Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.361

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.361.1

शृणु पुत्र यथाह्येष पुरुषः शाश्वतोऽव्ययः ।
अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥ १२.३६१.१ ॥

孩子,听着。这位补卢沙,正如所说,被称为永恒、不灭、不衰、不可度量、遍在一切者。

12.361.2

न स शक्यस्त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम ।
सगुणैर्निर्गुणैर्विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥ १२.३६१.२ ॥

善人中最优秀者啊,他不能被你、被我或被其他人所见。无论有德或无德,他即是宇宙;人们认为他只能通过智慧而被看见。

12.361.3

अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ।
वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ॥ १२.३६१.३ ॥

他虽无身体,却住于一切身体之中;虽住于身体之中,他却不被业所染。

12.361.4

ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः ।
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचिक्वचित् ॥ १२.३६१.४ ॥

他是我、你以及其他称为身体者的内在自我,是一切的见证者。他不能被任何人、在任何地方所把握。

12.361.5

विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः ।
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥ १२.३६१.५ ॥

头在处处,臂在处处,足、眼、鼻在处处者——他独一,在诸田野中随意游走,任其所欢。

12.361.6

क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभम् ।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ १२.३६१.६ ॥

身体确实是田地,善与恶的行为是种子。知晓它们、以瑜伽为自我的人,因此被称为“知田者”。

12.361.7

नागतिर्न गतिस्तस्य ज्ञेया भूतेषु केनचित् ।
साङ्ख्येन विधिना चैव योगेन च यथाक्रमम् ॥ १२.३६१.७ ॥

他无来无去;众生中无人能知晓他。依次通过数论之法与瑜伽,方可知之。

12.361.8

चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तराम् ।
यथाज्ञानं तु वक्ष्यामि पुरुषं तु सनातनम् ॥ १२.३६१.८ ॥

我思考他的道路,却不知他更高的道路。然而,依我所知,我将谈论那永恒的补鲁沙。

12.361.9

तस्यैकत्वं महत्त्वं च स चैकः पुरुषः स्मृतः ।
महापुरुषशब्दं स बिभर्त्येकः सनातनः ॥ १२.३६१.९ ॥

他的一体与伟大使他被称为唯一的补鲁沙。唯独这位永恒的唯一者,承载着“大补鲁沙”之名。

12.361.10

स्तं निर्गुणं पुरुषं चाविशन्ति ॥ १२.३६१.१० ॥

受赞颂者进入无德的补鲁沙之中。

12.361.11

हित्वा गुणमयं सर्वं कर्मं हित्वा शुभाशुभम् ।
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥ १२.३६१.११ ॥

舍弃一切由德性构成的行为,舍弃善与恶,舍弃真与假两者——如此,人便成为无德者。

12.361.12

अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् ।
विचरेद्योऽसमुन्नद्धः स गच्छेत्पुरुषं शुभम् ॥ १२.३६१.१२ ॥

知其不可思议,又知存在的微妙四重状态,行于无傲慢之中者,便能到达吉祥的补鲁沙。

12.361.13

एकं हि परमात्मानं केचिदिच्छन्ति पण्डिताः ।
एकात्मानं तथाऽऽत्मानमपरेध्यात्मचिन्तकाः ॥ १२.३६१.१३ ॥

有些智者认为唯一的至上我是一;另一些人称之为一我,而思考内在自我者则称之为我。

12.361.14

तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः ।
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥ १२.३६१.१४ ॥

其中,至上我被认为是永恒而无属性的。应当知道他就是那罗延,他是一切的自我,即原人。

12.361.15

न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ।
कर्मात्मा त्वपरो योसौ मोक्षबन्धैः स युज्यते ॥ १२.३६१.१५ ॥

如莲花叶不被水沾湿,他也不被果报所染;但另一个作业之我,则与解脱和束缚相连。

12.361.16

ससप्तदशकेनापि राशिना युज्यते च सः ।
एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ॥ १२.३६१.१६ ॥

他也与第十七组相连。如此,原人的多种形态已按次序向你宣说。

12.361.17

यत्तत्कृत्स्नं लोकतन्त्रस्य धाम ।
वेद्यं परं बोधनीयं च वेदैः।
मन्ता मन्तव्यं प्राशिता प्राशनीयं ।
घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ॥ १२.३६१.१७ ॥

那是世界秩序的全部依归,是至上的应知之物,应由吠陀来开示:思者与所思,食者与所食,嗅者与所嗅,触者与所触。

12.361.18

द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं ।
ज्ञाता ज्ञेयं सगुणं निर्गुणं च।
यद्वै प्रोक्तं तात सम्यक्प्रधानं ।
नित्यं चैतच्छाश्वतं चाव्ययं च ॥ १२.३६१.१८ ॥

见者与所见,闻者与所闻,知者与所知,有属性与无属性。亲爱的孩子,凡被正确宣说为本原者,即是永恒、常住、不灭的。

12.361.19

यद्वै सूते धातुराद्यं विधानं ।
तद्वै विप्राः प्रवदन्तेऽनिरुद्धम्।
यद्वै लोके वैदिकं कर्म साधु ।
आशीर्युक्तं तद्धि तस्योपभोग्यम् ॥ १२.३६१.१९ ॥

造物主最初所立的那一套法度,智者婆罗门称之为阿尼鲁达。世间正当的吠陀祭祀,连同祝福,确实归他享用。

12.361.20

देवाः सर्वे मनुयः साधु दान्ता ।
स्तं प्राग्वंशे यज्ञभागं भजन्ते।
अहं ब्रह्मा आद्य ईशः प्रजानां ।
तस्माज्जातस्त्वं च मत्तः प्रसूतः ॥ १२.३६१.२० ॥

一切天神与人类,善于克制者,在前代世系中都分得祭祀之份。我是梵天,众生的初主;因此你诞生了,从我而生。

12.361.21

मत्तो जगज्जङ्गमं स्थावरं च ।
सर्वे वेदाः सरहस्या हि पुत्र ॥ १२.३६१.२१ ॥

从我而生,有动的世界,也有不动的万物;还有一切吠陀及其秘义,我儿。

12.361.22

चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति ।
एवं स भगवान्देवः स्वेन ज्ञानेन बोधयत् ॥ १२.३६१.२२ ॥

原人分为四份,随其所愿而嬉戏。如此,那位世尊之神以自身的智慧使人觉悟。

12.361.23

एतत्ते कथितं पुत्र यथावदनुपृच्छतः ।
साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम् ॥ १२.३६१.२३ ॥

儿啊,这些已按你所问的如实告诉了你;在数论之知与瑜伽中,也已如实讲述。