नारदो गुरवे मम ।
श्वेतानां यतिनां चाह एकान्तगतिमख्याम् ॥ १२.३५८.८५ ॥

このように、大福のナーラダは私の師に、白衣の行者たちについて唯一の道を語られた。

12.358.86

व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते ।
स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः ॥ १२.३५८.८६ ॥

ヴィヤーサは慈しみをもって、智慧あるダルマの子にこれを語った。その同じ教えを、師から広げて、私は今あなたに語った。

12.358.87

इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम ।
यथैव त्वं तथैवान्ये न भजन्ति च मोहिताः ॥ १२.३५८.८७ ॥

このように、このダルマは実践しがたい。王の中の最上者よ。あなたが行わないように、他の迷った人々も行わない。

12.358.88

कृष्ण एव हि लोकानां भावनो मोहनस्तथा ।
संहारकारकश्चैव कारणं च विशांपते ॥ १२.३५८.८८ ॥

クリシュナこそが諸世界の創造者であり、幻惑者であり、また破壊者である。人の主よ、彼こそが原因である。