Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.38.1

ततस्तत्र तु राजानं तिष्ठन्ते भ्रातृभिः सह ।
उवाच देवकीपुत्रः सर्वदर्शी जनार्दनः ॥ १२.३८.१ ॥

那时,站在兄弟们身旁的国王,被德瓦基之子、全知者遮那达那(黑天)所说。

12.38.2

ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम ।
एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः ॥ १२.३८.२ ॥

亲爱的,在这世上,婆罗门始终应受我的尊敬。他们是行于大地的神,言语是他们的毒,他们容易被取悦。

12.38.3

पुरा कृतयुगे राजंश्चार्वाको नाम राक्षसः ।
तपस्तेपे महाबाहो बदर्यां बहुवार्षिकम् ॥ १२.३८.३ ॥

往昔在克里塔纪,大王,有一名叫遮尔瓦迦的罗刹。大臂者啊,他在菩提树林(Badarī)苦修了多年。

12.38.4

वरेण च्छन्द्यमानश्च ब्रह्मणा च पुनः पुनः ।
अभयं सर्वभूतेभ्यो वरयामास भारत ॥ १२.३८.४ ॥

梵天一再请他选择一个恩赐,婆罗多啊,他便请求免受一切众生之惧。

12.38.5

द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम् ।
अभयं सर्वभूतेभ्यो ददौ तस्मै जगत्पतिः ॥ १२.३८.५ ॥

除了侮辱婆罗门之外,他获得了至上的恩赐;世界之主赐予他免受一切众生之惧。

12.38.6

स तु लब्धवरः पापो देवानमितविक्रमः ।
राक्षसस्तापयामास तीव्रकर्मा महाबलः ॥ १२.३८.६ ॥

获得恩赐后,那名邪恶的罗刹,勇力无量、强大而行事残酷,开始折磨诸神。

12.38.7

ततो देवाः समेताश्च ब्रह्माणमिदमब्रुवन् ।
वधाय रक्षसस्तस्य बलविप्रकृतास्तदा ॥ १२.३८.७ ॥

于是诸天聚集,对梵天说道:为了杀死那罗刹,因为他们当时已被他的力量所侵害。

12.38.8

तानुवाच ततो देवो विहितं तत्र वै मया ।
यथाऽस्य भविता मृत्युरचिरणेति भारत ॥ १२.३८.८ ॥

那位天神对他们说:“婆罗多啊,我已经安排好了他将如何很快死去。”

12.38.9

राजा दुर्योधनो नाम सखाऽस्य भविता नृषु ।
तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते ॥ १२.३८.९ ॥

“在人类之中,名叫难敌的国王将成为他的朋友;他被对其的情感所束缚,将轻视婆罗门。”

12.38.10

तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः ।
धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति ॥ १२.३८.१० ॥

“那时,婆罗门们因受辱而震怒,将以言语的力量焚烧他;那罪人便将走向毁灭。”

12.38.11

स एष निहतः शेते ब्रह्मदण्डेन राक्षसः ।
चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ ॥ १२.३८.११ ॥

“这罗刹遮婆迦已被婆罗门的梵杖所杀而倒下。最好的国王啊,婆罗多族的雄牛啊,不要悲伤。”

12.38.12

हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव ।
स्वर्गताश्च महात्मानो वीराः क्षत्रियपुङ्गवाः ॥ १२.३८.१२ ॥

“国王啊,你的亲族因刹帝利之法而被杀;那些伟大的英雄,刹帝利中的雄牛,已升天了。”

12.38.13

स त्वमातिष्ठ कार्याणि मा ते भूद्वुद्धिरन्यथा ।
शत्रूञ्जहि प्रजा रक्ष द्विजांश्च परिपूजय ॥ १२.३८.१३ ॥

你当承担你的职责,不可心志转向他途。诛灭敌人,保护臣民,充分敬重二生者。