摩诃婆罗多 · 章 12.374
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.374.1
आश्चर्यं नात्र संदेहः सुप्रीतोस्मि भुजङ्गम ।
अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः ॥ १२.३७४.१ ॥
这真是奇事,毫无疑问。蛇啊,我非常欣慰,因为你以有意义的言语为我指明了道路。
12.374.2
स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम ।
स्मरणीयोस्मि भवता संप्रेषणनियोजनैः ॥ १२.३७४.२ ॥
愿你平安,我现在要走了。善良的你,蛇中之最,因你的派遣与指引,我值得你记念。
12.374.3
अनुक्त्वा हृद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् ।
उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः ॥ १२.३७४.३ ॥
你心中之事尚未说出,现在要去哪里?二生者啊,请说出你来此的目的。
12.374.4
उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ ।
मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि सुव्रत ॥ १२.३७४.४ ॥
事情说出或未说出,待任务完成后,婆罗门中的雄牛啊,你向我告辞并得到我的许可之后,便可离去,持誓者啊。
12.374.5
न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह ।
गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा ॥ १२.३७४.५ ॥
你仅仅看见了我,满怀情意,就这样离开此地是不合适的,婆罗门中的圣哲啊,就像在树根下歇息后便离去的人一样。
12.374.6
त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः ।
लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ ॥ १२.३७४.६ ॥
我在你之中,你在我之中,毫无疑问,婆罗门中最优秀的人啊。这整个世界都属于你。无过失者啊,你还有什么可担心我的?
12.374.7
एवमेतन्महाप्राज्ञ विदितात्मन्भुजङ्गम ।
नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम् ॥ १२.३७४.७ ॥
确实如此,大智者,了知自我者,蛇啊。诸神在任何方面都不胜过你;他们正如其真实的样子。
12.374.8
स एव त्वं स एवाहं योऽहं स तु भवानपि ।
अहं भवांश्च भूतानि सर्वे यत्र गताः सदा ॥ १२.३७४.८ ॥
你即是彼,我亦即是彼;我所是者,你亦是。我、你以及一切众生,都在它们始终所归之处。
12.374.9
आसीत्तु मे भोगिपते संशयः पुण्यरसंचये ।
सोहमुञ्छव्रतं साधो चरिष्याम्यर्थसाधनम्
एष मे निश्चयः साधो कृतं कारणमुत्तमम् ।
आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजङ्गम ॥ १२.३७४.९ ॥
蛇王啊,我对积聚功德之精华心存疑虑。因此,善人啊,我将奉行拾穗之誓,以成就所求之目的。善人啊,这是我的决心,这是最上的理由。我告辞了,愿你吉祥,蛇啊,我的目的已经达成。