摩诃婆罗多 · 章 12.360
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.360.1
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ।
को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ॥ १२.३६०.१ ॥
婆罗门啊,补鲁沙是众多还是唯一?这里谁是最殊胜的补鲁沙,他的根源又被称为何物?
12.360.2
बहवः पुरुषा लोके साङ्ग्ययोगविचारणे ।
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥ १२.३६०.२ ॥
在世间,于数论与瑜伽的探究中,补鲁沙众多;但他们不认为这一补鲁沙是唯一的,俱卢族的翘楚啊。
12.360.3
बहनां पुरुषाणां च यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ॥ १२.३६०.३ ॥
正如众多补鲁沙据说只有一个根源,我将阐述那位在德性上殊胜的宇宙补鲁沙。
12.360.4
नमस्कृत्वा च गुरवे व्यासाय विदितात्मने ।
तपोयुक्ताय दान्ताय वन्द्याय परमपये ॥ १२.३६०.४ ॥
向我的导师毗耶娑致敬——他了知自我,具足苦行,克己自持,值得崇敬,是至上之施予者——
12.360.5
इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव ।
ऋतं सत्यं च विख्यातमृपिसिंहेन चिन्तितम् ॥ १२.३६०.५ ॥
大王啊,这首补鲁沙颂见于一切吠陀之中;经诸仙中之狮所思惟,以“理”与“真”而闻名。
12.360.6
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः ।
अध्यान्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ॥ १२.३६०.६ ॥
婆罗多之后啊,以迦毗罗等诸仙为首,依“通则”与“例外”,依托内省的思惟,宣说了这些论典。
12.360.7
समासतेस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् ।
तत्तेऽहं संप्रवक्ष्यामि प्रसादादमितौजसः ॥ १२.३६०.७ ॥
毗耶娑简要所说的补噜沙之一性,我将借无量威力者之恩典,完整地向你阐述。
12.360.8
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशांपते ॥ १२.३६०.८ ॥
此处人们也引述这段古老的故事:梵天与三目(湿婆)的对话,人民之主啊。
12.360.9
क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः ।
वैजयन्त इति ख्यातः पर्वतप्रवरो नृप ॥ १२.३६०.९ ॥
在乳海中央,金光闪耀,名为毗阇衍多,乃诸山之最,大王啊。
12.360.10
तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् ।
वैराजसदनान्नित्यं वैजयन्तं निपेवते ॥ १२.३६०.१० ॥
那位神独自深思自我之道,常从毗罗阇的居所前往毗阇衍多山。
12.360.11
अथ तत्राऽऽसतस्तस्य चतुर्वक्रस्य धीमतः ।
ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया।
आकाशेन महायोगी पुरा त्रिनयनः प्रभुः ॥ १२.३६०.११ ॥
那时,坐在那里的智慧四面者之子,从其额头所生的湿婆,大瑜伽行者、三目主,出于自愿,经天空而来。
12.360.12
ततः खान्निपपाताशु धरणीधरमूर्धनि ।
अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः ॥ १२.३६०.१२ ॥
于是他迅速从天空降落在山巅,欢喜地走到他面前,向他的双足顶礼。
12.360.13
तं पादयोनिंपतितं दृष्ट्वा सव्येन पाणिना ।
अत्थापयामास तदा प्रभुरेकः प्रजापतिः।
उवाच चैनं भगवांश्चिरस्यागतमात्मजम् ॥ १२.३६०.१३ ॥
他见其跪倒在脚下,唯一的主宰生主便以左手扶起他。随后世尊对这位久别归来的儿子说道。
12.360.14
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोसि मेऽन्तिकम् ।
कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा।
नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः ॥ १२.३६०.१४ ॥
欢迎你,大臂者;幸运的是你来到了我的身边。孩子,你的诵习与苦行是否一直安好?你常行猛烈苦行,因此我再次问你。
12.360.15
त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम ।
कृशलं चाव्ययं चैव सर्वस्य जगतस्त्वथ ॥ १२.३६०.१५ ॥
蒙您的恩典,世尊,我的诵习与苦行安好,整个世界的不灭安康也是如此。
12.360.16
चिरदृष्टोमि भगवन्वैराजसदने मया ।
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् ॥ १२.३६०.१६ ॥
世尊,我很久没在毗罗阇的住处见到您了。之后我来到了这座受您足迹眷顾的山。
12.360.17
कौतूहलं चापि हि मे एकान्तगमनेन ते ।
नैतत्कारणमल्पं हि भविष्यति पितामह ॥ १२.३६०.१७ ॥
您独自前往幽静之处,也引起了我的好奇;祖父啊,此中缘由必不简单。
12.360.18
किंनु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् ।
सुरासुरैरध्युपितमृषिभिश्चामितप्रभैः ॥ १२.३६०.१८ ॥
那么,那无饥无渴、为天神、阿修罗与无量光辉的仙人所居的殊胜住所是什么呢?
12.360.19
गन्धर्वैरेप्सरोभिश्च सततं संनिषेवितम् ।
उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ॥ १२.३६०.१९ ॥
你离开了这座常有乾闼婆与阿普萨拉斯侍奉的最好的山,独自来到了这里。
12.360.20
वैजयन्तो गिरिवरः सततं सेव्यते मया ।
अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् ॥ १२.३६०.२० ॥
这座名为毗阇衍多的最好的山,常被我所侍奉。在这里,人们以专一的心念冥想宇宙之主毗罗吒补鲁沙。
12.360.21
बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयंभुव ।
सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट् ॥ १२.३६०.२१ ॥
梵天啊,自生者啊!你所创造的众多补鲁沙,以及其他正在被创造的,都不是那唯一的宇宙补鲁沙毗罗吒。
12.360.22
को ह्यसौ चिन्त्यते ब्रह्मंस्त्वयैकः पुरुषोत्तमः ।
एतन्मे संशयं छिन्धि महत्कौतूहलं हि मे ॥ १२.३६०.२२ ॥
梵天啊,你所思念的那位独一无上的补鲁沙究竟是谁?请为我断除这疑惑,我心中有极大的好奇。
12.360.23
बहवः पुरुषाः पुत्र त्वया ये समुदाहृताः ।
एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि ॥ १२.३६०.२३ ॥
孩子啊,你所说的那众多补鲁沙,都已经如此超越过去了。应当这样看待他们;也应当不这样看待。
12.360.24
आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते ।
बहूनां पुरुषाणां स यथैका योनिरुच्यते ॥ १२.३६०.२४ ॥
但我要告诉你那唯一补鲁沙的根基,正如人们说,一个唯一的源头是众多补鲁沙的起源。
12.360.25
तथा तं पुरुषं विश्वं परमं सुमहत्तमम् ।
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ॥ १२.३६०.२५ ॥
同样,他们成为无德者,进入那遍在、至上、极其伟大的人,即永恒者之中。