摩诃婆罗多 · 章 12.363
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.363.1
आसीत्किल नरश्रेष्ठ महापद्मे पुरोत्तमे ।
गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः ॥ १२.३६३.१ ॥
啊,人中之最,在名为摩诃波頭的殊胜城市里,恒河南岸住着一位婆罗门,他自制而专注。
12.363.2
सौम्यः सोमान्वये जातो जितात्मा गोत्रतो भृगुः ।
धर्मनित्यो जितक्रोधो नित्यतप्तो जितेन्द्रियः ॥ १२.३६३.२ ॥
他温和,生于月神之族,克己,以种姓属婆里古,恒守法度,战胜愤怒,常行苦行,control诸根。
12.363.3
तपःस्वाध्यायनिरतः सत्यः सज्जनसंमतः ।
न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः ॥ १२.३६३.३ ॥
他专修苦行与诵习吠陀,真实不欺,为善人所敬,拥有以正道获得的财富和自己的德行。
12.363.4
ज्ञाति संबन्धिविपुले पुत्रपौत्रप्रतिष्ठिते ।
कुले महति विख्याते विशिष्टां वृत्तिमास्थितः ॥ १२.३६३.४ ॥
他居于一个庞大而显赫的家族,亲属众多,子孙昌盛,并采取了殊胜的生活方式。
12.363.5
स पुत्रान्बहुलाँल्लब्ध्वा विपुले कर्मणि स्थितः ।
कुलधर्माश्रितो राजन्धरर्मचर्यास्थितोऽभवत् ॥ १२.३६३.५ ॥
大王啊,他得到许多儿子,安于庞大的家业;依循家族之法,他便坚定地奉行正法。
12.363.6
ततः स धर्मं वेदोक्तं तथा शास्त्राक्तमेव च ।
शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा ॥ १२.३६३.६ ॥
于是他在心中思量三种法:吠陀所说之法、论典所说之法,以及贤者所行之法。
12.363.7
किंनु मे स्याच्छुभं कृत्वा किं कृतं किं परायणम् ।
इत्येवं चिन्तयन्नित्यं न च याति विनिश्चयम् ॥ १२.३६३.७ ॥
“对我而言什么是善?做什么才是善?什么是最高的归宿?”他时常如此思虑,却始终无法作出决断。
12.363.8
तस्यैवं चिन्त्यमानस्य धर्मं परममास्थितः ।
कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः ॥ १२.३६३.८ ॥
当他如此思虑、坚守最高的法之时,一次来了一位客人,是一位心志专一、克制自持的婆罗门。
12.363.9
स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना ।
विश्रान्तं सुसमासीनमिदं वचनमब्रवीत् ॥ १२.३६३.९ ॥
他依礼以相应的仪式恭敬地款待了他。待这位婆罗门休息完毕、安然就座后,他说出了这些话。