摩诃婆罗多 · 章 12.37
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.37.1
प्रवेशने तु पार्थानां जनानां पुरवासिनाम् ।
दिदृक्षूणां सहस्राणि समाजग्मुः सहस्रशः ॥ १२.३७.१ ॥
在般度子孙入城之时,城中居民中渴望一睹风采者,成千上万地聚集而来。
12.37.2
स राजमार्गः शुशुभे समलंकृतचत्वरः ।
यथा चन्द्रोदये राजन्वर्धमानो महोदधिः ॥ १२.३७.२ ॥
大王啊,那装饰精美的十字路口的王道,闪耀如同月出时涨潮的大海。
12.37.3
गृहाणि राजमार्गेषु रत्नवन्ति महान्ति च ।
प्राकम्पन्तीव भारेण स्त्रीणां पूर्णानि भारत ॥ १२.३७.३ ॥
王道两旁,镶满珠宝的巨大宅第,充满了女子的重量,仿佛在颤动,婆罗多啊。
12.37.4
ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम् ।
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ ॥ १२.३७.४ ॥
那些女子似乎带着羞涩,缓缓地赞美着坚战、怖军、阿周那,以及摩德利的两个儿子、般度五子。
12.37.5
धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान् ।
उपतिष्ठसि कल्याणि महर्षिमिव गौतमी ॥ १२.३७.५ ॥
般遮罗女啊,你真是有福!吉祥的人啊,你侍奉最优秀的男子,如同瞿昙妻侍奉大仙人一般。
12.37.6
तव कर्माण्यमोघानि व्रतचर्या च भामिनि ।
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः ॥ १२.३७.६ ॥
你的行为无有过失,光彩照人的女子啊,你的持戒也是如此。大王啊,当时女子们就这样赞美克利希那。
12.37.7
प्रशंसावचनैस्तासां मिथः शब्दैश्च भारत ।
प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम् ॥ १२.३७.७ ॥
婆罗多啊,那时,由于她们的赞誉之词、彼此的话语声以及因喜悦而发出的声音,全城喧嚣不已。
12.37.8
तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः ।
अलंकृतं शोभमानमुपापाद्राजवेश्म ह ॥ १२.३७.८ ॥
尤迪西提拉如礼穿过那条装饰华丽、光彩夺目的御道,抵达了王宫。
12.37.9
ततः प्रकृतयः सर्वाः पौरा जानपदास्तदा ।
ऊचुः कर्णसुखा वाचः समुपेत्य ततस्ततः ॥ १२.३७.९ ॥
于是,所有臣民、城中居民和乡间百姓从四面八方走近,说出悦耳的话语。
12.37.10
दिष्ट्या जयसि राजेन्द्र शत्रूञ्छत्रुनिषूदन ।
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च ॥ १२.३७.१० ॥
幸运的是你获得胜利,诸王之主啊,灭敌者啊!幸运的是,王国依靠法与力量重新得回。
12.37.11
भव नस्त्वं महाराज राजेह शरदां शतम् ।
प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं तथा ॥ १२.३७.११ ॥
伟大的国王啊,愿您在此做我们的国王,度过一百个秋天。愿您以法护佑臣民,如因陀罗护佑天界。
12.37.12
एवं राजकुलद्वारि मङ्गलैरभिपूजितः ।
आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः ॥ १२.३७.१२ ॥
就这样,他在王宫门前被吉祥之语所礼敬,四面八方接受了再生者们所说的祝福。
12.37.13
प्रविश्य भवनं राजा देवराजगृहोपमम् ।
श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत् ॥ १२.३७.१३ ॥
国王进入如同众神之王宫殿的宫室,听闻胜利的消息后,从车上从后面下来。
12.37.14
प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च ।
पूजयामास रत्नैश्च गन्धमाल्यैश्च सर्वशः ॥ १२.३७.१४ ॥
进入内室后,这位光荣的人走近诸神,以宝石、香料和花环从各方面供奉他们。
12.37.15
निश्चक्राम ततः श्रीमान्पुनरेव महायशाः ।
ददर्श ब्राह्मणांश्चैव सोऽभिरूपानवस्थितान् ॥ १२.३७.१५ ॥
然后,这位光荣而大名鼎鼎的人再次走出,看见了站立在那里的俊美婆罗门。
12.37.16
स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः ।
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा ॥ १२.३७.१६ ॥
此时,他被渴望诵出祝福的婆罗门所环绕,光辉如同被星群环绕的无瑕明月。
12.37.17
तांस्तु वै पूजयामास कौन्तेयो विधिवद्द्विजान् ।
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा।
गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः ॥ १२.३७.१७ ॥
王中之王啊,贡提之子依礼供养那些再生者:以花朵与甜点、宝石、大量黄金、牛、衣服以及各种所愿之物。
12.37.18
धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च ।
प्रविवेश सभां राजा सुधर्मां वासवो यथा ॥ १२.३७.१८ ॥
他让导师达乌美耶与长辈之父走在前面,国王进入议事厅,正如婆薮(因陀罗)进入善法殿。
12.37.19
ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत ।
सुहृदां प्रीतिजननः पुण्यः श्रुतिसुखावहः ॥ १२.३७.१९ ॥
于是,婆罗多之子啊,吉祥的 puṇyāha 之声响起,仿佛天空也为之凝定。它使友人欢喜,神圣而悦耳。
12.37.20
हंसवन्नेदुषां राजन्द्विजानां तत्र भारती ।
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा ॥ १२.३७.२० ॥
大王啊,那里传来精通吠陀的再生者之语,如天鹅般悠扬,充满义理、词句与音节。
12.37.21
ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः ।
जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप ॥ १२.३७.२१ ॥
于是鼓声雷鸣,海螺声悦耳动人;大王啊,那里也响起了高呼胜利者的声音。
12.37.22
निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः ।
राजानं ब्राह्मणच्छझा चार्वाको राक्षसोऽब्रवीत् ॥ १२.३७.२२ ॥
众婆罗门再次安静就座之后,化身婆罗门的罗刹遮婆迦对国王说道。
12.37.23
तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः ।
साङ्ख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ॥ १२.३७.२३ ॥
那里有难敌的朋友,隐藏在苦行僧的形象之中:数论派之人,留着发髻,持三杖,大胆无畏。
12.37.24
वृतः सर्वैस्तथा विप्रैराशीर्वादविवक्षुभिः ।
परस्सहस्रै राजेन्द्र तपोनियमसंस्थितैः ॥ १२.३७.२४ ॥
众王之主啊,他被所有婆罗门围绕,多达数千,安住于苦行与戒律之中,都想献上祝福。
12.37.25
सुदुष्टः पापमाशंसुः पाण्डवानां महात्मनाम् ।
अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम् ॥ १२.३७.२५ ॥
那个极其邪恶、意欲加害大德般度子孙的人,未邀请那些婆罗门,便对那位大地之主说道。
12.37.26
इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि ।
धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै ॥ १२.३७.२६ ॥
这些婆罗门都借我之口说道:可耻啊,你这恶王,杀害亲族的人!
12.37.27
किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम् ।
घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम् ॥ १२.३७.२७ ॥
贡蒂之子啊,你造成这般亲族毁灭、又使师长被杀,这王国对你有何益处?死比生更好。
12.37.28
इति ते वै द्विजाः श्रुत्वा तस्य दुष्टस्य रक्षसः ।
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः ॥ १२.३७.२८ ॥
那些婆罗门听了那恶罗刹的话,心中痛苦,被他的言辞所辱,便高声呼喊起来。
12.37.29
ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः ।
व्रीडिताः परमोद्विग्रास्तूष्णीमासन्विशांपते ॥ १२.३७.२९ ॥
于是,所有婆罗门和国王坚战,羞愧而极度不安,沉默不语,人主啊。
12.37.30
प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः ।
प्रत्यासन्नव्यसनिनं न मां धिक्कर्तुमर्हथ ॥ १२.३७.३० ॥
诸位尊者,请对我这向你们俯首恳求的人施以慈悲;我身处灾难之近,诸位不应责备我。
12.37.31
ततो राजन्ब्राह्माणास्ते सर्व एव विशांपते ।
ऊचुर्नैष द्विजोऽस्माकमन्यस्तु तव पार्थिव ॥ १२.३७.३१ ॥
于是,大王,所有婆罗门,人民之主啊,说道:此人不是我们的再生者,他是你那边的另一人,大王。
12.37.32
जज्ञुश्चैनं महात्मानस्ततस्तं ज्ञानचक्षुषा ।
ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः ॥ १२.३७.३२ ॥
于是,那些以苦行而清净的大德婆罗门,精通吠陀者,以智慧之眼认出了他。
12.37.33
एष दुर्योधनसखा विश्रुतो ब्रह्मराक्षसः ।
परिव्राजकरूपेण हितं तस्य चिकीर्षति ॥ १२.३७.३३ ॥
此人是著名的梵罗刹,难敌的朋友;他以游方苦行者的形象,想要为他谋利。
12.37.34
न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम् ।
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह ॥ १२.३७.३४ ॥
我们并非如此说。正法之人啊,愿你这样的恐惧消散;愿吉祥与你的兄弟们一同降临于你。
12.37.35
ततस्ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्च्छिताः ।
निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् ॥ १२.३७.३५ ॥
于是那些婆罗门,被愤怒所困,以“吽”声斥责,身心清净,击杀了那罪恶的罗刹。
12.37.36
स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम् ।
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव ॥ १२.३७.३६ ॥
他被那些宣说吠陀者的威力完全烧毁而倒下,如同发芽的树木被因陀罗的大雷电击中焚毁一般。
12.37.37
पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम् ।
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः ॥ १२.३७.३७ ॥
受到尊敬的婆罗门们祝贺了那位国王后便离去;般度王与他的亲友和臣民一同获得了喜悦。