Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.372

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.372.1

विवस्वतो गच्छति पर्ययेण ।
वोडुं भवांस्तं यथमेकचक्रम्।
आश्चर्यभूतं यदि तत्र किंचि ।
द्दृष्टं त्वयाशंसितुमर्हसि त्वम् ॥ १२.३७२.१ ॥

毗婆娑之子太阳依次运行。你如何驾驭那辆独轮车?若你在那里见过什么奇异之事,你应当讲述。

12.372.2

आश्चर्याणामनेकानां प्रतिष्ठा भगवान्रविः ।
यतो भूताः प्रवर्तन्ते सर्वे त्रैलोक्यसंमताः ॥ १२.३७२.२ ॥

尊贵的太阳是众多奇迹的根基;三界所尊敬的一切众生皆由他而生起、运行。

12.372.3

यस्य रश्मिसहस्रेषु शाखास्विव विहंगमाः ।
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ १२.३७२.३ ॥

在其千道光芒之中,犹如鸟栖于树枝,成就的圣贤与诸神一同依止而居。

12.372.4

यतो पायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान् ।
विजृम्भत्यम्बरे तत्र किमाश्चर्यमतः परम् ॥ १२.३७२.४ ॥

大风从其中发出,依托太阳的光线,在天空中广大地散布开来——还有什么比这更大的奇迹呢?

12.372.5

विभज्यं तं तु विप्रर्षे प्रजानां हितकाम्यया ।
तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ॥ १२.३७२.५ ॥

婆罗门中的圣贤啊,他为众生之利,将其分化,在雨季降下水来——还有什么比这更大的奇迹呢?

12.372.6

यस्य मण्डलमध्यस्थो महात्मा परमत्विषा ।
ीप्तः समीक्षतेऽलोकान्किमाश्चर्यमतः परम् ॥ १२.३७२.६ ॥

其圆轮中央的大神,以至上光辉灼灼闪耀,俯瞰诸世界——还有什么比这更大的奇迹呢?

12.372.7

शुक्रो नामासितः पादो यश्च वारिधरोऽम्बरे ।
तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ॥ १२.३७२.७ ॥

名为沙克罗的那一暗部,在天空中化为云,于雨季降下雨水——还有什么比这更奇妙的呢?

12.372.8

योऽष्टमासांस्तु शुचिना किरणेनोक्षितं पयः ।
प्रत्यादत्ते पुनः काले किमाश्चर्यमतः परम् ॥ १२.३७२.८ ॥

在八个月中以纯净光线吸起的水,到了适当的时候又重新收回——还有什么比这更奇妙的呢?

12.372.9

यस्य तेजोविशेषेषु स्वयमात्मा प्रतिष्ठितः ।
यतो बीजं मही चेयं धार्यते सचराचरम् ॥ १२.३७२.९ ॥

其特殊的光辉之中,自我本身得以安立;此大地由之而为种子,连同动与不动之物一同被承载。

12.372.10

यत्र देवो महाबाहुः शाश्वतः पुरुषोत्तमः ।
अनादिनिधनो विप्र किमाश्चर्यमतः परम् ॥ १२.३७२.१० ॥

大臂之神、永恒的至上人,无始无终,就在那里——婆罗门啊,还有什么比这更奇妙的呢?

12.372.11

आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु ।
विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात् ॥ १२.३७२.११ ॥

在诸多奇迹之中,请听我说这一件:我在晴朗的天空中,借着太阳的依托所见的景象。

12.372.12

पुरा मध्याह्नसमये लोकांस्तपति भास्करे ।
प्रत्यादित्यप्रतीकाशः सर्वतः समदृश्यत ॥ १२.३७२.१२ ॥

往昔正午时分,太阳炙烤着诸世界,它从四面八方望去,宛如另一个太阳。

12.372.13

स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन् ।
आदित्याधिमुखोऽभ्येति गगनं पाटयन्निव ॥ १२.३७२.१३ ॥

他以光辉使一切世界黯然失色,面向太阳,仿佛要劈开天空般走近。

12.372.14

हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः ।
अनिर्देश्येन रूपेण द्वितीय इव भास्करः ॥ १२.३७२.१४ ॥

如投入火中的供品,以光辉之光线充满光明,形貌难以言说,宛如第二个太阳。

12.372.15

तस्याभिगमनप्राप्तौ हस्तौ दत्तौ विवस्वता ।
तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चितार्थिना ॥ १२.३७२.१५ ॥

他走近时,毗婆娑特伸出双手给他;那位以敬意回礼的求者,也伸出了他的右手。

12.372.16

ततो भित्त्वैव गगन प्रविष्टो रश्मिमण्डलम् ।
एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम् ॥ १२.३७२.१६ ॥

随即,他穿透天空,进入光线之圆;那光辉在瞬间合为一体,获得了太阳的本性。

12.372.17

तत्र नः संशयो जातस्तयोस्तेजः समागमे ।
अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः ॥ १२.३७२.१७ ॥

在他们二者光辉交汇之处,我们生出了疑惑:这二者之中谁是太阳?这个站在战车上前来的人是谁?

12.372.18

ते वयं जातसंदेहाः पर्यपृच्छामहे रविम् ।
क एष दिवमाक्रम्य गतः सूर्य इवापरः ॥ १२.३७२.१८ ॥

我们满怀疑惑,向太阳请问:这位登上天空、像另一个太阳般离去的人是谁?